अक्षर आकार:

श्रीशिवसहस्रनामस्तोत्रं शिवरहस्ये नवमांशे अध्याय २

Shri Shiva Sahasranama Stotra from Shivarahasya 92

श्रीशिवसहस्रनामस्तोत्रं शिवरहस्ये नवमांशे अध्याय २

श्रीगणेशाय नमः ॥ ॥ अथ नवमांशे द्वितीयोऽध्यायः ॥ स्कन्द उवाच - शेषाशेषमुखोद्गीतां नामसारावलीमिमाम् । हाटकेशोरुकटकभूतेनकहीन(न्द्र)केण तु ॥ १॥ सहस्रनाम यत्प्रोक्तं तत्ते वक्ष्याम्यहं श‍ृणु । धन्यं मान्यं महामन्युप्रीतिदायकमुत्तमम् ॥ २॥ नान्येषु दापनीयं ते न देयं वेदमीदृशम् । पञ्चास्य हृदयाशास्यमनुशास्यामि ते हृदि ॥ ३॥ ऋषिरस्यादिशेषो वै देवो देवोमहेश्वरः । सर्वत्र विनियोगोऽस्य कर्मस्वपि सदा द्विज । ध्यानं तस्यानुवक्ष्यामि त्वमेकाग्रमनाः श‍ृणु ॥ ४॥ स्कन्दः उवाच - ध्यायेदिन्दुकलाधरं गिरिधनु सोमाग्निफालोज्ज्वलं वैकुण्ठोरुविपाठबाणसुकरं देवं रथेऽधिष्ठितम् । वेदाश्वं विधिसारथिं गिरिजया चित्तेऽनुसन्दध्महे नानाकारकलाविलासजगदान्ददिसम्पूर्तये ॥ एवं ध्यात्वा महादेवं नाम्ना साहस्रमुत्तमम् । प्रजपेन्नियतो मन्त्री भस्मरुद्राक्षभूषणः ॥ १॥ लिङ्गमभ्यर्चयन्वापि बिल्वकोमलपल्लवैः । पङ्कजैरुत्पलैर्वापि प्रसादाय महेशितुः ॥ २॥ अष्टम्यां वा चतुर्दश्यां पर्वस्वपि विशेषतः । यं यं कामं सदाचित्ते भावयेत्तं तमाप्नुयात् ॥ ३॥ अथ सहस्रनाम स्तोत्रम् । ॐ गङ्गाधरोऽन्धकरिपुः पिनाकी प्रमथाधिपन् । भव ईशान आतार्योऽनेकधन्यो महेश्वरः ॥ १॥ महादेवः पशुपतिः स्थाणुः सर्वज्ञ ईश्वरः । विश्वाधिकः शिवः शान्तो विश्वात्मा गगनान्तरः ॥ २॥ परावरोऽम्बिकानाथः शरदिन्दुकलाधरः । गणेशतातो देवेशो भववैद्यः पितामहः ॥ ३॥ तरणस्तारकस्ताम्रो प्रपञ्चरहितो हरः । विनायकस्तुतपदः क्ष्मारथो नन्दिवाहनः ॥ ४॥ गजान्तको धनुर्धारी वीरघोषः स्तुतिप्रियः । प्रजासहो रणोच्चण्डताण्डवो मन्मथान्तकः ॥ ५॥ शिपिविष्टः शाश्वतात्मा मेघवाहो दुरासदः । आनन्दपूर्णा वर्षात्मा रुद्रः संहारकारकः ॥ ६॥ भगनेत्रप्रमथनो नित्यजेताऽपराजितः । महाकारुणिकः श्वभ्रुः प्रसन्नास्यो मखान्तकः ॥ ७॥ घनाभकण्ठो गरभुक् बब्लुशो वीर्यवर्धनः । प्रकटस्तवनो मानी मनस्वी ज्ञानदायकः ॥ ८॥ कन्दर्पसर्पदर्पघ्नो विषादी नीललोहितः । कालान्तको युगावर्तः सङ्क्रन्दनसुनन्दनः ॥ ९॥ दीनपोषः पाशहन्ता शान्तात्मा क्रोधवर्धनः । कन्दर्पो विसलज्जन्द्रो लिङ्गाध्यक्षो गजान्तकः ॥ १०॥ वैकुण्डपूज्यो विश्वात्मा त्रिणेत्रो वृषभध्वजः । जह्नुजापतिरीशानः स्मशाननिलयो युवा ॥ ११॥ पार्वतीजानिरुह्याढ्यो नाद्यविद्यापरायणः । सामवेदप्रियो वैद्यो विद्याधिपतिरीश्वरः ॥ १२॥ कुमारजनको मारमारको वीरसत्तमः । लम्बलाश्वतरोद्गारिसुफणोत्कृष्टकुण्डलः ॥ १३॥ आनन्दवनवासोऽथ अविमुक्तमहेश्वरः । आङ्कारनिलयो धन्वी कदारेशोऽमितप्रभः ॥ १४॥ नर्मदालिङ्गनिलयो निष्पापजनवत्सलः । महाकैलासलिङ्गात्मा वीरभद्रप्रसादकृत् ॥ १५॥ कालाग्निरुद्रोऽनन्तात्मा भस्माङ्गो गोपतिप्रियः । वेदाश्वः कञ्जजाजानिनेत्रपूजितपादुकः ॥ १६॥ जलनधरवधोद्युक्तदिव्यचक्रप्रदायकः । वामनो विकटो मुण्डस्तुहुण्डकृतसंस्तुतिः ॥ १७॥ फणीश्वरमहाहारो रुद्राक्षकृतकङ्कणः । वीणापाणिर्गानरतो ढक्कावाद्यप्रियो वशी ॥ १८॥ विशालवक्षाः शैलेन्द्रजामाताऽमरसत्तमः । हृत्तमोनाशको बुद्धो जगत्कन्दार्दनो बली ॥ १९॥ पलाशपुष्पपूज्याङ्घ्रिः पलाशनवरप्रदः । सागरान्तर्गतो घोरः सद्योजातोऽम्बिकासखः ॥ २०॥ वामदेवः सामगीतः सोमः सोमकलाधरः । निःसीम महिमोदारो दू(दा)रिताखिलपातकः ॥ २१॥ तपनान्तर्गतो धाता धेनुपुत्रवरप्रदः । बाणहस्तप्रदो नेता नमुचेर्वीर्यवर्धनः ॥ २२॥ नागाजिनाङ्गो नागेशो नागेशवरभुषणः । अगेशशायी भूतेशो गणकोलाहलप्रियः ॥ २३॥ प्रसन्नास्योऽनेकबाहुः शूलधृक् कालतापनः कोलप्रमथनः कूर्ममहाखर्पटधारकः ॥ २४॥ मारसिह्माजिनधरो महालाङ्गलधृग्बली । ककुदुन्मथनो हेतुरहेतुः सर्वकारणः ॥ २५॥ कृशानुरेताः सोत्फुल्लफालनेत्रोऽमरारिहा । मृगबालधरो धन्वी शक्रबाहुविभञ्जकः ॥ २६॥ दक्षयज्ञप्रमथनः प्रमथाधिपतिः शिवः । शतावर्तो युगावर्तो मेघावर्तो दुरासदः ॥ २७॥ मनोजवो जातजनो वेदाधारः सनातनः । पाण्डरागोः(ङ्गो)गोऽजिनाङ्गः कर्मन्दिजनवत्सलः ॥ २८॥ चातुर्होत्रो वीरहोता शतरुद्रीयमध्यगः । भीमो रुद्र उदावर्तो विषमाक्षोऽरुणेश्वरः ॥ २९॥ यक्षराजनुतो नाथो नीतिशास्त्रप्रवर्तकः । कपालपाणिर्भगवान्वैयाघ्रत्वगलङ्कृतः ॥ ३०॥ मोक्षसारोऽध्वराध्यक्ष ध्वजजीवो मरुत्सखः । आरुणोयस्त्वगध्यक्षो कामनारहितस्तरुः ॥ ३१॥ बिल्वपूज्यो बिल्वनीशो हरिदश्वोऽपराजितः । बृहद्रथन्तरस्तुत्यो वामदेव्यस्तवप्रियः ॥ ३२॥ अघोरतर रोचिष्णुर्गम्भीरो मन्युरीश्वरः । कलिप्रवर्तको योगी साङ्ख्यमायाविशारदः ॥ ३३॥ विधारको धैर्यधुर्यः सोमधामान्तरस्थितः । शिपिविष्टो गह्वरेष्टो ज्येष्ठो देवः कनिष्ठकः ॥ ३४॥ पिनाकहस्तोऽवरजो वर्षहरीश्वरः । कवची च निषङ्गी च रथघोषोऽमितप्रभः ॥ ३५॥ कालञ्जरो दन्दशूको विदर्भेशो गणातिगः । गभस्तीशो मुनिश्रेष्ठो महर्षिः संशितव्रतः ॥ ३६॥ कर्णिकारवनावासी करवीरसुमप्रियः । नीलोत्पलमहास्रग्वी करहाटपुरेश्वरः ॥ ३७॥ शतर्चनः परानन्दो ब्राह्मणार्च्योपवीतवान् । बली बालप्रिया धर्मो हिरण्यपतिरप्पतिः ॥ ३८॥ यमप्रमथनोष्णीषी चक्रहस्तः पुरान्तकः । वसुषेणोऽङ्गनादेहः कौलाचारप्रवर्तकः ॥ ३९॥ तन्त्राध्यक्षो मन्त्रमयो गायत्रीमध्यकः शुचिः । वेदात्मा यज्ञसम्प्रीतो गरिष्ठः पारदः कली ॥ ४०॥ ऋग्यजुःसामरूपात्मा सर्वात्मा क्रतुरीश्वरः । हिरण्यगर्भजनको हिरण्याक्षवरप्रदः ॥ ४१॥ दमिताशेषपाषण्डो दण्डहस्तो दुरासदः । दूर्वार्चनप्रियकरो रन्तिदेवोऽमरेश्वरः ॥ ४२॥ अमृतात्मा महादेवो हरः संहारकारकः । त्रिगुणो विखना वाग्मी त्वङ्मांसरुधिरांशकः ॥ ४३॥ वत्सप्रियोऽथ सानुस्थो विष्णू रक्तप्रियो गुरुः । किरातवेषः शोणात्मा रत्नगर्भोऽरुणेक्षणः ॥ ४४॥ सुरासवबलिप्रीतस्तत्पूर्षोऽगन्धदेहवान् । व्योमकेशः कोशहीनः कल्पनारहितोऽक्षमी ॥ ४५॥ सहमानश्च विव्याधी स्फटिकोपलनिर्मलः । मृत्युञ्जयो दुराध्यक्षो भक्तिप्रीतो भयापहः ॥ ४६॥ गन्धर्वगानसुप्रीतो विष्णुगर्भोऽमितद्युतिः । ब्रह्मस्तुतः सूर्यनेत्रो वीतिहोत्रोऽर्जुनान्तकः ॥ ४७॥ गर्वापहारको वाग्मी कुम्भसम्भवपूजितः । मलयो विन्ध्यनिलया महेन्द्रो मेरुनायकः ॥ ४८॥ पार्वतीनायकोऽजय्यो जङ्गमाजङ्गमाश्रयः । कुरुविन्दोऽरुणो धन्वी अस्थिभूषो निशाकरः ॥ ४९॥ समुद्रमथनोद्भूतकालकूटविषादनः । सुरासुरेन्द्रवरदो दयामूर्तिः सहस्रपात् ॥ ५०॥ कारणो वीरणः पुत्री जन्तुगर्भो गरादनः । श्रीशैलमूलनिलयः श्रीमदभ्रसभापतिः ॥ ५१॥ दक्षिणमूर्तिरनघो जलन्धरनिपातनः । दक्षिणो यजमानात्मा दीक्षितो दैत्यनाशनः ॥ ५२॥ कल्माषपादपूज्याङ्घ्रिरतिदो तुरगप्रियः । उमाधवो दीनदयो दाता दान्तो दयापरः ॥ ५३॥ श्रीमद्दक्षिणकैलासनिवासो जनवत्सलः । दर्भरोमा बलोन्नेता तामसोऽन्नविवर्धनः ॥ ५४॥ नमस्कारप्रियो नाथ आनन्दात्मा सनातनः । तमालनीलसुगलः कुतर्कविनिवारकः ॥ ५५॥ कामरूपः प्रशान्तात्मा कारणानां च कारणः । तृणपाणिः कान्तिपरो मणिपाणिः कुलाचलः ॥ ५६॥ कस्तूरीतिलकाक्रान्तफालो भस्मत्रिपुण्ड्रवान् । वारणाङ्गालङ्कृताङ्गो महापापनिवारणः ॥ ५७॥ प्रकाशरूपो गुह्यात्मा बालरूपो बिलेशयः । भिक्षुप्रियो भक्ष्यभोक्ता भरद्वाजप्रियो वशी ॥ ५८॥ कर्मण्यस्तारकोभूत कारणो यानहर्षदः । वृषगामी धर्मगोप्ता कामी कामाङ्ग नाशनः ॥ ५९॥ कारुण्यो वाजरूपात्मा निर्धर्मो ग्रामणीः प्रभुः अरण्यः पशुहर्षश्च सौनिको मेघवाहनः ॥ ६०॥ कुमारगुरुरानन्दो वामनो वाग्भवो युवा । स्वर्धुनीधन्यमौलिश्च तरुराजो महामनाः ॥ ६१॥ कणाशनस्ताम्रघनो मयप्रीतोऽजरामरः । कौणपारिः फालनेत्रो वर्णश्रमपरायणः ॥ ६२॥ पुराणबृन्दसम्प्रीत इतिहासविशारदः । समर्थो नमिताशेषदेवो द्योतकरः फणी ॥ ६३॥ कर्षको लाङ्गलेशश्च मेरुधन्वा प्रजापतिः । उग्रः पशुपतिर्गोप्ता पवमानो विभावसुः ॥ ६४॥ उदावसुर्वीतराग उर्वीशो वीरवर्धनः । ज्वालमालोऽजिताङ्गश्च वैद्युदग्निप्रवर्तकः ॥ ६५॥ कमनीयाकृतिः पाता आषाढो(ढः)षण्ढवर्जितः । पुलिन्दरूपः पुण्यात्मा पुण्यपापफलप्रदः ॥ ६६॥ गार्हपत्यो दक्षिणाग्निः सभ्यो वसथभृत्कविः । द्रुम आहवनीयश्च तस्करोऽथ मयस्करः ॥ ६७॥ शाङ्करो वारिदोऽवार्यो वातचक्रप्रवर्तकः । कुलिशायुधहस्तश्च विकृतो जटिलः शिखी ॥ ६८॥ सौराष्ट्रवासी देवेड्यः सह्यजातीरसंस्थितः । महाकायो वीतभयो गणगीतो विशारदः ॥ ६९॥ तपस्वी तापसाचार्यो द्रुमहस्तोज्ज्वलत्प्रभुः । किन्दमो मङ्कणः प्रीतो जातुकर्णिस्तुतिप्रियः ॥ ७०॥ वेनो वैन्यो विशाखश्चाऽकम्पनः सोमधारकः । उपायदो दारिताङ्गो नानागमविशारदः ॥ ७१॥ काव्यालापैककुशलो मीमांसावल्लभो ध्रुवः । तालमूलनिकेन्तश्च बिल्वमूलप्रपूजितः ॥ ७२॥ वेदाङ्गो गमनोऽगम्यो गव्यः प्रातः फलादनः । गङ्गातीरस्थितो लिङ्गी अलिङ्गो रूपसंश्रयः ॥ ७३॥ श्रान्तिहा पुण्यनिलयः पललाशोऽर्कपूजितः । महेन्द्रविष्णुजनको ब्रह्मतातस्तुतोऽव्ययः ॥ ७४॥ कर्दमेशो मतङ्गेशो विश्वेशो गन्धधारकः । विशालो विमलो जिष्णुर्जयशीलो जयप्रदः ॥ ७५॥ दारिद्र्यमथनो मन्त्री शम्भुः शशिकलाधरः । शिंशुमारः शौनकेज्यः श्वानपः श्वेतजीवदः ॥ ७६॥ मुनिबालप्रियोऽगोत्रो मिलिन्दो मन्त्रसंस्थितः । काशीशः कामिताङ्गश्च वल्लकीवादनप्रियः ॥ ७७॥ हल्लीसलास्यनिपुणः सल्लीलो वल्लरीप्रियः । महापारदसंवीर्यो वह्निनेत्रो जटाधरः ॥ ७८॥ आलापोऽनेकरूपात्मा पुरूषः प्रकृतेः परः । स्थाणुर्वेणुवनप्रीतो रणजित्पाकशासनः ॥ ७९॥ नग्नो निराकृतो धूम्रो वैद्युतो विश्वनायकः । विश्वाधिकः शान्तरवः शाश्वतः सुमुखो महान् ॥ ८०॥ अणोरणुः श्वभ्रगतः [तोह्य] अवटेशो नटेश्वरः । चित्रधामा चित्रमानुर्विचित्राकृतिरीश्वरः ॥ ८१॥ इन्द्रोऽजोऽमूर्तिरूपात्मा[ह्य]अमूर्तो वह्निधारकः । अपस्मारहरो गुप्तो योगिध्येयोऽखिलादनः ॥ ८२॥ नक्षत्ररूपः क्षत्रात्मा क्षुतृष्णाश्रमवर्जितः । असङ्गो भूतहृदयो वालखिल्यो मरीचिपः ॥ ८३॥ पञ्चप्रेतासनासीनो योगिनीकणसेवितः । नानाभाषानुचतो [नुवचनो] नानादेशसमाश्रयः ॥ ८४॥ वृन्दारकगणस्तुत्यः पुरन्दरनतिप्रियः । प्रघसो विघसाशी च [चाप्य] अत्राधिपतिरन्नदः ॥ ८५॥ पन्नगाभरणो योगी गुरुर्लौकिकनायकः । विराजो विश्वतोधर्मी बभ्लुशो बाहुकप्रियः ॥ ८६॥ प्रधाननिपुणो मित्रो ह्यूर्ध्वरेता महातपाः । कुरुजाडागलवासी च नित्यतृप्तो निरञ्जनः ॥ ८७॥ हिरण्यगर्भो भूतादिस्वराट् सम्राड्विराड्वदुः । पटहध्वनिसम्प्रीतो नतमुक्तिप्रदायकः ॥ ८८॥ फलप्रदः फालनेत्रः फणीश्वरमहाङ्गधृक् । वास्तुपो वासवो वात्या वर्मभिद्वसनोज्ज्वलः ॥ ८९॥ मीढुष्टमः शिवतमो वसुः शिवतरो बली । निधनेशो निधानेशः पुराजिद्राष्ट्रवर्धनः ॥ ९०॥ अयुतायुः शतायुश्च प्रमितायुः शताध्वरः । सहस्रश‍ृङ्गो वृषभ उरुगायोरुमीढुकः ॥ ९१॥ गन्ता गमयिता गाता गरुत्मान् गीतवर्धनः । रागरागिणिकाप्रतिस्तालपाणिर्गदापहः ॥ ९२॥ देवेशः खण्डपरशुः प्रचण्डतरविक्रमः । उरुक्रमो महाबाहुर्हेतिधृक्पावकादनः ॥ ९३॥ गणिकानाट्यनिरतो विमर्शो वावदूककः । कलिप्रमथनो धीरो धीरोदात्तो महाहनुः ॥ ९४॥ क्षयद्वीरोमुञ्चि(मञ्जु)केश कल्मलीकः (की) सुरोत्तमः । वज्राङ्गो वायुजनको ह्यष्टमूर्तिः कृपाकरः ॥ ९५॥ प्रहूतः परमोदारः पञ्चाक्षरपरायणः । कर्कन्धुः कामदहनो मलिनाक्षो जडाजडः ॥ ९६॥ कुबेरपूजितपदो महातक्षककङ्कणः । शङ्खणो मधुरारावो मृडः सस्पिञ्जरोऽजरः ॥ ९७॥ मार्गो मार्गप्रदो मुक्तो विजितारिः परोऽवरः । प्रणवार्थो वेदमयो वेदान्ताम्बुज भास्करः ॥ ९८॥ सर्वविद्याधिपः सौम्यो यज्ञेशः क्षेत्रनायकः । पापनाशकरो दिव्यो गोभिलो गोपरो गणः ॥ ९९॥ गणेशपूजितपदो ललिताम्बामनोहरः । कक्षवासो महोक्षाङ्को निस्तमस्तोमवर्जिः ॥ १००॥ निःसीममहिमोदारः प्रभामूर्तिः प्रसन्न(दृ)क् । स्तोभ प्रीतो भारभूतो भूभारहरणः स्थिरः ॥ १०१॥ क्षराक्षरोधरो धर्ता सागरान्तर्गतो वशी । रम्यो रस्यो रजस्योऽथ प्रवाह्यो वैद्युतोऽनलः ॥ १०२॥ सिकत्यो वाद्य उर्वर्यो मेध्य ईध्रिय वाक्पटुः । प्रपञ्चमायारहितः कीर्तिदो वीर्यवर्धनः ॥ १०३॥ कालचक्रान्तरहितो नित्यानित्योऽथ चेतनः । गर्वोन्नतो भटाकारो मृगयुर्भवहा भवः ॥ १०४॥ शङ्गः शताङ्गः शीताङ्गो नागाङ्गो भस्मभूषणः । त्रियम्बकोऽम्बिकाभर्ता नन्दिकेशः प्रसादकृत् ॥ १०५॥ चण्डीशवरदो दिव्यो मायाविद्याविशारदः । मृगाङ्कशेखरो भव्यो गौरीपूज्यो दयामयः ॥ १०६॥ प्रमाथनोऽविकथनो गर्गो वीणाप्रियः पटुः । वर्णी वनस्थो यतिराट् गूढगर्भो विरोचनः ॥ १०७॥ शबरो बर्बरो धौम्यो विराड्रूपः स्थितिप्रदः । महाकारुणिको भ्रान्तिनाशकः शोकहा प्रभुः ॥ १०८॥ अशोकपुष्पपूज्याङ्घ्रिर्मणिभद्रो धनेश्वरः । अमृतेशोद्रुतगति स्तगरोऽर्जुनमध्यगः ॥ १०९॥ दमो विरोधहृत्कान्तो नीतिज्ञो विष्णुपूजितः । सुमप्रियो वातमयो वरीयान्कर्मठो यमः ॥ ११०॥ दिगम्बरो(रः) शममयो धूमपः शुक्रगर्भकः । अट्टहासोऽतल्पशय आसीनो धावमानकः ॥ १११॥ तुराषाण्मेघमध्यस्थो विपाशातीरसंस्थितः । कुलोन्नतः कुलीनश्च व्यवहारप्रवर्तकः ॥ ११२॥ केतुमालो हरिद्राङ्गो द्रावि(वी) पुष्पमयो भृगुः । विशोषकोर्वीनिरतस्त्वग्जातो रुधिक(र)प्रियः ॥ ११३॥ अकैतक(व)हृदावासः क्षपानाथकलाधरः । नक्तञ्चरोदिवाचारी दिव्यदेहो विनाशकः ॥ ११४॥ कदम्बवनमध्यस्थो हरिद्राङ्गोर्मिमध्यगः । यमुनाजलमध्यस्थो जालकोऽजमखो वसुः ॥ ११५॥ वसुप्रद वीरवर्यः शूलहस्तः प्रतापवान् । खड्गहस्तो मण्डलात्मा मृत्युर्मृत्युजिदीश्वरः ॥ ११६॥ लङ्कावासो मेघमाली गन्धमादनसंस्थितः । भैरवो भरणो भर्ता भ्रातृव्यो नामरूपगः ॥ ११७॥ अव्याकृतात्मा भूतात्मा पञ्चभूतान्तरोऽस्मयः । अहनन्यः शब्दमय कालाधरः कलाधरः ॥ ११८॥ भृगुतुङ्गश्चीरवासी(साः) कैवर्तोऽनायकोऽर्धकः । करेणुपो गन्धमदश्चाम्पेयकुसुमप्रियः ॥ ११९॥ भद्रदश्चर्मवसनो वैराजस्तोत्रकारकः । सुमप्रीतः सामगीती उर्जो वर्चः कुलेश्वरः ॥ १२०॥ ककुद्मान् पीतवसनो वध्येशो नारदः पिता । क्रव्यादनो नीतिमयो धर्मचक्रप्रवर्तकः ॥ १२१॥ शष्प्यः फेन्यो विनीर्णेता कङ्कणोऽनासिकोऽचलः । एणाङ्कः शलभाकार ः शालुरो ग्रामसंस्थितः ॥ १२२॥ महाविशेषकथनो वारितीरास्थितोऽचलः । कृपीटयोनिः शान्तात्मा गुणवान् ज्ञानवाञ्छुचिः ॥ १२३॥ सर्वपापहरोऽलिङ्गो भगमालोऽप्रतारणः । आनन्दधन आतार्य इरिण्योऽथप्रपथ्यकः ॥ १२४॥ गङ्गातीरस्थितो देवो ह्यविमुक्तसमाश्रयः । महास्मशाननिलयोऽवलयो वालिपूजितः ॥ १२५॥ करन्धमो व्रात्यवर्यो मानवो जीवकोऽशठः । कर्मदेवमयो ब्रह्मा ऋतं सत्यं महेश्वरः ॥ १२६॥ सुमङ्गलः सुखमयो ज्ञानानन्दोऽमिताशनः । मनोमयः प्राणमयो विज्ञानात्मा प्रसादनः ॥ १२७॥ आनन्दमयकोशात्मा धर्मसीमाथ भूमकः । सदाशिवो विशिष्टात्मा वसिष्ठार्चितपादुकः ॥ १२८॥ नीलग्रीवः सैन्यपालो दिशानाथो नतिप्रियः । केशवोन्मथनो मौनी मधुसूदनसूदनः ॥ १२९॥ उदुम्बरकरो डिम्भो बम्भरः पिञ्छिलातलः । मूलस्तालकरो वर्ण्योऽपर्णादः प्राणमाश(ष)कः ॥ १३०॥ अपर्णापतिरीशास्योऽसम्पूर्णः पूर्णरूपवान् । दीपमालो जाङ्गलिको वैतुण्डस्तुण्डकः प्रियः ॥ १३१॥ ऊलुकः कलविङ्कोऽथ शुकनादप्रसादकृत् । जैगीषव्यतपःप्रीतो रावणेन्द्रबलार्दनः ॥ १३२॥ मार्कण्डेयमहामृत्युनाशको ज्ञानधारकः । अहर्गणक्रियातीतः सर्पप्रीतोऽनिलाशनः ॥ १३३॥ वेगाधारो धैर्यधनो धनधान्यप्रदायकः । नाद्यो वैद्यो वाद्यरतो गद्यपद्यस्तुतो द्युकः ॥ १३४॥ भेरीभाङ्कारनिरतो मृगचर्मविधायकः । पुण्यकीर्तिः पुण्यलभ्यो मोहनास्त्रो(स्त्र)विशारदः ॥ १३५॥ कैलालशिखरावासः पारिजातवनाश्रयः । ईला(डा)दिरवसम्प्रीतो माहेन्द्रस्तुतिहर्षितः ॥ १३६॥ यूपवाटो भार वहः कोमलाङ्गो जनाश्रयः । विश्वामित्रप्रियो बालः पाकयज्ञरतः सुखी ॥ १३७॥ वामाचारप्रियोन्नेता शक्तिहस्तो दुरासदः । सर्वाकारः शाश्वतत्मा वाङ्मनोदूरगो हरः ॥ १३८॥ स्कन्द उवाच - इत्येतन्नामसाहस्रं शेषाशेषमुखोद्गतम् । शम्भोर्दिव्यं मुनिश्रेष्ठ श्रवणात्पापनाशनम् ॥ १३९॥ सर्वान्कामानवाप्नोति शिवार्चनपरायणः । त्वमेभिर्मुनिमुख्यैश्च श‍ृण्वन्भक्तिमवाप्नुयाः ॥ १४०॥ कुमारी पतिमाप्नोति निर्धनो धनवान्भवेत् । जयार्थी जयमाप्नोति क्षयद्वीरप्रसादतः ॥ १४१॥ स्कन्द उवाच - इति तव गदितं मे नामसाहस्रमेतत् हरवरचरणाब्जाराधने साधनं ते । (मुनिगणवरबाणाद्यै) मुनिजनगणवर्यैर्धार्यमेतत्सुराद्यैः परमपदमवाप्तुः (प्तुं) शङ्कराज्ञावशेनः ॥ १४२॥ ॥ इति श्रीशिवरहस्ये नवमांशे सहस्रनामकथनं नाम द्वितीयोऽध्यायः ॥