अक्षर आकार:

श्रीशिवसहस्रनामस्तोत्रम् शिवरहस्यान्तर्गतम् अध्याय २४

Shri Shiva Sahasranama Stotra from Shivarahasya Adhyaya 24

श्रीशिवसहस्रनामस्तोत्रम् शिवरहस्यान्तर्गतम् अध्याय २४

शिवरहस्ये चतुर्विंशोऽध्यायः ॥ ॐ श्रीगणेशाय नमः । स्कन्द उवाच - ओङ्कारकण्ठनिलयः ओङ्कारार्थप्रकाशकृत् । ओङ्कारबीजसुप्रीतः ओङ्कारस्वरमात्रकः ॥ १॥ ओङ्कारार्थः ओमितीड्यो नानामन्त्रस्वरूपवान् । नादरूपो नाशिताघो नामरूपगुणातिगः ॥ ३॥ नागाजिनोत्तरासङ्गो नामप्रीतो नताखिलः । मायातीतो माधवेयो मार्गमाणो महेश्वरः ॥ ४॥ मांसादनो मातृमेयमानादिगुणवर्जितः । शिवः शिवतरोऽशीतः शीतांशुकृतभूषणः ॥ ५॥ शिवेतरहरः शम्भुः शिशिरर्तुप्रवर्तकः । वामदेवो वशी शान्तो वाद्यमोदोऽवसानकृत् ॥ ६॥ वामश्चक्रप्रदो वाग्मी वाय्वाहारोऽगदो वसुः । यामीनीशकलामौलिर्यातायानप्रियोयमी ॥ ७॥ यमप्रभथनो यष्टा यजमानो यतीश्वरः । सिन्धुनिषङ्गः सिंहेन्द्रः सिनीवालीस्तुतिप्रियः ॥ ८॥ सिन्धुसिंहासनासीनः सिन्धुराङ्गत्वगम्बरः । धनाधीशोऽन्धसां नाथ धर्माधर्मविचारकः ॥ ९॥ धौम्यो धाता धराधीशो धूर्जटिर्धर्मकेतनः । नमिताषेषदिक्पालो नरनारायणार्चितः ॥ १०॥ नतिप्रीतो नमस्कार्य नगधृङ् नगवासभूः । मयस्करो मन्त्ररूप मस्करी मस्तकाम्बुधृक् ॥ ११॥ मन्मथान्तकरो मन्युः मनस्वी मननातिगः । कपालपाणिः कालात्मा किष्कुः कीर्तिप्रदायकः ॥ १२॥ कुसुमार्चनसुप्रीतः कुशलः केकयेश्वरः । कैलासमौलिनिलयः कोपात्मा कौलमार्गवित् ॥ १३॥ कटाक्षपूज्यः कस्तुरीगन्धः वासैकमेदुरः । खण्डपर्शुः खाण्डवासः खिल्यः खीरप्रियः खुसः (खसः) ॥ १४॥ खण्डपः खेटधृक् खैरः खान्तकृत् स्वर्धुनीश्वरः । खण्डितारातिनिलयः खर्जूरवनमध्यगः ॥ १५॥ गयासुरहरो गार्ग्यो गिरीशो गीतिवर्धनः । गुरुर्गुर्जरगो गेयो गौरीभर्ताथ गैरिकः ॥ १६॥ गोवर्धनो गन्धवहो गन्ता गर्वप्रणाशकृत् । घण्टाध्वनिप्रियो घस्थो घनगर्भो घनाघनः ॥ १७॥ चन्द्रचूडश्चारुरूपश्चित्रकर्मा चितिप्रियः । चीनाजिनी चञ्चुचूडश्चैत्री चैत्ररथाश्रितः ॥ १८॥ चेतोऽच्युतोऽथ चण्डांशुः चमसोद्भेदवासकृत् । छत्रधृक् छान्दसश्छागवाहनः छद्मरूपधृक् ॥ १९॥ छेत्ता छेदकरोऽच्छादः छन्दोगश्छान्दसप्रियः । जयदो जागतो जिग्युर्जयदा जीवितप्रदः ॥ २०॥ जयकृत् जैत्रसञ्जेता जिष्णुर्जपपरायणः । जकुटाद्रिकृतावासो जटिलो जम्बुकेश्वरः ॥ २१॥ जननो जूतिगो जूटी जङ्गमाजङ्गमात्मकः । झञ्झावाद्यरतो झङ्कारवप्रीतोऽथ झर्झरी ॥ २२॥ झङ्कारकृत् झाङ्करिको झषकेतननाशनः । यमो यामप्रियो यन्ता यजमानो यमी यजुः ॥ २३॥ यशस्करो यत्नपरो यष्टा यज्ञेश्वरो यतिः । टङ्काप्रियष्टङ्ककरष्टक्कारष्टारवाहनः ॥ २४॥ नीलकण्ठः कालकालः कमेरः कश्मलापहा । वैकुण्ठपूजापीठस्थः द्विठान्तमनुमध्यगः ॥ २५॥ डाम्भिको डमरुप्रीतो डामरीतन्त्रपूरकः । दाडिमीफलसुप्रीतः डम्भो डम्भप्रियो जडः ॥ २६॥ ढक्कारवप्रियो ढक्काधरो ढक्कारिकाप्रियः । ढुण्ढो गूढो महाबाढो गूढपाद् वरभूषणः ॥ २७॥ णकारवाच्यो गणपः फणाधरवरप्रियः । वीणापाणिः शूलपाणिः कणपाद् कणभक्षणः ॥ २८॥ तस्करस्तीर्थकृत् तीर्थ्यस्तुर्यस्तूर्यरवप्रियः । तेजस्वी तेजसां नाथस्तोषणस्तौल्यलालितः ॥ २९॥ तन्तुस्तमालनीलाङ्गस्तारकस्ताम्रतारणः । धकारो (थकारो) मन्मथारातिः प्रमथेश कुथावृतः ॥ ३०॥ कम्पाकोऽथ कथाप्रीतः कौथुमो गीतसुप्रियः । दमनो दान्तनिलयो दिनेशो दानवानलः ॥ ३१॥ दुर्दान्तो दूतहरणो देशकालोऽथ दैववित् । दोषघ्नो दुर्गतिघ्नोऽथ दण्डपाणिर्दयापरः ॥ ३२॥ धनदो धान्यदो धारो धुन्धुकौको धुरन्धरः । धेनुप्रियो धैर्यधनो धर्माधर्मविशारदः ॥ ३३॥ नम्योऽनादिर्नीतिरतो नृत्तज्ञो नेत्रपालकः । नतार्तिशमनो नेताऽनन्तो नामविवर्जितः ॥ ३४॥ पद्मनेत्रप्रपूज्याङ्घ्रिः पार्वतीशः प्रसादकृत् । पीयूषकः पीतवासाः पीनाङ्गः पालकः पविः ॥ ३५॥ पोषणाः पैतृकः पोषः पन्नगाभरणाः परः । फणीश्वरधरः फालनयनः फल्गुकेश्वरः ॥ ३६॥ फूत्कारकृद्युतशिराः फणितः फणिताकृतिः । बर्बरो बाहुमान् बिन्दुर्बिल्मिनिर्बुधवर्धनः ॥ ३७॥ जम्बूप्रीतोऽम्बरगतो बैन्दवासनसंस्थितः । बोधदो बौद्धहृद्बन्धो बलप्रमथनी बली ॥ ३८॥ भयहृद्भानुदृक् भिल्लो भीतिदो भूतिभूषणः । भेरीवाद्यप्रियो देवो भैरवो भोगभाग् भवः ॥ ३९॥ भोज्यपूज्यो भण्डखण्ड भीमो भागविवर्जितः । मनोन्मनो माणवको मितिकृन्मीनलोचनः ॥ ४०॥ मुनिप्रियो मूकपालो मेनकाजनको मनुः । मैनाकवरदो मोचाफलप्रीतो मरुत्वकः ॥ ४१॥ मौनिपूज्यो मन्थरको मस्करी मयशिल्पदः । यशोधनो यायजूको यज्ञकृत् यज्ञनाशनः ॥ ४२॥ यात्रिको यन्त्रमध्यस्थो यशोदातनयार्चितः । रमणो रावणप्रीतो रतिदो रुग्विनाशकृत् ॥ ४३॥ रेतस्वी रैभ्यवरदो रोदनोऽरातिनाशनः । रन्धनो रसपो रामो रतिदा रगणस्थितः ॥ ४४॥ ललाटनयनो लीनो लिङ्गस्थोलिङ्गमस्तक । लुलायवाहहरणो ललुर्लयविवर्जितः ॥ ४५॥ वसुदो वामदेवश्च विश्वनाथो विशालकृत् । वीतिहोत्रमहानेत्रो वेनो वैश्वानरो वटुः ॥ ४६॥ वौषिट्कृत् वामदेव्योऽथ वामभागाङ्गनो वशी । षडध्वगः षडाधारः पाषण्डप्राणखण्डकः ॥ ४७॥ उच्चैर्घोषो घोरवेषो भीषणो बहुभाषणः । शाङ्गः शान्तः शिवः शीतः शुनकः शुन्यकृत् छटः ॥ ४८॥ शेषो विशेषणः शास्ता शतात्मा शौनकार्चितः । सनातनश्च सावित्रः सिन्धुजूटः सुनीथकः ॥ ४९॥ सूतः सेतुः सौतिकरः सैकतः सन्नतिः समः । क्षपापतिकलाधारी क्षात्रकर्मा क्षितीरभः ॥ ५०॥ क्षुद्रकर्मविनाशात्मा क्षुत्तृष्णादिविवर्जितः । हाहाहूहूहमुखस्तुत्यो हानि(ह्रास) वृद्धिविवर्जितः ॥ ५१॥ हस्तिकृत्तिप्रियो हर्ता हरिकेशो हरो हनुः । हैयङ्गवीनहृदयो हरिदश्वान्तरस्थितः ॥ ५२॥ हंसकाख्यमहानागो हंसकूटाद्रिवासकृत् । भुजङ्गभोगभूषाढ्यो भूतिभूषितविग्रहः ॥ ५३॥ न्यङ्कुहस्तः शम्बरारिनिहन्ताऽथ महेश्वरः । अर्णवान्तःस्थितोयोगी भोगी रागविवर्जितः ॥ ५४॥ कपालघृक् कालकालः कालातीतोऽक्षरः परः । पर्णशय्यो महावैद्य आद्योऽभेद्यो विशारदः ॥ ५५॥ हिरण्यदशनोऽहार्यो मुञ्जिकेशो हरिद्युतिः । हव्यवाहाम्बको नित्यः स्तुत्यो वप्त्याप्रवर्तकः ॥ ५६॥ गयास्तुतो गुणी गोप्ता निर्गुणस्त्रिगुणातिगः । विष्णुप्रीतिकरः शोणः शोणाक्षाः शोणतीरगः ॥ ५७॥ शतावर्तः शाश्वतात्मा शमनान्तकरः शठः । उगणो भगणोऽधीशः प्रभुः सम्मुख ईश्वरः ॥ ५८॥ सद्योजातो वामदेव ईशानोऽघोरपूरुषः । पञ्चब्रह्ममयः पञ्चमुखः पञ्चार्णमध्यगः ॥ ५९॥ पञ्चाक्षरीमध्यगतः पञ्चकोशविवर्जितः । पादपः पवनः पाशः पशुपाशविवर्जितः ॥ ६०॥ पथ्यः पद्मजपूज्याङ्घ्रिः प्रघसः पङ्कजेक्षणः । विश्वो विश्वाधिको नेता विश्वाक्षो विश्वतोमुखः ॥ ६१॥ विष्णुपूज्यो विशां श्रेष्ठो विनायकवरप्रद; । गङ्गाधरोऽम्बिकाभर्ता धर्ता हर्ता जनेश्वरः ॥ ६२॥ मेघवाहः प्रसन्नात्मा कङ्कालकवरो मधुः । वीतिहोत्रमहानेत्रः सत्रपात्रो दिगम्बरः ॥ ६३॥ महास्मशाननिलय ईशानोऽथ गराशनः । महाग्रासो महाभीमो विद्युत्यः शुक्ल ईश्वरः ॥ ६४॥ कन्दर्पदर्पहा कान्तः कपर्दी नीललोहितः । पिनाकपाणिः कालात्मा गोपतिर्वृषवाहनः ॥ ६५॥ सुरमन्दारमालाढ्यः कन्धरोऽनन्तविक्रमः । क्षयद्वीरो मारहारो हरः शीतांशुशेखरः ॥ ६६॥ शताङ्गवरदो होता यजमानो यशस्करः । मयस्करः शङ्करश्च शिपिविष्टः प्रतिष्ठितः ॥ ६७॥ प्रजापतिः पशुपतिः यतीनां प्रतिरग्निभूः । सामगानप्रियः शुद्धः प्रशान्तात्मा स्थिरः प्रभुः ॥ ६८॥ विभुर्विभासकोऽनन्तो रुद्र उग्रो महेश्वरः । जागर्तको जाङ्गलेशो जङ्गमाऽजङ्गमात्मकः ॥ ६९॥ जातुकर्णप्रियो ज्येष्ठः कनिष्ठः श्रेष्ठ उत्तमः । प्रतिष्ठा परमं धाम परमात्मा ऋतं महत् ॥ ७०॥ यन्त्रात्मा मन्त्ररूपात्मा मन्त्ररूपः सदाशिवः । निगमागमसंसेव्यः सुराद्यः प्रतितामहः ॥ ७१॥ सुरासुरगणाध्यक्षः त्र्यक्षो दक्षमखान्तकः । महोक्षवाह उक्षेड्य भगाक्षिहरणोऽक्षतः ॥ ७२॥ अनल्पकल्पः शिल्पादिः सुशीलः कौलपूजितः । स्तव्यो नव्यो भव्यरूपो हव्यकव्यभुगव्ययः ॥ ७३॥ महाबलो महोत्साहो महादेवो महाङ्गधृक् । शतावर्तः शान्तमनाः सहमानः स्तुतिप्रियः ॥ ७४॥ सनातनो वामदेवो मनस्वी मानवर्जितः । गतिदो नतपो वाग्मी उज्वैर्घोषो महाहनुः ॥ ७५॥ त्रिपुण्ड्रफालो भस्माङ्गः पुण्डरीकत्वगम्बरः । गायत्रीमध्यनिलयो मित्ररूपो जगत्प्रभुः ॥ ७६॥ प्रसेनजित्कक्षवासो नरसिंहनिपातनः । कोलदंष्टाधरो भूतो भूतनाथो रतिप्लुतः ॥ ७७॥ कूर्माम्रेडितपादाब्जश्चन्द्रचूडः स्थिरो मृडः । गुढपाद्वरहाराढ्य आढ्यो मौढ्यविनाशकः ॥ ७८॥ दण्डी कुण्डी तण्डुपूज्यो मुण्डी पाषण्डवर्जितः । अलिङ्गो लिङ्गनिलयः स्फुलिङ्गसदृषेक्षणः ॥ ७९॥ बिल्वपूज्यो बिल्मिनिश्च बिलेशयफणाधरः । बाणालिङ्गार्चनप्रीतो वडवानलससम्भवः ॥ ८०॥ बलारातिभुजस्तम्भो भूपतिर्विप्रपूजितः । अन्धकान्तकरो भर्गो गोवृषाङ्क उमाधवः ॥ ८१॥ धनञ्जयाक्षः कञ्चाक्षपूज्यपादाम्बुजद्वयः । वीतरागः सान्द्रसुखो वङ्कशङ्कुशरो हरः ॥ ८२॥ हयग्रीवार्चितो हेतिधरो भिक्षाटनप्रियः । (भिक्षाटनप्रियः- मांसादनप्रियः इति मातृकायां पाठः । भगवतः सर्वात्मकतया सर्वविशेषण विशिष्टत्वमस्त्येव । निषाद व्याध भक्तैरपि पूज्य मानत्वात् तदुपहृतमांसभक्ष्यादनत्वं तद्दृष्ट्या युज्यत एव ।) अत्र युक्ता -युक्त्व -निर्णयः पाठकविद्वदधीनः । त्रिमधुस्त्रिसुपर्णात्मा पर्णशायी महेश्वरः ॥ ८३॥ अञ्जनाक्षः खञ्जनात्मा रञ्जनो रङ्गनृत्यकृत् । वायुरायुःप्रदो मध्यो गह्वरेष्टोऽन्तकान्तकः ॥ ८४॥ शर्वः सर्वगतः स्थाणुः स्थविष्ठः सुप्रसन्नवाक् । शब्दः स्पर्शो रसो रूपं गन्धश्चन्द्रो विभावसुः ॥ ८५॥ सर्वेन्द्रियगुणातीतः सर्वेन्द्रियविवर्जितः । सर्वेषां प्रभुरीशानः सर्वेषां शरणं सुहृत् ॥ ८६॥ सीमा भूमा महानात्मा प्रतिष्ठा पुरुषः परः । पुच्छं ब्रह्म ऋतं सत्यं हरो वैष्णवपिङगलः ॥ ८७॥ ऊर्ध्वरेता विरूपाक्षः क्षितीशः क्षान्तिवर्धनः । सविशेषो निर्विशेषः शेषाहिकटकोज्जलः ॥ ८८॥ रस आनन्द आतार्यः शष्पः फेन्यः सिकत्यकः । प्रवाह्यो गेह्यवाह्यश्च प्रसाद्यः प्रमथाधिपः ॥ ८९॥ ज्ञानदो धनदो धीरो दुन्दुभ्यो भीतिनाशकृत् । मयस्करो मस्करी च तस्करो भास्करेक्षणः ॥ ९०॥ यशस्करः कुलुञ्चेशो भिषजामधिपो युवा । वर्णी वन्यो गृहस्थश्च सन्यासी न्यासमध्यगः ॥ ९१॥ भीमः सोमः प्रशान्तात्मा धाम धूमसवर्णभृत् । कामदः काममथनः क्रथनः कनकाम्बरः ॥ ९२॥ समो निः सीममहिमा वनेशः क्षेत्रनायकः । कैलासशैलनिलयो विलयो लयवर्जितः ॥ ९३॥ रक्षाकरो राक्षसघ्नो लास्यप्रीतो रतिप्रदः । प्रदोषताण्डवपरः सर्वदोषहरो हरिः ॥ ९४॥ आखण्डलमुखस्तुत्यो मेरुकोदण्डधृग्वरः । वेदघोटः पाटिताशोह्यहिज्यो ब्रह्मसारथिः ॥ ९५॥ सूर्यचन्द्रमहाचक्रो हरिबाणोऽम्बरावृतः । क्ष्मारथस्त्रिपुरारातिः कण्वपूज्यो विचारकः ॥ ९६॥ शूली हली लाङ्गली च मुसली कुशली बली । गदी शङ्खी वशी चक्री कवची चान्धसां पतिः ॥ ९७॥ निषङ्गसागरः शम्भुः शान्तः सङ्गविवर्जितः । धीरोदात्त उदात्तश्च स्वरितः प्रचयस्वरः ॥ ९८॥ प्रणवः प्राणदः शोणः कणादः फणिकङ्कणः । मौनी मानी जितारातिः रीति धातुमयो महान् ॥ ९९॥ अणोरणीयान् सुभगो महतोऽपि महत्तरः । स्वराट् सम्राट् विराड् धाता विधातो सर्वतोमुखः ॥ १००॥ मेधाधिपो गाधिपूज्योह्याधिव्याधिविनाशनः । गाधाधिपो व्याधिनीशः कलधौतप्रभोऽबलः ॥ १०१॥ वेदगर्भो नीलकण्ठः कुण्ठिताघः कृपाकरः । जगदम्बापतिः साम्बस्त्र्यम्बको रविबिम्बगः ॥ १०२॥ सुधासागरमध्यस्थो मणिद्वीपनिकेतनः । कदम्बवनमध्यस्थः नीपवापीप्रपान्तरः ॥ १०३॥ पापतापहरो गोप्ता शम्बरारिनिषूदनः । त्रियम्बको वरनटो जटाजूटविभूषितः ॥ १०४॥ काट्यो नीप्यश्च सूद्यश्च सरस्यो मेध्य वैद्युतः । ईध्य्र आतप्य आतार्य आलाद्यश्चन्द्रशेखरः ॥ १०५॥ रेष्म्यो रस्यश्च वैशन्तोऽनाद्यः कूप्यो वटोद्भवः । आहनन्यश्च दुन्दुभ्यः सिकत्यः फेन्यवन्यकः ॥ १०६॥ प्रवाह्यश्च सिकत्यश्च प्रवाह्यो गेह्य एव च । (सिकत्यश्च - नामसाहस्रेऽस्मिन् पौनरुक्त्यं दृश्यते ।) हिरण्यतल्प आताम्रो भवो रुद्रः पितामहः ॥ १०७॥ संसारवैद्यो विश्वात्मा गजश्चक्रप्रवर्तकः । मेरुः पिता स्विषुः पाता गरिष्ठो गह्वरस्तरुः ॥ १०८॥ हिरण्यबाहुराशास्यः सेनानीर्गिरिशो मृडः । सुधन्वा बिल्वपत्रार्च्यो गोनर्दोऽथ वृषाकपिः ॥ १०९॥ उरुगायः कल्पवृक्षो ज्योतिर्हेतिर्विभावसुः । सुतिथिः कौशिको धूर्तो धुत्तूरकुसुमप्रियः ॥ ११०॥ उमाधवो माधवार्च्यो भस्मरुद्राक्षभूषितः । गङ्गातुङ्गजटामौलिर्नर्मदाशर्मदायकः ॥ १११॥ तमालमालासुगलः करवाललसत्करः । अट्टाट्टहासो विकटो दंष्ट्राकुटिलवक्त्रकः ॥ ११२॥ रक्तवृत्तेक्षणः सुभ्रूः श्वभ्रो हर्ता कवीश्वरः । फुल्लनीलोत्पलस्रग्वी शम्याकार्च्यो विरोधहा ॥ ११३॥ आर्यः सूर्यप्रभः शास्ता सुहस्तो बस्तचर्मधृक् । क्षेत्रेशो जन्महा चात्मा अमोघश्चाद्रिजापतिः ॥ ११४॥ शाणचीरधरोऽघोर बर्बरो भैरवः सखा । उष्णीषवसनच्छन्न उपानत्पात्प्लवः शिवः ॥ ११५॥ वृक्षपल्लवसन्मौलिः शुनाम्पतिरपां पतिः । जघन्यो बुघ्नियश्छन्दोऽप्यरुणो भगणेन्द्रधृक् ॥ ११६॥ कुमारजनको वेत्ता परिवीतोपवीतधृक् । बभ्रुः सुचेता मीढ्वांश्च आषढो द्रापिरुत्तमः(?) ॥ ११७॥ एकाक्षो नैकपात् सुभ्रूः अधिपो मित्रपः शिवः । क्षेत्रपः स्वपतिर्देवो धनपः शत्रुनाशकृत् ॥ ११८॥ अन्नेषुश्चैव वातेषुस्तीर्थेषुप्रपथां पतिः । आयुर्दो धनदो धीरो रसः शिवतरो भृगुः ॥ ११९॥ एवं नामसहस्रेण तुष्टावाष्टाकृतिं हरम् । स्कन्दनन्दितमन्दारवृन्दारकगणानतः ॥ १२०॥ श‍ृण्वन् पठन् शिवं चार्चन् बिल्वैः पर्वणि सर्वथा । ज्योक् स जीवति वंशेन सर्वसम्पदमश्नुते ॥ १२१॥ आम्नायसर्वार्थसहस्रनाम्नां भूम्नां च सीमान्तमहिम्ननाम्नाम् । लेशेऽप्यशेषांशविशेषशब्दवित् किं वास्य शेषः स मुखेन वक्ति ॥ १२२॥ नाम्नां सहस्रं प्रचपन्नधघ्नं ब्रध्नः प्रभो जायत एव सत्यम् । अहो न कोऽपीह नहीनपुण्य- महीनवंश्यो लभतेऽस्य किं गुणम् ॥ १२३॥ इति श्रीशिवरहस्ये द्वादशांशे स्कन्दकृत शिवसहस्रनामस्तुतिर्नाम चतुर्विंशोऽध्यायः ॥