अक्षर आकार:

श्रीशिवसहस्रनामस्तोत्रम् स्कन्दपुराणान्तर्गतम्

Shri Shiva Sahasranama Stotram

श्रीशिवसहस्रनामस्तोत्रम् स्कन्दपुराणान्तर्गतम्

श्रीगणेशाय नमः । श्रीभैरवाय नमः । श्रीउमामहेश्वराभ्यां नमः ॥ अरुन्धत्युवाच । मुने वद महाभाग नारदेन यथा स्तुतः । सहस्रनामभिः पुण्यैः पापघ्नैः सर्वकामदैः ॥ १॥ यानि यानि च नामानि नारदोक्तानि वै मुने । रागोत्पत्तिं विस्तरेण नामानि च वद प्रिय ॥ २॥ वसिष्ठ उवाच । साधु साधु महाभागे शिवभक्तिर्यतस्त्वयि । तपःशुद्धो नारदोऽसौ ददर्श परमेश्वरम् ॥ ३॥ दृष्ट्वा तद्वै परं ब्रह्म सर्वज्ञो मुनिपुङ्गवः । सस्मार प्रियनामानि शिवोक्तानि प्रियां प्रति ॥ ४॥ नारदोऽस्य ऋषिः प्रोक्तोऽनुष्टुप्च्छन्दः प्रकीर्तितः । श्रीशिवः परमात्मा वै देवता समुदाहृता ॥ ५॥ धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । सर्वारम्भप्रसिद्ध्यर्थमाधिव्याधिनिवृत्तये ॥ ६॥ अस्य श्रीशिवसहस्रनामस्तोत्रमहामन्त्रस्य नारद ऋषिः । अनुष्टुप् छन्दः । परमात्मा श्रीशिवो देवता । धर्मार्थकाममोक्ष चतुर्विधपुरुषार्थसिध्यर्थे सर्व कर्म(कामना) सिध्यर्थे सर्व आधि व्याधि निवृत्यर्थे सहस्रनामजपे विनियोगः । नारद उवाच । श्रीशिवः शिवदो भव्यो भावगम्यो वृषाकपिः । वृषध्वजो वृषारूढो वृषक वृषेश्वरः ॥ ७॥ शिवाधिपः शितः शम्भुः स्वयम्भूरात्मविद्विभुः । सर्वज्ञोबहुहन्ताचभवानीपतिरच्युतः ॥ ८॥ तन्त्रशास्त्रप्रमोदी च तन्त्रशास्त्रप्रदर्शकः । तन्त्रप्रियस्तन्त्रग्मयोतन्त्रोवानन्ततन्त्रकः ॥ ९॥ तन्त्रीनादप्रियोदेवोभक्ततन्त्रविमोहितः । तन्त्रात्मातन्त्रनिलयस्तन्त्रदर्शीसुतन्त्रकः ॥ १०॥ महादेव उमाकान्तश्चन्द्रशेखर ईश्वरः । धूर्ज्जटिस्त्र्यम्बको धूर्तो धूर्तशत्रुरमावसुः ॥ ११॥ वामदेवो मृडः शम्भुः सुरेशो दैत्यमर्दनः । अन्धकारहरो दण्डो ज्योतिष्मान् हरिवल्लभः ॥ १२॥ गङ्गाधरो रमाकान्तः सर्वनाथः सुरारिहा । प्रचण्डदैत्यविध्वंसी जम्भारातिररिन्दमः ॥ १३॥ दानप्रियो दानदो दानतृप्तो दानवान्तकः । करिदानप्रियो दानी दानात्मा दानपूजितः ॥ १४॥ दानगम्यो ययातिश्च दयासिन्धुर्दयावहः । भक्तिगम्यो भक्तसेव्यो भक्तिसन्तुष्टमानसः ॥ १५॥ भक्ताभयप्रदो भक्तो भक्ताभीष्टप्रदायकः । भानुमान् भानुनेत्रश्च भानुवृन्दसमप्रभः ॥ १६॥ सहस्रभानुः स्वर्भानुरात्मभानुर्जयावहः । जयन्तो जयदो यज्ञो यज्ञात्मा यज्ञविज्जयः ॥ १७॥ जयसेनो जयत्सेनो विजयो विजयप्रियः । जाज्वल्यमानो ज्यायांश्च जलात्मा जलजो जवः ॥ १८॥ पुरातनः पुरारातिस्त्रिपुरघ्नो रिपुघ्नकः । पुराणः पुरुषः पुण्यः पुण्यगम्योऽतिपुण्यदः ॥ १९॥ प्रभञ्जनः प्रभु पूर्णः पूर्णदेवः प्रतापवान् । प्रबलोऽतिबलो देवो वेदवेद्यो जनाधिपः ॥ २०॥ नरेशो नारदो मानी दैत्यमानविमर्दनः । अमानो निर्ममो मान्यो मानवो मधुसूदनः ॥ २१॥ मनुपुत्रो मयारातिर्मङ्गलो मङ्गलास्पदः । मालवो मलयावासो महोभिः संयुतोनलः ॥ २२॥ नलाराध्यो नीलवासा नलात्मा नलपूजितः । नलाधीशो नैगमिको निगमेन सुपूजितः ॥ २३॥ निगमावेद्यरूपो हि धन्यो धेनुरमित्रहा । कल्पवृक्षः कामधेनुर्धनुर्धारी महेश्वरः ॥ २४॥ दामनो दामिनीकान्तो दामोदर हरेश्वरः । दमो दान्ता दयावान्श्च दानवेशो दनुप्रियः ॥ २५॥ दन्वीश्वरो दमी दन्ती दन्वाराध्यो जनुप्रदः । आनन्दकन्दो मन्दारिर्मन्दारसुमपूजितः ॥ २६॥ नित्यानन्दो महानन्दो रमानन्दो निराश्रयः । निर्जरो निर्जरप्रीतो निर्जरेश्वरपूजितः ॥ २७॥ कैलासवासी विश्वात्मा विश्वेशो विश्वतत्परः । विश्वम्भरो विश्वसहो विश्वरूपो महीधरः ॥ २८॥ केदारनिलयो भर्ता धर्ता हर्ता हरीश्वरः । विष्णुसेव्यो जिष्णुनाथो जिष्णुः कृष्णो धरापतिः ॥ २९॥ बदरीनायको नेता रामभक्तो रमाप्रियः । रमानाथो रामसेव्यः शैब्यापतिरकल्मषः ॥ ३०॥ धराधीशो महानेत्रस्त्रिनेत्रश्चारुविक्रमः । त्रिविक्रमो विक्रमेशस्त्रिलोकेशस्त्रयीमयः ॥ ३१॥ वेदगम्यो वेदवादी वेदात्मा वेदवर्द्धनः । देवेश्वरो देवपूज्यो वेदान्तार्थप्रचारकः ॥ ३२॥ वेदान्तवेद्यो वैष्णवश्च कविः काव्यकलाधरः । कालात्मा कालहृत्कालः कलात्मा कालसूदनः ॥ ३३॥ केलीप्रियः सुकेलिश्च कलङ्करहितः क्रमः । कर्मकर्ता सुकर्मा च कर्मेशः कर्मवर्जितः ॥ ३४॥ मीमांसाशास्त्रवेत्ता यः शर्वो मीमांसकप्रियः । प्रकृतिः पुरुषः पञ्चतत्त्वज्ञो ज्ञानिनां वरः ॥ ३५॥ साङ्ख्यशास्त्रप्रमोदी च सङ्ख्यावान्पण्डितः प्रभुः । असङ्ख्यातगुणग्रामो गुणात्मा गुणवर्जितः ॥ ३६॥ निर्गुणो निरहङ्कारो रसाधीशो रसप्रियः । रसास्वादी रसावेद्यो नीरसो नीरजप्रियः ॥ ३७॥ निर्मलो निरनुक्रोशी निर्दन्तो निर्भयप्रदः । गङ्गाख्योतोयं च मीनध्वजविमर्दनः ॥ ३८॥ अन्धकारिबृहद्दंष्ट्रो बृहदश्वो बृहत्तनुः । बृहस्पतिः सुराचार्यो गीर्वाणगणपूजितः ॥ ३९॥ वासुदेवो महाबाहुर्विरूपाक्षो विरूपकः । पूष्णो दन्तविनाशी च मुरारिर्भगनेत्रहा ॥ ४०॥ वेदव्यासो नागहारा विषहा विषनायकः । विरजाः सजलोऽनन्तो वासुकिश्चापराजितः ॥ ४१॥ बालो वृद्धो युवा मृत्युर्मुत्युहा भालचन्द्रकः । बलभद्रो बलारातिर्दृढधन्वावृषध्वजः ॥ ४२॥ प्रमथेशो गणपतिः कार्तिकेयो वृकोदरः । अग्निगर्भोऽग्निनाभश्च पद्मनाभः प्रभाकरः ॥ ४३॥ हिरण्यगर्भो लोकेशो वेणुनादः प्रतर्दनः । वायुर्भगो वसुर्भर्गो दक्षः प्राचेतसो मुनिः ॥ ४४॥ नादब्रह्मरतो नादी नन्दनावास अम्बरः । अम्बरीषोम्बुनिलयो जामदग्न्यः परात्परः ॥ ४५॥ कृतवीर्यसुतो राजा कार्तवीर्यप्रमर्दनः । जमदग्निर्जातरूपो जातरूपपरिच्छदः ॥ ४६॥ कर्पूरगौरो गौरीशो गोपतिर्गोपनायकः । प्राणीश्वरः प्रमाणज्ञो प्रमेयोऽज्ञाननाशनः ॥ ४७॥ हंसो हंसगतिर्मीनो ब्रह्मा लोकपितामहः । यमुनाधीश्वरो याम्यो यमभीतिविमर्दनः ॥ ४८॥ नारायणो नारपूज्यो वसुवर्णो वसुप्रियः । वासवो बलहा वृत्रहन्ता यन्ता पराक्रमी ॥ ४९॥ बृहदीशो बृहद्भानुर्वर्द्धनो बालवः परः । शरभो नरसंहारी कोलशत्रुर्विभाकरः ॥ ५०॥ रथचक्रो दशरथो रामः शस्त्रभृतां वरः । नारदीयो नरानन्दो नायकः प्रमथारिहा ॥ ५१॥ रुद्रो रौद्रौ रुद्रमुख्यो रौद्रात्मा रोमवर्जितः । जलन्धरहरो हव्यो हविर्द्धामा बृहद्धविः ॥ ५२॥ रविः सप्तार्चिरनघो द्वादशात्मा दिवाकरः । प्रद्योतनो दिनपतिः सप्तसप्तिर्मरीचिमान् ॥ ५३॥ सोमोब्जो ग्लौश्च रात्रीशः कुजो जैवात्रिको बुधः । शुक्रो दैत्यगुरुर्भौमो भीमो भीमपराक्रमः ॥ ५४॥ शनिः पङ्गुर्मदान्धो वै भङ्गाभक्षणतत्परः । राहुः केतुः सैंहिकेयो ग्रहात्माग्रहपूजितः ॥ ५५॥ नक्षत्रेशोऽश्विनीनाथो मैनाकनिलयः शुभः । विन्ध्याटवीसमाच्छन्नः सेतुबन्धनिकेतनः ॥ ५६॥ कूर्मपर्वतवासी च वागीशो वाग्विदाम्वरः । योगेश्वरो महीनाथः पातालभुवनेश्वरः ॥ ५७॥ काशिनाथो नीलकेशो हरिकेशो मनोहरः । उमाकान्तो यमारातिर्बौद्धपर्वतनायकः ॥ ५८॥ तटासुरनिहन्ता च सर्वयज्ञसुपूजितः । गङ्गाद्वारनिवासो वै वीरभद्रो भयानकः ॥ ५९॥ भानुदत्तो भानुनाथो जरासन्धविमर्दनः । यवमालीश्वरः पारो गण्डकीनिलयो हरः ॥ ६०॥ शालग्रामशिलावासी नर्मदातटपूजितः । बाणलिङ्गो बाणपिता बाणधिर्बाणपूजितः ॥ ६१॥ बाणासुरनिहन्ता च रामबाणो भयापहः । रामदूतो रामनाथो रामनारायणोऽव्ययः ॥ ६२॥ पार्वतीशः परामृष्टो नारदो नारपूजितः । पर्वतेशः पार्वतीयः पार्वतीप्राणवल्लभः ॥ ६३॥ सर्वेश्वरः सर्वकर्ता लोकाध्यक्षो महामतिः । निरालम्बो हठाध्यक्षो वननाथो वनाश्रयः ॥ ६४॥ श्मशानवासी दमनो मदनारिर्मदालयः । भूतवेतालसर्वस्वः स्कन्दः स्कन्दजनिर्जनः ॥ ६५॥ वेतालशतनाथो वै वेतालशतपूजितः । वेतालो भैरवाकारो वेतालनिलयो बलः ॥ ६६॥ भूर्भुवः स्वर्वषट्कारो भूतभव्यविभुर्महः । जनो महस्तपः सत्यं पातालनिलयो लयः ॥ ६७॥ पत्री पुष्पी फली तोयी महीरूपसमाश्रितः । स्वधा स्वाहा नमस्कारो भद्रो भद्रपतिर्भवः ॥ ६८॥ उमापतिर्व्योमकेशो भीमधन्वा भयानकः । पुष्टस्तुष्टोधराधारो बलिदो बलिभृद्बली ॥ ६९॥ ओङ्कारो नृमयो मायी विघ्नहर्ता गणाधिपः । ह्रीं ह्रौं गम्यो हौं जूँ सः हौं शिवायनमो ज्वरः ॥ ७०॥ द्राँ द्राँ रूपो दुराधर्षो नादबिन्द्वात्मकोऽनिलः । रस्तारो नेत्रनादश्च चण्डीशो मलयाचलः ॥ ७१॥ षडक्षरमहामन्त्रः शस्त्रभृच्छस्त्रनायकः । शास्त्रवेत्ता तु शास्त्रीशः शस्त्रमन्त्रप्रपूजितः ॥ ७२॥ निर्वपुः सुवपुः कान्तः कान्ताजनमनोहरः । भगमाली भगो भाग्यो भगहा भगपूजितः ॥ ७३॥ भगपूजनसन्तुष्टो महाभाग्यसुपूजितः । पूजारतो विपाप्मा च क्षितिबीजो धरोप्तिकृत् ॥ ७४॥ मण्डलो मण्डलाभासो मण्डलार्द्धो विमण्डलः । चन्द्रमण्डलपूज्यो वै रविमण्डलमन्दिरः ॥ ७५॥ सर्वमण्डलसर्वस्वः पूजामण्डलमण्डितः । पृथ्वीमण्डलवासश्च भक्तमण्डलपूजितः ॥ ७६॥ मण्डलात्परसिद्धिश्च महामण्डलमण्डलः । मुखमण्डलशोभाढ्यो राजमण्डलवर्जितः ॥ ७७॥ निष्प्रभः प्रभुरीशानो मृगव्याधो मृगारिहा । मृगाङ्कशोभो हेमाढ्यो हिमात्मा हिमसुन्दरः ॥ ७८॥ हेमहेमनिधिर्हेमो हिमानीशो हिमप्रियः । शीतवातसहः शीतो ह्यशीतिगणसेवितः ॥ ७९॥ आशाश्रयो दिगात्मा च जीवो जीवाश्रयः पतिः । पतिताशी पतिः पान्थो निःपान्थोनर्थनाशकः ॥ ८०॥ बुद्धिदो बुद्धिनिलयो बुद्धो बुद्धपतिर्धवः । मेधाकरो मेधमानो मध्यो मध्यो मधुप्रियः ॥ ८१॥ मधुव्यो मधुमान्बन्धुर्धन्धुमारो धवाश्रयः । धर्मी धर्मप्रियो धन्यो धान्यराशिर्धनावहः ॥ ८२॥ धरात्मजो धनो धान्यो मान्यनाथो मदालसः । लम्बोदरो लङ्करिष्णुर्लङ्कानाथसुपूजितः ॥ ८३॥ लङ्काभस्मप्रियो लङ्को लङ्केशरिपुपूजितः । समुद्रो मकरावासो मकरन्दो मदान्वितः ॥ ८४॥ मथुरानाथको तन्द्रो मथुरावासतत्परः । वृन्दावनमनः प्रीतिर्वृन्दापूजितविग्रहः ॥ ८५॥ यमुनापुलिनावासः कंसचाणूरमर्दनः । अरिष्टहा शुभतनुर्माधवो माधवाग्रजः ॥ ८६॥ वसुदेवसुतः कृष्णः कृष्णाप्रियतमः शुचिः । कृष्णद्वैपायनो वेधाः सृष्टिसंहारकारकः ॥ ८७॥ चतुर्विधो विश्वहर्ता धाता धर्मपरायणः । यातुधानो महाकायो रक्षःकुलविनाशनः ॥ ८८॥ घण्टानादो महानादो भेरीशब्दपरायणः । परमेशः पराविज्ञो ज्ञानगम्यो गणेश्वरः ॥ ८९॥ पार्श्वमौलिश्चन्द्रमौलिर्धर्ममौलिः सुरारिहा । जङ्घाप्रतर्दनो जम्भो जम्भारातिरिन्दमः ॥ ९०॥ ओङ्कारगम्यो नादेशः सोमेशः सिद्धिकारणम् । अकारोऽमृतकल्पश्च आनन्दो वृषभध्वजः ॥ ९१॥ आत्मा रतिश्चात्मगम्यो यथार्थात्मा नरारिहा । इकारश्चेतिकालश्च इति होतिप्रभञ्जनः ॥ ९२॥ ईशितारिभवो ऋक्ष ऋकारवरपूजितः । ऌवर्णरूपो ऌकारो ऌवर्णस्थो ऌरात्मवान् ॥ ९३॥ (लरात्मवान्) ऐरूपो महानेत्रो जन्ममृत्युविवर्जितः । ओतुरौतुरन्डजस्थो हन्तहन्ता कलाकरः ॥ ९४॥ कालीनाथः खञ्जनाक्षो खण्डोखण्डितविक्रमः । गन्धर्वेशो गणारातिर्घण्टाभरणपूजितः ॥ ९५॥ ङकारो ङीप्रत्ययश्च चामरश्चामराश्रयः । चीराम्बरधरश्चारुश्चारुचञ्चुश्वरेश्वरः ॥ ९६॥ छत्री छत्रपतिश्छात्रश्छत्रेशश्छात्रपूजितः । झर्झरो झङ्कृतिर्झञ्जा झञ्झेशो झम्परो झरः ॥ ९७॥ झङ्केशाण्डधरो झारिष्टं कष्टं कारपूजितः । रोमहारिर्वृषारिश्च ढुण्ढिराजो झलात्मजः ॥ ९८॥ ढोलशब्दरतो ढक्का ढकारेण प्रपूजितः । तारापतिस्ततस्तन्तुस्तारेशः स्तम्भसंश्रितः ॥ ९९॥ थवर्णस्थूत्करःस्थूलो दनुजो दनुजान्तकृत् । दाडिमीकुसुमप्रख्यो दान्तारिर्दर्दरातिगः ॥ १००॥ दन्तवक्रो दन्तजिह्वा दन्तवक्रविनाशनः । धवो धवाग्रजो धुन्धुधौन्धुमारिर्धराधरः ॥ १०१॥ धम्मिल्लिनीजनानन्दो धर्माधर्मविवर्जितः । नागेशो नागनिलियो नारदादिभिरार्चितः ॥ १०२॥ नन्दो नन्दीपतिर्नन्दी नन्दीश्वरसहायवान् । पणः प्रणीश्वरः पान्थः पाथेयः पथिकार्चितः ॥ १०३॥ पानीयाधिपतिः पाथः फलवान् फलसंस्कृतः । फणीशतविभूषा च फणीफूत्कारमण्डितः ॥ १०४॥ फालः फल्गुरथः फान्तो वेणुनाथो वनेचरः । वन्यप्रियो वनानन्दो वनस्पतिगणेश्वरः ॥ १०५॥ वालीनिहन्ता वाल्मीको वृन्दावनकुतूहली । वेणुनादप्रियो वैद्यो भगणो भगणार्चितः ॥ १०६॥ भेरूण्डो भासको भासी भास्करो भानुपूजितः । भद्रो भाद्रपदो भाद्रो भद्रदो भाद्रतत्परः ॥ १०७॥ मेनकापतिमन्द्राश्वो महामैनाकपर्वतः । मानवो मनुनाथश्च मदहा मदलोचनः ॥ १०८॥ यज्ञाशी याज्ञिको यामी यमभीतिविमर्दनः । यमको यमुनावासो यमसंयमदायकः ॥ १०९॥ रक्ताक्षो रक्तदन्तश्च राजसो राजसप्रियः । रन्तिदेवो रत्नमतीरामनाथो रमाप्रियः ॥ ११०॥ लक्ष्मीकरो लाक्षणिको लक्षेशो लक्षपूजितः । लम्बोदरो लाङ्गलिको लक्षलाभपितामहः ॥ १११॥ बालको बालकप्रीतो वरेण्यो बालपूजितः । शर्वः शर्वी शरी शास्त्री शर्वरीगणसुन्दरः ॥ ११२॥ शाकम्भरीपीठसंस्थः शाकद्वीपनिवासकः । षोढासमासनिलयः षण्ढः षाढवमन्दिरः ॥ ११३॥ षाण्डवाडम्बरः षाण्ड्यः षष्ठीपूजनतत्परः । सर्वेश्वरः सर्वतत्त्वः सामगम्योसमानकः ॥ ११४॥ सेतुः संसारसंहर्ता सारः सारस्वतप्रियः । हर्म्यनाथो हर्म्यकर्ता हेतुहा निहनो हरः ॥ ११५॥ हालाप्रियो हलापाङ्गो हनुमान्पतिरव्ययः । सर्वायुधधरोभीष्टो भयो भास्वान् भयान्तकृत् ॥ ११६॥ कुब्जाम्रकनिवासश्च झिण्टीशो वाग्विदांवरः । रेणुकादुःखहन्ता च विराटनगरस्थितः ॥ ११७॥ जमदग्निर्भार्गवो वै पुलस्त्यः पुलहः क्रतुः । क्रान्तिराजो द्रोणपुत्रोऽश्वत्थामा सुरथी कृपः ॥ ११८॥ कामाख्यनिलयो विश्वनिलयो भुवनेश्वरः । रघूद्वहो राज्यदाता राजनीतिकरोव्रणः ॥ ११९॥ राजराजेश्वरीकान्तो राजराजसुपूजितः । सर्वबन्धविनिर्मुक्तः सर्वदारिद्र्यनाशनः ॥ १२०॥ जटामण्डलसर्वस्वो गङ्गाधारासुमण्डितः । जीवदाताशयो धेनुर्यादवो यदुपुङ्गवः ॥ १२१॥ मूर्खवागीश्वरो भर्गो मूर्खविद्या दयानिधिः । दीनदुःखनिहन्ता च दीनदाता दयार्णवः ॥ १२२॥ गङ्गातरङ्गभूषा च गङ्गाभक्तिपरायणः । भगीरथप्राणदाता ककुत्स्थनृपपूजितः ॥ १२३॥ मान्धातृजयदो वेणुः पृथुः पृथुयशः स्थिरः । जाल्मपादो जाल्मनाथो जाल्मप्रीतिविवर्द्धनः ॥ १२४॥ सन्ध्याभर्ता रौद्रवपुर्महानीलशिलास्थितः । शम्भलग्रामवासश्च प्रियानूपमपत्तनः ॥ १२५॥ शाण्डिल्यो ब्रह्मशौण्डाख्यः शारदो वैद्यजीवनः । राजवृक्षो ज्वरघ्नश्च निर्गुण्डीमूलसंस्थितः ॥ १२६॥ अतिसारहरो जातीवल्कबीजो जलं नभः । जाह्नवीदेशनिलयो भक्तग्रामनिकेतनः ॥ १२७॥ पुराणगम्यो गम्येशः स्कान्दादिप्रतिपादकः । अष्टादशपुराणानां कर्ता काव्येश्वरः प्रभुः ॥ १२८॥ जलयन्त्रो जलावासो जलधेनुर्जलोदरः । चिकित्सको भिषग्वैद्यो निर्लोभो लोभतस्करः ॥ १२९॥ चिदानन्दश्चिदाभासचिदात्मा चित्तवर्जितः । चित्स्वरूपश्चिरायुश्च चिरायुरभिदायकः ॥ १३०॥ चीत्कारगुणसन्तुष्टोऽचलोऽनन्तप्रदायकः । मासः पक्षो ह्यहोरात्रमृतुस्त्वयनरूपकः ॥ १३१॥ संवत्सरः परः कालः कलाकाष्ठात्मकः कलिः । सत्यं त्रेता द्वापरश्च तथा स्वायम्भुवः स्मृतः ॥ १३२॥ स्वारोचिषस्तामसश्च औत्तमी रैवतस्तथा । चाक्षुषो वैवस्वतश्च सावर्णिः सूर्यसम्भवः ॥ १३३॥ दक्षसावर्णिको मेरुसावर्णिक इतिप्रभः । रौच्यो भौत्यस्तथा गव्यो भूतिदश्च तथा दरः ॥ १३४॥ रागज्ञानप्रदो रागी रागी रागपरायणः । नारदः प्राणनिलयो नीलाम्बरधरोऽव्ययः ॥ १३५॥ अनेकनामा गङ्गेशो गङ्गातीरनिकेतनः । गङ्गाजलनिवासश्च गङ्गाजलपरायणः ॥ १३६॥ वसिष्ठ उवाच । नाम्नोमेतत्सहस्रं वै नारदेनोदितं तु यत् । तत्तेद्य कथितं देवि सर्वापत्तिनिवारणम् ॥ १३७॥ पठतः स्तोत्रमेतद्वै नाम्नां साहस्रमीशितुः । दारिद्रयं नश्यते क्षिप्रं षड्भिर्मासैर्वरानने ॥ १३८॥ यस्येदं लिखितं गेहे स्तोत्रं वै परमात्मनः । नित्यं सन्निहतस्तत्र महादेवः शिवान्वितः ॥ १३९॥ स एव त्रिषु लोकेषु धन्यः स्याच्छिवभक्तितः । शिव एव परं ब्रह्म शिवान्नास्त्यपरः क्वचित् ॥ १४०॥ ब्रह्मरूपेण सृजति पाल्यते विष्णुरूपिणा । रुद्ररूपेण नयति भस्मसात् स चराचरम् ॥ १४१॥ (नश्यति) तस्मात्सर्वप्रयत्नेन मुमुक्षुः शिवमभ्यसेत् । स्तोत्रं सहस्रनामाख्यं पठित्वा श्रीशिवो भवेत् ॥ १४२॥ यं यं चिन्तयते कामं तं तं प्राप्नोत्यसंशयम् । पुत्रार्थी लभते पुत्रान्धनार्थी लभते धनम् ॥ १४३॥ राज्यार्थी लभते राज्यं यस्त्विदं नियतः पठेत् । दुःस्वप्ननाशनं पुण्यं सर्वपापप्रणाशनम् ॥ १४४॥ नास्मात्किञ्चिन्महाभागे ह्यन्यदस्ति महीतले । तावद्गर्जन्ति पापानि शरीरस्थान्यरुन्धति ॥ १४५॥ यावन्नपठते स्तोत्रं श्रीशिवस्य परात्मनः । सिंहचौरग्रहग्रस्तो मुच्यते पठनात्प्रिये ॥ १४६॥ सर्वव्याधिविनिर्मुक्तो लभते परमं सुखम् । प्रातरुत्थाय यः स्तोत्रं पठेत भक्तितत्परः ॥ १४७॥ सर्वापत्तिविनिर्मुक्तो धनधान्यसुतान्वितः । जायते नात्र सन्देह शिवस्य वचनं यथा ॥ १४८॥ इति शन्दपुराणान्तर्गतं श्रीशिवसहस्रनामस्तोत्रं सम्पूर्णम् ।