अक्षर आकार:

श्रीशिवरहस्यान्तर्गतं शिवसहस्रनामस्तोत्रम्

ShivasahasranAma Stotram from Shivarahasya

श्रीशिवरहस्यान्तर्गतं शिवसहस्रनामस्तोत्रम्

॥ शिवरहस्ये पञ्चमांशे चत्वारिंशोऽध्यायः ॥ देवी - श्रुतं सुदर्शनाख्यानं त्वत्तो विस्मापनं मम । प्रदोषे पापिना तेन दृष्टश्चान्यार्चितः शिवः ॥ १॥ शेषेण नामसाहत्रैस्त्वं स्तुतः कथमीश्वर । तन्नाम्नां श्रवणेच्छा मे भूयसी भवति प्रभो ॥ २॥ सूतः - तस्मिन् कैलासशिखरे सुखासीनं महेश्वरम् । प्रणम्य प्रार्थयामास सा देवी जगदंबिका ॥ ३॥ तदा देव्या महादेवः प्रार्थितः सर्वकामदः । भवो भवानीमाहेत्थं सर्वपापप्रणाशकम् ॥ ४॥ फणीशो मुखसाहस्रैत्र्यानि नामानि चोक्त्तवान् । तानि वः सम्प्रवक्ष्यामि यथा मम गुरोः श्रुतम् ॥ ५॥ ईश्वरः - ऋषिः छन्दो दैवतं च तान्यहं क्रमशोंऽबिके । सहस्रनाम्नां पुण्यं मे फणिन्द्रः कृतवानुमे ॥ ६॥ ऋषिस्तस्य हि शेषोऽयं छन्दोऽनुष्टुप् प्रकीर्तितम् । देवतास्याहमीशानि सर्वत्र विनियोजनम् ॥ ७॥ ध्यानं ते कथयाम्यद्य श्रूणु त्वमगकन्यके । कैलासे सुहिरण्यविष्टरवरे देव्या समालिङ्गितं नन्द्याद्यैर्गणपैः सदा परिवृतं वन्दे शिवं सुन्दरम् । भक्ताघौघनिकृन्तनैकपरशुं बिभ्राणमिन्दुप्रभं स्कन्दाद्यैर्गजवक्त्र (?) सेवितपदं ध्यायामि सांबं सदा ॥ ८॥ एवं मामबिके ध्यात्वा नामानि प्रजपेत्ततः । हृत्पद्मसद्मसंस्थं मां सर्वाभीष्टार्थसिद्धये ॥ ९॥ पुण्यकालेषु सर्वेषु सोमवारे विशेषतः । बिल्वपत्रैः पङ्कजैश्च पुण्यनामानि शङ्करि ॥ १०॥ पूजयेन्नामसाहस्रैः सर्वार्थप्राप्तये शिवे । यो यं कामयते कामं तं तमाप्नोति शङ्करि ॥ ११॥ धनार्थी लभते वित्तं कन्यार्थी कन्यकां तथा । राज्यार्थी राज्यमाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ॥ १२॥ श‍ृणु देवि परं पुण्यं मातृकानामनुत्तमम् । सहस्रं प्रजपेन्नित्र्यं धर्मकामार्थमोक्षभाक् ॥ १३॥ ईश्वरः - ओंकारनिलयात्मस्थः ओंकारार्थैकवाचकः । ओंकारेशाकृतिरोमितिशब्दकृतस्तुतिः ॥ १४॥ ओंकारकुण्डनिलयलिङ्गपृजनपापहृत् । नमिताशेषदेवादिर्नदीपुलितसंस्थितः ॥ १५॥ नन्दिवाद्यप्रियो नित्यो नामपारायणप्रियः । महेन्द्रनिलयो मानि मानसान्तरपापभित् ॥ १६॥ मयस्करो महायोगी मायाचक्रप्रवर्तकः । शिवः शिवतरः शीतः शीतांशुकृतभूषणः ॥ १७॥ धनुःशरकरो ध्याता धर्माधर्मप्रायाणः । आत्मा आतार्य आलाद्य अनङ्गशरखण्डनः ॥ १८॥ ईशान ईड्य ईघ्र्यश्च इभमस्तकसंस्तुतः । उमासंश्लिष्टवामाङ्ग उशीनरनृपार्चितः ॥ १९॥ उदुम्बरफलप्रीत उमादिसुरपूजितः । ऋजीषीकृतभृचक्रो रिपुप्रमथनोर्जितः ॥ २०॥ लिङ्गार्चकजनप्रीतो लिङ्गी लिङ्गसमप्रियः । लिपिप्रियो बिन्दुहीनो लीलाकृतजगन्त्त्रयः ॥ २१॥ ऐन्द्रीदिक्पतिसंयुक्त ऐश्वर्यादिफलप्रदः । औत्तानपादपूज्याङ्घ्रिरौमादिसुरपूजितः ॥ २२॥ कल्याणाचलकोदण्डः कामितार्थफलप्रदः । कस्तूरीतिलकप्रीतः कर्पूराभकलेवरः ॥ २३॥ करन्धमसुतप्रीतः कल्पादिपरिवर्जितः । कल्पितानेकभूतादिः कलिकल्मषनाशनः ॥ २४॥ कमलामलसन्नेत्रः कमलापतिपूजितः । खगोल्कादित्यवरदः खञ्जरीटवरप्रदः ॥ २५॥ खर्जुरवनमध्यस्थः खण्डिताखण्डलीकरः । खगः खङ्गहरः खण्डः खगगः खाकृतिः खसः ॥ २६॥ खण्डपर्शुः खण्डधनः खण्डितारातिमण्डलः । गन्धर्वगणसुप्रीतो गन्धधृक् गर्वनाशकः ॥ २७॥ गङ्गाधरो गोगणेशो गणेशवरपुत्रकः । गतिदो गदहा गन्धी गन्धमाल्यवरार्चितः ॥ २८॥ गगनस्थो गणपतिर्गगनाभोगभूषणः । घण्टाकर्णप्रियो घण्टी घटजस्तुतिसुप्रियः ॥ २९॥ घोटकप्रियपुत्रश्च धर्मकालो घनाकृतिः । घनवाहो घृताध्यक्षो घनघोषो घटेश्वरः ॥ ३०॥ घटानादकरप्रीतो घटीभूतमहागिरिः । चन्द्रचूडश्चन्द्रकरश्चन्दनार्द्रश्चतुष्पथः ॥ ३१॥ चमसोद्भेदमध्यस्थश्चण्डकोपश्चतुर्मुखः । चक्षुःश्रोत्रमहाहारश्चण्डिकेशवरप्रदः ॥ ३२॥ चेतोजन्महरश्चण्डश्चातुर्होत्रप्रियश्चरः । चतुर्मुखमुखस्तुत्यश्चतुर्वेदश्चराचरः ॥ ३३॥ चण्डभानुकरान्तःस्थश्चतुर्मूर्तिवपुःस्थितः । छादितानेकलोकादिः छन्दसां गणमध्यगः ॥ ३४॥ छत्रचामरशोभाढ्यः छन्दोगगतिदायकः । जङ्गमाजङ्गमाकारो जगन्नाथो जगद्गतः ॥ ३५॥ जह्नुकन्याजटो जप्यो जेता जत्रुर्जनार्तिहा । जम्भारातिर्जनप्रीतो जनको जनिकोविदः ॥ ३६॥ जनार्दनार्दनो जामिजात्यादिपरिवर्जितः । झणज्झणान्घ्रिजारावो झङ्कारोज्झितदुष्क्रियः ॥ ३७॥ टङ्कप्रियष्टंकृतिकष्टंकभेदी टकारकः । टादिवर्णप्रियष्ठान्तो ढक्कानादप्रियो रसः ॥ ३८॥ डामरितन्त्रमध्यस्थो डमरुध्वनिशोभितः । ढक्काध्वनिकृतानल्पबधिरीकृतदिङ्मुखः ॥ ३९॥ णकारो णणुकोत्थादिर्णान्तकृण्णविमोचकः । तस्करस्ताम्रकस्तार्क्ष्यस्तामसादिगुणोज्झितः ॥ ४०॥ तरुमूलप्रियस्तातस्तमसां नाशकस्तटः । थानासुरहरः स्थाता स्थाणुः स्थानप्रियः स्थिरः ॥ ४१॥ दाता दानपतिर्दान्तो दन्दशूकविभुषितः । दर्शनियो दीनदयो दण्डितारातिमण्डलः ॥ ४२॥ दक्षयज्ञहरो देवो दानवारिर्दमोदयः । दत्तात्रेयप्रियो दण्डी दाडिमीकुसुमप्रियः ॥ ४३॥ धता धनाधिपसखो धनधान्यप्रदो धनम् । धामप्रियोऽन्धसां नाथो धर्मवाहो धनुर्धरः ॥ ४४॥ नमस्कारप्रियो नाथो नमिताशेषदुःखहृत् । नन्दिप्रियो नर्मसखो नर्मदातीरसंस्थितः ॥ ४५॥ नन्दनो नमसामीशो नानारूपो नदीगतः । नामप्रीतो नामरूपगुणकर्मविवर्जितः ॥ ४६॥ पत्तीनां च पतिः पार्यः परमात्मा परात्परः । पङ्कजासनपूज्याङ्घ्रिः पद्मनाभवरप्रदः ॥ ४७॥ पन्नगाधिपसद्धारः पशूनां पतिपावकः । पापहा पण्डितः पान्थो पादपोन्मथनः परः ॥ ४८॥ फणीफणालसम्मौलिः फणिकङ्कणसत्करः । फणिता नेकवेदोक्त्तिः फणिमाणिक्यभूषितः ॥ ४९॥ बन्धमोचनकृद्बन्धुर्बन्धुरालकशोभितः । बली बलवतां मुख्यो बलिपुत्रवरप्रदः ॥ ५०॥ बाणासुरेन्द्रपूज्याङ्घ्रिर्बाणलिङ्गो बहुपदः । वन्दीकृतागमो बालपालको बहुशोभितः ॥ ५१॥ भवादिर्भवहा भव्यो भवो भावपरायणः । भयहृद्भवदो भूतो भण्डासुरवरप्रदः ॥ ५२॥ भगाक्षिमथनो भर्गो भवानीशो भयङ्करः । भङ्कारो भावुकदो भस्माभ्यक्त्ततनुर्भटः ॥ ५३॥ मयस्करो महादेवो मायावी मानसान्तरः । मायातीतो मन्मथारिर्मधुपोऽथ मनोन्मनः ॥ ५४॥ मध्यस्थो मधुमांसात्मा मनोवाचामगोचरः । मण्डितो मण्डनाकारो मतिदो मानपालकः ॥ ५५॥ मनस्वी मनुरूपश्च मन्त्रमूर्तिर्महाहनुः । यशस्करो यन्त्ररूपो यमिमानसपावनः ॥ ५६॥ यमान्तकरणो यामी यजमानो यदुर्यमी । रमानाथार्चितपदो रम्यो रतिविशारदः ॥ ५७॥ रंभाप्रीतो रसो रात्रिचरो रावणपूजितः । रङ्गपादो रन्तिदेवो रविमण्डलमध्यगः ॥ ५८॥ रथन्तरस्तुतो रक्त्तपानो रथपती रजः । रथात्मको लम्बतनुर्लाङ्गली लोलगण्डकः ॥ ५९॥ ललामसोमलूतादिर्ललितापूजितो लवः । वामनो वायुरूपश्च वराहमथनो वटुः ॥ ६०॥ वाक्यजातो वरो वार्यो वरुणेड्यो वराश्रयः । वपुर्धरो वर्षवरो वरियान् वरदो वरः ॥ ६१॥ वसुप्रदो वसुपतिर्वन्दारुजनपालकः । शान्तः शमपरः शास्ता शमनान्तकरः शठः ॥ ६२॥ शङ्खहस्तः शत्रुहन्ता शमिताखिलदुष्कृतः । शरहस्तः शतावर्तः शतक्रतुवरप्रदः ॥ ६३॥ शम्भुः शम्याकपुष्पार्च्यः शङ्करः शतरुद्रगः । शम्याकरः शान्तमनाः शान्तः शशिकलाधरः ॥ ६४॥ षडाननगुरुः षण्डः षट्कर्मनिरतः षगुः । षड्जादिरसिकः षष्ठः षष्ठीप्रीतः षडङ्गवान् ॥ ६५॥ षडूर्मिरहितः शष्प्यः षिद्गः षाड्गुण्यदायकः । सत्यप्रियः सत्यधामा संसाररहितः समः ॥ ६६॥ सखा सन्धानकुशलः सर्वसम्पत्प्रदायकः । सगरः सागरान्तस्थः सत्राशः सरणः सहः ॥ ६७॥ सांबः सनातनः साधुः सारासारविशारदः । सामगानप्रियः सारः सरस्वत्या सुपूजितः ॥ ६८॥ हतारातिर्हंसगतिर्हाहाहूहूस्तुतिप्रियः । हरिकेशो हरिद्राङ्गो हरिन्मणिसरोहठः ॥ ६९॥ हरिपृज्यो हरो हार्यो हरिणाङ्कशिखण्डकः ॥ हाहाकारादिरहितो हनुनासो हहुंकृतः ॥ ७०॥ ललाननो लतासोमो लक्षमीकान्तवरप्रदः । लम्बोदरगुरुर्लभ्यो लवलीशो लुलायगः ॥ ७१॥ क्षयद्वीरः क्षमायुत्तः क्षयादिरहितः क्षमी । क्षत्रियान्तकरः क्षान्तः क्षात्रधर्मप्रवर्तकः ॥ ७२॥ क्षयिष्णुवर्धनः क्षान्तः क्षपानाथकलधरः । क्षपादिपूजनप्रीतः क्षपणान्तः क्षराक्षरः ॥ ७३॥ रुद्रो मन्युः सुधन्वा च बाहुमान् परमेश्वरः । स्विषुः स्विष्टकृदीशानः शरव्याधारको युवा॥ ७४॥ अघोरस्तनुमान् देवो गिरीशः पाकशासनः । गिरित्रः पुरुषः प्राणः पञ्चप्राणप्रवर्तकः ॥ ७५॥ अध्यवोचो महादेव अधिवक्ता महेश्वरः । ईशानः प्रथमो देवो भिषजां पतिरीश्वरः ॥ ७६॥ ताम्रोऽरुणो विश्वनाथो बभ्रुश्चैव सुमङ्गलः । नीलग्रीवः शिवो हृष्टो देवदेवो विलोहितः ॥ ७७॥ गोपवश्यो विश्वकर्ता उदहार्यजनेक्षितः । विश्वदृष्टः सहस्राक्षो मीढुष्ठो भगवन् हरः ॥ ७८॥ शतेषुधिः कपर्दी च सोमो मीढुष्टमो भवः । अनाततश्चातिधृष्णुः सत्वानां रक्षकः प्रभुः ॥ ७९॥ विश्वेश्वरो महादेवस्त्र्यंबकस्त्रिपुरान्तकः । त्रिकाग्निकालः कालाग्निरुद्रो नीलोऽधिपोऽनिलः ॥ ८०॥ सर्वेश्वरः सदा शम्भुः श्रीमान् मृत्युञ्जयः शिवः । स्वर्णबाहुः सैन्यपालो दिशाधीशो वनस्पतिः ॥ ८१॥ हरिकेशः पशुपतिरुग्रः सस्पिञ्जरोऽन्तकः । त्विषीमान् मार्गपो बभ्रुर्विव्याधी चान्नपालकः ॥ ८२॥ पुष्टो भवाधिपो लोकनाथो रुद्राततायिकः । क्षेत्रशः सूतपोऽहन्त्यो वनपो रोहितः स्थपः ॥ ८३॥ वॄक्षेशो मन्त्रजो वाण्यो भुवन्त्यो वारिवस्कृतः । ओषदीशो महाघोषः क्रन्दनः पत्तिनायकः ॥ ८४॥ कृत्स्नवीती धावमनः सत्वनां पतिरव्ययः । सहमानोऽथ निर्व्याधिरव्याधिः कुकुभो नटः ॥ ८५॥ निषङ्गी स्तेनपः कक्ष्यो निचेरुः परिचारकः । आरण्यपः सृकावि च जिघांसुर्मुष्णपोऽसिमान् ॥ ८६॥ नक्तश्वरः प्रकृन्तश्च उष्णीषी गिरिसञ्चरः । कुलुञ्च इषुमान् धन्वी आतन्वान् प्रतिधानवान् ॥ ८७॥ आयच्छो विसृजोऽप्यात्मा वेधनो आसनः परः । शयानः स्वापकृत् जाग्रत् स्थितो धावनकारकः ॥ ८८॥ सभापतिस्तुरङ्गेश उगणस्तृंहतिर्गुरुः । विश्वो व्रातो गणो विश्वरुपो वैरुप्यकारकः ॥ ८९॥ महानणीयान् रथपः सेनानीः क्षत्रसंग्रहः । तक्षा च रथकारश्च कुलालः कर्मकारकः ॥ ९०॥ पुञ्जिष्ठश्च निषादश्च इषुकृद्धन्वकारकः । मृगयुः श्वानपो देवो भवो रुद्रोऽथ शर्वकः ॥ ९१॥ पशुपो नीलकण्ठश्च शितिकण्ठः कपर्दभृत् । व्युप्तकेशः सहस्राक्षः शतधन्वा गिरीश्वरः ॥ ९२॥ शिपिविष्टोऽथ मीढुष्ट इषुमान् हृस्ववामनः । बहुर्वर्षवया वृद्धः संवृद्ध्वा पथमोऽग्रियः ॥ ९३॥ आशुश्वैवाजिरः शीघ्र्यः शीम्य ऊर्म्योऽथ वस्वनः । स्रोतो द्वीप्यस्तथा ज्येष्ठः कनिष्ठः पूर्वजोऽपरः ॥ ९४॥ मध्यश्चाथाप्रगल्भश्च .... आशुषेणश्चाशुरथः शूरो वै भिन्दिवर्मधृक् ॥ ९५॥ वरूथी विरुमी कावची श्रुतसेनोऽथ दुन्दुभिः । धृष्णुश्च प्रहितो दूतो निषङ्गी तीक्ष्णसायकः ॥ ९६॥ आयुधी स्वायुधी देव उपवीती सुधन्वधृक् । स्रुत्यः पथ्यस्तथा काट्यो नीप्यः सूद्यः सरोद्भवः ॥ ९७॥ नाद्यवैशन्तकूप्याश्चावट्यो वर्ष्यो मेघ्योऽथ वैद्युतः। ईघ्र्य आतप्य वातोत्थो रश्मिजो वास्तवोऽस्तुपः ॥ ९८॥ सोमो रुद्रस्तथा ताम्र अरुणः शङ्गः ईश्वरः । उग्रो भीमस्तथैवाग्रेवधो दूरेवधस्तथा ॥ ९९॥ हन्ता हनीयान् वृक्षश्च हरिकेशः प्रतर्दनः । तारः शम्भुर्मयोभूश्च शङ्करश्च मयस्करः ॥ १००॥ शिवः शिवतरस्तीर्थ्यः कूल्यः पार्यो वार्यः प्रतारणः । उत्तारणस्तथालाद्य आर्तायः शष्प्यफेनजः ॥ १०१॥ सिकत्यश्च प्रवाह्यश्च इरिण्यः प्रमथः किंशिलः । क्षयणः कूलगो गोष्ठ्यः पुलत्स्यो गृह्य एव च ॥ १०२॥ तल्प्यो गेह्यस्तथा काट्यो गह्वरेष्ठो हृदोद्भवः । निवेष्ट्यः पासुमध्यस्थो रजस्यो हरितस्थितः ॥ १०३॥ शुष्क्यो लोप्यस्तथोलप्य ऊर्म्यः सूर्म्यश्च पर्णजः । पर्णशद्योऽपगुरकः अभिघ्नोत्खिद्यकोविदः ॥ १०४॥ अवः (?) किरिक ईशानो देवादिहृदयान्तरः । विक्षीणको विचिन्वत्क्यः आनिर्ह आमिवत्ककः ॥ १०५॥ द्रापिरन्घस्पतिर्दाता दरिद्रन्निललोहितः । तवस्वांश्च कपर्दीशः क्षयद्विरोऽथ गोहनः ॥ १०६॥ पुरुषन्तो गर्तगतो युवा मृगवरोग्रकः । मृडश्च जरिता रुद्रो मीढ्यो देवपतिर्हरिः ॥ १०७॥ मीढुष्टमः शिवतमो भगवानर्णवान्तरः । शिखी च कृत्तिवासाश्च पिनाकी वृष्भस्थितः ॥ १०८॥ अग्नीषुश्च वर्षेषुर्वातेषुश्च ...... पृथिवीस्थो दिविष्टश्च अन्तरिक्षस्थितो हरः ॥ १०९॥ अप्सु स्थितो विश्वनेता पथिस्थो वृक्षमूलगः । भूताधिपः प्रमथप ..... ॥ ११०॥ अवपलः सहस्रास्यः सहस्रनयनश्रवाः । ऋग्गणात्मा यजुर्मध्यः साममध्यो गणाधिपः ॥ १११॥ उर्म्यर्वशीर्षपरमः शिखास्तुत्योऽपसूयकः । मैत्रायणो मित्रगतिस्तण्डुप्रीतो रिटिप्रियः ॥ ११२॥ उमाधवो विश्वभर्ता विश्वहर्ता सनातनः । सोमो रुद्रो मेधपतिवंकुर्वै मरुतां पिता॥ ११३॥ ....... अरुषो अध्वरेश्वरः । जलाषभेषजो भूरिदाता सुजनिमा सुरः ॥ ११४॥ सम्राट् पुरांभिद् दुःखस्थः सत्पतिः पावनः क्रतुः । हिरण्यरेता दुर्धर्षो विश्वाधिक उरुक्रमः ॥ ११५॥ गुरुगायोऽमितगुणो महाभूतस्र्त्रिविक्रमः । अमृतो अजरोऽजय्यो रुद्रोऽग्निः पुरुषो विराट् ॥ ११६॥ तुषाराट्पूजितपदो महाहर्षो रसात्मकः । महर्षिबुद्धिदो गोप्ता गुप्तमन्त्रो गतिप्रदः ॥ ११७॥ गन्धर्वगानप्रीतात्मा गीतप्रीतोरुशासनः । विद्वेषणहरो हार्यो हर्षक्रोधविवर्जितः ॥ ११८॥ भक्त्तप्रियो भक्त्तिवश्यो भयहृद्भूतसङ्धभित् । भुवनेशो भूधरात्मा विश्ववन्द्यो विशोषकः ॥ ११९॥ ज्वरनाशो रोगनाशो मुञ्जिकेशो वरप्रदः । पुण्डरीकमहाहारः पुण्डरीकत्वगम्बरः ॥ १२०॥ आखण्डलमुखस्तुत्यः कुण्डली कुण्डलप्रियः । चण्डांशुमण्डलान्तस्थः शशिखण्डशिखण्डकः ॥ १२१॥ चण्डतनाण्डवसन्नाहश्चण्डकोपोऽखिलाण्डगः । चण्डिकापूजितपदो मण्डनाकल्पकाण्डजः ॥ १२२॥ रणशौण्डो महादण्डस्तुहुण्डवरदायकः । कपालमालाभरणस्तारणः शोकहारणः ॥ १२३॥ विधारणः शूलकरो घर्षणः शत्रुमारणः । गङ्गाधरो गरधरस्त्रिपुण्ट्रावलिभासुरः ॥ १२४॥ शम्बरारिहरो दक्षहरोऽन्धकहरो हरः । विश्वजिद्गोजिदीशानो अश्वजिद्धनजित् तथा ॥ १२५॥ उर्वराजिदुद्वज्जिच्च सर्वजित् सर्वहारकः । मन्दारनिलयो नन्दः कुन्दमालाधरोऽम्बुदः ॥ १२६॥ नन्दिप्रीतो मन्दहासः सुरवृन्दनिषेवितः । मुचुकुन्दार्चितपदो द्वन्द्वहीनेन्दिरार्चितः ॥ १२७॥ विश्वाधारो विश्वनेता वीतिहोत्रो विनीतकः । शङ्करः शाश्वतः शास्ता सहमानः सहस्रदः ॥ १२८॥ भीमो महेश्वरो नित्य अंबरान्तरनर्तनः । उग्रो भवहरो धौम्यो धीरोदात्तो विराजितः ॥ १२९॥ वञ्चको नियतो विष्णुः परिवञ्चक ईश्वरः । उमावरप्रदो मुण्डी जटिल शुचिलक्षणः ॥ १३०॥ चर्माम्बरः कान्तिकरः कङ्कालवरवेषधृक् । मेखली अजिनी दण्डी कपाली मेखलाधरः ॥ १३१॥ सद्योजातः कालिपतिर्वरेण्यो वरदो मुनिः । वसाप्रियो वामदेवस्तत्पूर्वो वटमूलग ॥ १३२॥ उलूकरोमा घोरात्मा लास्यप्रीतो लघुः स्थिरः । अणोरणीयानीशानः सुन्दरभ्रूः सुताण्डवः ॥ १३३॥ किरीटमालाभरणो राजराजलसद्गतिः । हरिकेशो मुञ्जिकेशो व्योमकेशो यशोधरः ॥ १३४॥ पातालवसनो भर्ता शिपिविष्टः कृपाकरः । हिरण्यवर्णो दिव्यात्मा वृषधर्मा विरोचनः ॥ १३५॥ दैत्येन्द्रवरदो वैद्यः सुरवन्द्योऽघनाशकः । आनन्देशः कुशावर्तो नन्द्यावर्तो मधुप्रियः ॥ १३६॥ प्रसन्नात्मा विरूपाक्षो वनानां पतिरव्ययः । मस्तकादो वेदवेद्यः सर्वो ब्रह्मौदनप्रियः ॥ १३७॥ पिशङ्गितजटाजूटस्तडिल्लोकविलोचनः । गृहाधारो ग्रामपालो नरसिंहविनाशकः ॥ १३८॥ मत्स्यहा कूर्मापृष्ठास्थिधरो भूदारदारकः ॥ विधीन्द्रपूजितपदः पारदो वारिधिस्थितः ॥ १३९॥ महोदयो महादेवो महाबीजो महाङ्गधृक् । उलूकनागाभरणो विधिकन्धरपातनः ॥ १४०॥ आकाशकोशो हार्दात्मा मायावी प्रकृतेः परः । शुल्कस्त्रिशुल्कस्त्रिमधुस्त्रिसुपर्णः षडङ्गवित् ॥ १४१॥ ललनाजनपूज्यांघ्रिर्लङ्कावासोऽनिलाशनः । विश्वतश्चक्षुरीशानो विश्वतोबाहुरीश्वरः ॥ १४२॥ सर्वात्मा भावनागम्यः स्वतन्त्रः परमेश्वरः । विश्वभक्षो विद्रुमाक्षः सर्वदेवशिरोमणिः ॥ १४३॥ ब्रहम सत्यं तथानन्दो ज्ञानानन्दमहाफलः । ईश्वरः - अष्टोत्तरं महादेवि शेषाशेषमुखोद्गतम् । इत्येतन्नामसाह्स्रं रहस्यं कथितं मया॥ १४४॥ पवित्रमिदमायुष्यं पठतां श‍ृण्वतां सदा। यस्त्वेतन्नमसाहस्रैः बिल्वैः पङ्कजकुड्मलैः ॥ १४५॥ पूजयेत् सर्वकालेषु शिवरात्रौ महेश्वरि । तस्य मुक्त्तिं ददामीशे सत्यं सत्यं न संशयः ॥ १४६॥ मम प्रियकरं ह्येतत् फणिना फणितं शुभम् । पठेत् सर्वान् लभेतैव कामानायुष्यमेव च ॥ १४७॥ नामसाहस्रपाठी स यमलोकं न पश्यति । कल्याणीं च लभेद्गौरि गतिं नाम्नां च वैभवात् ॥ १४८॥ नाख्येयं गोप्यमेतद्धि नाभक्ताय कदाचन । न प्रकाश्यमिदं देवि मातृकारुद्रसंहितम् ॥ १४९॥ भक्त्तेषु लभते नित्यं भक्त्तिं मत्पादयोर्दृढाम् । दत्वाऽभक्त्तेषु पापात्मा रौरवं नरकं व्रजेत् ॥ १५०॥ सूतः - इति शिववचनं निशम्य गौरी प्रणयाच्च प्रणता शिवाङ्घ्रिपद्मे । सुरवरतरुसुन्दरोरुपुष्पैरभिपूज्य प्रमथाधिपं तुतोष ॥ १५१॥ तुष्टाव कष्टहरमिष्टदमष्टदेहं नष्टाघसंघदुरदृष्टहरं प्रकृष्टम् । उत्कृष्टवाक्यसुरबृन्दगणेष्टदानलोलं विनष्टतमसं शिपिविष्टमीशम् ॥ १५२॥ श्रीपार्वती - चण्डांशुशीतांशुहुताशनेत्रं चक्षुःश्रवापारविलोलहारम् । चर्माम्बरं चन्द्रकलावतंसं चराचरस्थं चतुराननेड्यम् ॥ १५३॥ विश्वाधिकं विश्वविधानदक्षं विश्वेश्वरं विश्रुतनामसारम् । विनायकेड्यं विधिविष्णुपूज्यं विभुं विरुपाक्षमजं भजेऽहम् ॥ १५४॥ मधुमथनाक्षिवराब्जपूज्यपादं मनसिजतनुनाशनोत्थदीप्तमन्युम् । मम मानसपद्मसद्मसंस्थं मतिदाने निपुणं भजामि शम्भुम् ॥ १५५॥ हरिं हरन्तमनुयन्ति देवा नखैस्तथा पक्षवातैः सुघोणैः । नृसिंहमुग्रं शरभाकृतिं शिवं मत्तं तदा दानवरक्तपानात् ॥ १५६॥ नखरमुखरघातैस्तीक्ष्णया दंष्ट्रयापि ज्वरपरिकरदेहे नाशतापैः सुदीप्ते । दितिजकदनमत्तं संहरन्तं जगच्च हरिमसुरकुलघ्नं देवतुष्ट्यै महेशः । परशुवरनिखातैः क्रोडमुत्क्रोष्टुमीष्टे ॥ १५७॥ रौद्रनामभिरीशानं स्तुत्वाऽथ जगदंबिका। प्रेमाश्रुपुलका देवं सा गाढं परिषस्वजे ॥ १५८॥ शौनकः - कानि रौद्राणि नामानि त्वं नो वद विशेषतः । न तृप्तिरीशचरितं श‍ृण्वतां नः प्रसीद भो ॥ १५९॥ सूतः - तान्यहं वो वदाम्यद्य श‍ृणुद्वं शौनकादयः ॥ पवित्राणि विचित्राणि देव्या प्रोक्त्तानि सत्तमाः ॥ १६०॥ देवी - दिशांपतिः पशुपतिः पथीनां पतिरीश्वरः । अन्नानां च पतिः शंभुः पुष्टानां च पतिः शिवः ॥ १६१॥ जगतां च पतिः सोमः क्षेत्राणां च पतिर्हरः । वनानां पतिरीशानो वृक्षाणां च पतिर्भवः ॥ १६२॥ आव्याधिनीनां च पतिः स्नायूनां च पतिर्गुरुः । पत्तिनां च पतिस्ताम्रः सत्वनां च पतिर्भवः ॥ १६३॥ आरण्यानां पतिः शम्भुर्मुष्णतां पतिरुष्णगुः । प्रकृतीनां पतिश्चेशः कुलुञ्चानां पतिः समः ॥ १६४॥ रुद्रो गृत्सपतिर्व्रात्यो भगीरथपतिः शुभः । अन्धसांपतिरीशानः सभायाः पतिरीश्वरः ॥ १६५॥ सेनापतिश्च श्वपतिः सर्वाधिपतये नमः । प्रणता विनता तवाङ्घ्रिपद्मे भगवन् परिपाहि मां विभो त्वम् । तव कारुण्यकटाक्षलेशलेशैर्मुदिता शङ्कर भर्ग देवदेव ॥ १६६॥ सूतः - इति गिरिवरजाप्रकृष्टवाक्यं स्तुतिरूपं विबुधाधिपो महेशः । अभिवीक्ष्य तदा मुदा भवानीमिदमाह स्मरगर्वनाशकः ॥ १६७॥ शिवः - इदमगतनये सहस्रनाम्नां परमरहस्यमहो महाघशोषम् । प्रबलतरवरैश्च पातकौधैर्यदि पठते हि द्विजः स मुक्तिभाक् ॥ १६८॥ शैवं मेऽद्य रहस्यमद्भ्हुततरं सद् द्वादशांशान्वितम् । श्रुत्वोदारगिरा दरोरुकथया सम्पूरितं धारितम् । पापानं प्रलयाय तद्भवति वै सत्यं वदाम्यद्रिजे ॥ १६९॥ श्रुतिगिरिकरिकुम्भगुंभरत्ने त्वयि गिरिजे परया रमार्द्रदृष्ट्या । निहितोऽजिह्मधियां मुदेऽयमेष ... मम भक्त्तजनार्पणं मुदे ॥ १७०॥ ईश्वरः - एतत्ते पञ्चमांशस्य विस्तरः कथितो मया । रहस्यार्थस्य देवेशि किं भूयः श्रोतुमिच्छसि ॥ १७१॥ इत्थं शिववचः श्रुत्वा प्रणम्याथ महेश्वरी । समालिङ्ग्य महादेवं सहर्षं गिरिजा तदा॥ १७२॥ प्राह प्रेमाश्रुपुलका श्रुत्वा शिवकथासुधाम् । देवी - अहो धन्यास्मि देवेश त्वत्कथाम्भोधिवीचिभिः ॥ १७३॥ श्रोत्रे पवित्रतां याते माहात्म्यं वेद कस्तव। मामृते देवदेवेश न भेदोऽस्त्यावयोः शिवः ॥ १७४॥ भव भव भगवन् भवाब्धिपार स्मरगरख्ण्डनमण्डनोरुगण्ड । स्फुरदुरुमुकुटोत्तमाङ्गगङ्गा... दिव्यदेह ॥ १७५॥ अव भव भवहन् प्रकर्षपापाञ्जनमज्ञं जडदुःखभोगसङ्गम् । तव सुखकथया जगत् पवित्रं भव भवतात् भवतापहन् मुदे मे ॥ १७६॥ सूतः - इति देव्या स्तुतो देवो महेशः करुणानिधिः । तद्वत् कथानिधिः प्रोक्तः शिवरत्नमहाखनिः ॥ १७७॥ भवतां दर्शनेनाद्य शिवभक्तिकथारसैः । पावितोऽस्मि मुनिश्रेष्ठाः किं भूयः श्रोतुमिच्छथ ॥ १७८॥ इति तद्वदनाम्भोजसुधानिष्यन्दिनीं गिरम् । श्रुत्वा प्रकटरोमाञ्चः शौनकः प्राह सादरम् ॥ १७९॥ शौनकः - अहो महादेवकथासुधाम्बुभिः सम्प्लावितोऽस्म्यद्य भवाग्नितप्तः । धन्योऽस्मि त्वद्वाक्यसुजातहर्षो द्विजैः सुजातैरपि जातहर्षः ॥ १८०॥ सूतः - श्रीमत्कैलासवर्ये भुवनजनकतः संश्रुता पुण्यदात्री शम्भोर्दिव्यकथासुधाब्धिलहरी पापापनोदक्षमा । देव्यास्तच्छ्रुतवान् गुरुर्मम मुनिः स्कन्दाच्च तल्लब्धवान् सेयं शङ्करकिङ्करेषु विहिता विश्वैकमोक्षप्रदा ॥ १८१॥ इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे .... नाम चत्वारिंशोऽध्यायः ॥