अक्षर आकार:

श्रीशिवसहस्रनामस्तोत्रम् देवीभागवतान्तर्गतम्

Shri Shiva Sahasranamastotram from devIbhAgavata

श्रीशिवसहस्रनामस्तोत्रम् देवीभागवतान्तर्गतम्

भगीरथकृतं श्रीमहादेवीभागवत उपपुराणे भगीरथ उवाच- ॐ नमस्ते पार्वतीनाथ देवदेव परात्पर । अच्युतानघ पञ्चास्य भीमास्य रुचिरानन ॥ १॥ व्याघ्राजिनधरानन्त पारावारविवर्जित । पञ्चानन महासत्त्व महाज्ञानमय प्रभो ॥ २॥ अजितामितदुर्धर्ष विश्वेश परमेश्वर । विश्वात्मन्विश्वभूतेश विश्वाश्रय जगत्पते ॥ ३॥ विश्वोपकारिन्विश्वैकधाम विश्वाश्रयाश्रय । विश्वाधार सदानन्द विश्वानन्द नमोऽस्तु ते ॥ ४॥ शर्व सर्वविदज्ञानविवर्जित सुरोत्तम । सुरवन्द्य सुरस्तुत्य सुरराज सुरोत्तम ॥ ५॥ सुरपूज्य सुरध्येय सुरेश्वर सुरान्तक । सुरारिमर्दक सुरश्रेष्ठ तेऽस्तु नमो नमः ॥ ६॥ त्वं शुद्धः शुद्धबोधश्च शुद्धात्मा जगतां पतिः । शम्भुः स्वयम्भूरत्युग्र उग्रकर्मोग्रलोचनः ॥ ७॥ उग्रप्रभावश्चात्युग्रमर्दकोऽत्युग्ररूपवान् । उग्रकण्ठः शिवः शान्तः सर्वशान्तिविधायकः ॥ ८॥ सर्वार्थदः शिवाधारः शिवायनिरमित्रजित् । शिवदः शिवकर्ता च शिवहन्ता शिवेश्वरः ॥ ९॥ शिशुः शैशवयुक्तस्च पिङ्गकेशो जटाधरः । गङ्गाधरकपर्दी च जटाजूटविराजितः ॥ १०॥ जटिलो जटिलाराध्यः सर्वदोन्मत्तमानसः । उन्मत्तकेश उन्मत्त उन्मत्तानामधीश्वरः ॥ ११॥ उन्मत्तलोचनो भीमस्त्रिनेत्रो भीमलोचनः । बहुनेत्रो द्विनेत्री च रक्तनेत्रः सुनेत्रकः ॥ १२॥ दीर्घनेत्रस्च पिङ्गाक्षः सुप्रभाख्यः सुलोचनः । सोमनेत्रोऽग्निनेत्राख्यः सूर्यनेत्रः सुवीर्यवान् ॥ १३॥ पद्माक्षः कमलाक्षश्च नीलोत्पलदलेक्षणः । सुलक्षणः शूलपाणिः कपाली कपिलेक्षणः ॥ १४॥ व्याघूर्णनयनो धूर्तो व्याघ्रचर्माम्बरावृतः । श्रीकण्ठो नीलकण्ठाख्यः शितिकण्ठः सुकण्ठकः ॥ १५॥ चन्द्रचूडश्चन्द्रधरश्चन्द्रमौलिः शशाङ्कभृत् । शशिकान्तः शशाङ्काभः शशाङ्काङ्कितमूर्धजः ॥ १६॥ शशाङ्कवदनो वीरो वरदो वरलोचनः । शरच्चन्द्रसमाभासः शरदिन्दुसमप्रभः ॥ १७॥ कोटिसूर्यप्रतीकाशश्चन्द्रास्यश्चन्द्रशेखरः । अष्टमूर्तिर्महामूतिर्भीममूर्तिर्भयानकः ॥ १८॥ भयदाता भयत्राता भयहर्ता भयोज्झितः । निर्भूतो भूतवन्द्यश्च भूतात्मा भूतभावनः ॥ १९॥ कौपीनवासा दुर्वासा विवासाः कामिनीपतिः । करालः कीर्तिदो वैद्यः किशोरः कामनाशनः ॥ २०॥ कीर्तिरूपः कुन्तधारी कालकूटकृताशनः । कालकूटः सुरूपी च कुलमन्त्रप्रदीपकः ॥ २१॥ कलाकाष्ठात्मकः काशीविहारी कुटिलाननः । महाकाननसंवासी कालीप्रतिविवर्धनः ॥ २२॥ कालीधरः कामचारि कुलकीर्तिविवर्धनः । कामाद्रिः कामुकवरः कार्मुकी काममोहितः ॥ २३ कटाक्षः कनकाभासः कनकोज्ज्वलगात्रकः । कामातुरः क्वणत्पादः कुटिलभ्रुकुटीधरः ॥ २४॥ कार्तिकेयपिता कोकनदभूषणभूषितः । खट्वाङ्गयोद्धा खड्गी च गिरीशो गगनेश्वरः ॥ २५ गणाध्यक्षः खेटकधृक् खर्वः खर्वतरः खगः । खगारूढः खगाराध्यः खेचरः खेचरेश्वरः ॥ २६॥ खेचरत्वप्रदः क्षोणीपतिः खेचरमर्दकः । गणेश्वरो गणपिता गरिष्ठो गणभूपतिः ॥ २७॥ गुरुर्गुरुतरो ज्ञेयो गङ्गापतिरमर्षणः । गीतप्रियो गीतरतः सुगोप्यो गोपवृन्दपः ॥ २८॥ गवारूढो जगद्भर्ता गोस्वामी गोस्वरूपकः । गोप्रदो गोधरो गृध्रो गरुत्मान् गोकृतासनः ॥ २९। गोपीशो गुरुतातश्च गुहावासी सुगोपितः । गजारूढो गजास्यश्च गजाजिनधरोऽग्रजः ॥ ३०॥ ग्रहाध्यक्षो ग्रहगणो दुष्टग्रहविमर्दकः । मानरूपी गानरतः प्रचण्डो गानविह्वलः ॥ ३१॥ गानमत्तो गुणी गुह्यो गुणग्रमाशयो गुणः । गूढबुद्धिर्गूढमूर्तिर्गूढपादविभूषितः ॥ ३२॥ गोप्ता गोलोकवासी च गुणवान्गुणिनां वरः । हरो हरितवर्णाक्षो मृत्युर्मृत्युञ्जयो हरिः ॥ ३३॥ हव्यभुघरिसम्पूज्यो हविर्हविर्भुजां वरः । अनादिरादिः सर्वाद्य आदितेयवरप्रदः ॥ ३४॥ अनन्तविक्रमो लोको लोकानां पापहारकः । गीष्पतिः सद्गुणोपेतः सगुणो निर्गुणो गुणी ॥ ३५॥ गुणप्रीतो गुणवरो गिरिजानायको गिरिः । गौरीभर्ता गुणाढयश्च गोश्रेष्ठासनसंस्थितः ॥ ३६॥ पद्मासनः पद्मनेत्रः पद्मतुष्टः सुपद्मकः । पद्मवक्त्रः पद्मकरः पद्मारूढपदाम्बुजः ॥ ३७॥ पद्मप्रियतमः पद्मालयः पद्मप्रकाशकः । पद्मकाननसंवासः पद्मकाननभञ्जकः ॥ ३८॥ पद्मकाननसंवासी पद्मारण्यकृतालयः । प्रफुल्लवदनः फुल्लकमलाक्षः प्रफुल्लकृत् ॥ ३९॥ फुल्लेन्दीवरसन्तुष्टः प्रफुल्लकमलासनः । फुल्लाम्भोजकरः फुल्लमानसः पापहारकः ॥ ४०॥ पापापहारी पुण्यात्मा पुण्यकीर्तिः सुपुण्यवान् । पुण्यः पुण्यतमो धन्यः सुपूतात्मा परात्मकः ॥ ४१॥ पुण्येशः पुण्यदः पुण्यनिरतः पुण्यभाजनः । परोपकारी पापिष्ठनाशकः पापहारकः ॥ ४२॥ पुरातनः पूर्वहीनः परद्रोहविवर्जितः । पीवरः पीवरमुखः पीनकायः पुरान्तकः ॥ ४३॥ पाशी पशुपतिः पाशहस्तः पाषाणवित्पतिः । पलात्मकः परो वेत्ता पाशबद्धविमोचकः ॥ ४४॥ पशूनामधिपः पाशच्छेत्ता पाशविभेदकः । पाषाणधारी पाषाणशयानः पाशिपूजितः ॥ ४५॥ पश्वारूढः पुष्पधनुः पुष्पवृन्दसुपूजितः । पुण्डरीकः पीतवासा पुण्डरीकाक्षवल्लभः ॥ ४६॥ पानपात्रकरः पानमत्तः पानातिभूतकः । पोष्टा पोष्ट्ट्वरः पूतः परित्राताऽखिलेश्वरः ॥ ४७॥ पुण्डरीकाक्षकर्ता च पुण्डरीकाक्षसेवितः । पल्लवस्थः प्रपीठस्थः पीठभूमिनिवासकः ॥ ४८॥ पिता पितामहः पार्थप्रसन्नोऽभीष्टदायकः । पितॄणां प्रीतिकर्ता च प्रीतिदः प्रीतिभाजनः ॥ ४९॥ प्रीत्यात्मकः प्रीतिवशी सुप्रीतः प्रीतिकारकः । प्रीतिहृत्प्रीतिरूपात्मन् प्रीतियुक्तस्त्वमेव हि ॥ ५०॥ प्रणतार्तिहरः प्राणवल्लभः प्राणदायकः । प्राणी प्राणस्वरूपश्च प्राणग्राही मुनिर्दयः ॥ ५१॥ प्राणनाथः प्रीतमनाः सर्वेषां प्रपितामहः । वृद्धः प्रवृद्धरूपश्च प्रेतः प्रणयिनां वरः ॥ ५२॥ पराधीशः परं ज्योतिः परनेत्रः परात्मकः । पारुष्यरहितः पुत्री पुत्रदः पुत्ररक्षकः ॥ ५३॥ पुत्रप्रियः पुत्रवश्यः पुत्रवत्परिपालकः । परित्राता परावासः परचेताः परेश्वरः ॥ ५४॥ पतिः सर्वस्य सम्पाल्यः पवमानः परोऽन्तकः । पुरहा पुरुहूतश्च त्रिपुरारिः पुरान्तकः ॥ ५५॥ पुरन्दरोऽतिसम्पूज्यः प्रधर्षो दुष्प्रधर्षणः । पटुः पटुतरः प्रौढः प्रपूज्यः पर्वतालयः ॥ ५६॥ पुलिनस्थः पुलस्त्याख्यः पिङ्गचक्षुः प्रपन्नगः । अभीरुरसिताङ्गश्च चण्डरूपः सिताङ्गकः ॥ ५७॥ सर्वविद्याविनोदश्च सर्वसौख्ययुतः सदा । सुखहर्ता सर्वसुखी सर्वलोकैकपावनः ॥ ५८॥ सदावनः सारदश्च सुसिद्धः शुद्धरूपकः । सारः सारतरः सूर्यः सोमः सर्वप्रकाशकः ॥ ५९॥ सोममण्डलधारी च समुद्र सिन्धुरूपवान् । सुरज्येष्ठः सुरश्रेष्ठः सुरासुरनिषेवितः ॥ ६०॥ सर्वधर्मविनिर्मुक्तः सर्वलोकनमस्कृतः । सर्वाचारयुतः सौरः शाक्तः परमवैष्णवः ॥ ६१॥ सर्वधर्मविधानज्ञः सर्वाचारपरायणः । सर्वरोगप्रशमनः सर्वरोगापहारकः ॥ ६२॥ प्रकृष्टात्मा महात्मा च सर्वधर्मप्रदर्शकः । सर्वसम्पद्युतः सर्वसम्पद्दानसमेक्षणः ॥ ६३॥ सहास्यवदनो हास्ययुक्तः प्रहसिताननः । साक्षी समक्षवक्ता च सर्वदर्शी समस्तवित् ॥ ६४॥ सकलज्ञः समर्थज्ञः सुमनाः शैवपूजितः । शोकप्रशमनः शोकहन्ताऽशोच्यः शुभान्वितः ॥ ६५॥ शैलज्ञः शैलजानाथः शैलनाथः शनैश्चरः । शशाङ्कसदृशज्योतिः शशाङ्कार्धविराजितः ॥ ६६॥ साधुप्रियः साधुतमः साध्वीपतिरलौकिकः । शून्यरूपः शून्यदेहः शून्यस्थः शून्यभावनः ॥ ६७॥ शून्यगामी श्मशानस्थः श्मशानाधिपतिः सुवाक् । शतसूर्यप्रभः सूर्यः सूर्यदीप्तः सुरारिहा । शुभान्वितः शुभतनुः शुभबुद्धिः शुभात्मकः ॥ ६८॥ शुभान्विततनुः शुक्लतनुः शुक्लप्रभान्वितः । सुशौक्लः शुक्लदशनः शुक्लाभः शुक्लमाल्यधृत् ॥ ६९॥ शुक्लपुष्पप्रियः शुक्लवसनः शुक्लकेतनः । शेषालङ्करणः शेषरहितः शेषवेष्टितः ॥ ७०॥ शेषारूढः शेषशायी शेषाङ्गदविराजितः । सतीप्रियः साशङ्कश्च समदर्शी समाधिमान् ॥ ७१॥ सत्सङ्गी सत्प्रियः सङ्गी निःसङ्गी सङ्गवर्जितः । सहिष्णुः शाश्वतैश्वर्यः सामगानरतः सदा ॥ ७२॥ सामवेत्ता साम्यतरः श्यामापतिरशेषभुक् । तारिणीपतिराताम्रनयनस्त्वरिताप्रियः ॥ ७३॥ तारात्मकस्त्वग्वसनस्तरुणीरमणो रतः । तृप्तिरूपस्तृप्तिकर्ता तारकारिनिषेवितः ॥ ७४॥ वायुकेशो भैरवेशो भवानीशो भवान्तकः । भवबन्धुर्भवहरो भवबन्धनमोचकः ॥ ७५॥ अभिभूतोऽभिभूतात्मा सर्वभूतप्रमोहकः । भुवनेशो भूतपूज्यो भोगमोक्षफलप्रदः ॥ ७६॥ दयालुर्दीननाथश्च दुःसहो दैत्यमर्दकः । दक्षकन्यापतिर्दुःखनाशको धनधान्यदः ॥ ७७॥ दयावान् दैवतश्रेष्ठो देवगन्धर्वसेवितः । नानायुधधरो नानापुष्पगुच्छविराजितः ॥ ७८॥ नानासुखप्रदो नानामूर्तिधारी च नर्तकः । नित्यविज्ञानसंयुक्तो नित्यरूपोऽनिलोऽनलः ॥ ७९॥ लब्धवर्णो लघुतरो लघुत्वपरिवर्जितः । लोलाक्षो लोकसम्पूज्यो लावण्य परिसंयुतः ॥ ८०॥ नपुरीन्याससंस्थश्च नागेशो नगपूजितः । नारायणो नारदश्च नानाभरणभूषितः ॥ ८१॥ नगभूतो नग्नदेशो नग्नः सानन्दमानसः । नमस्यो नतनाभिश्च नम्रमूर्धाभिवन्दितः ॥ ८२॥ नन्दिकेशो नन्दिपूज्यो नानानीरजमध्यगः । नवीनबिल्वपत्रौघतुष्टो नवघनद्युतिः ॥ ८३॥ नन्दः सानन्द आनन्दमयश्चानन्दविह्वलः । नालसंस्थः शोभनस्थः सुस्थः सुस्थमतिस्तथा ॥ ८४॥ स्वल्पासनो भीमरुचिर्भुवनान्तकराम्बुदः । आसन्नः सिकतालीनो वृषासीनो वृषासनः ॥ ८५॥ वैरस्यरहितो वार्यो व्रती व्रतपरायणः । ब्राह्म्यो विद्यामयो विद्याभ्यासी विद्यापतिस्तथा ॥ ८६॥ घण्टाकारो घोटकस्थो घोररावो घनस्वनः । घूर्णचक्षुरघूर्णात्मा घोरहासो गभीरधीः ॥ ८७॥ चण्डीपतिश्चण्डमूर्तिश्चण्डो मुण्डी प्रचण्डवाक् । चितासंस्थश्चितावासश्चितिर्दण्डकरः सदा ॥ ८८॥ चिताभस्माभिसंलिप्तश्चितानृत्यपरायणः । चिताप्रमोदी चित्साक्षी चिन्तामणिरचिन्तकः ॥ ८९॥ चतुर्वेदमयश्चक्षुश्चतुराननपूजितः । चीरवासाश्चकोराक्षश्चलन्मूर्तिश्चलेक्षणः ॥ ९०॥ चलत्कुण्डलभूषाढयश्चलद्भूषणभूषितः । चलन्नेत्रश्चलत्पादश्चलन्नूपुरराजितः ॥ ९१॥ स्थावरः स्थिरमूर्तिश्च स्थावरेशः स्थिरासनः । स्थापकः स्थैर्यनिरतः स्थूलरूपी स्थलालयः ॥ ९२॥ स्थैर्यातिगः स्थितिपरः स्थाणुरूपी स्थलाधिपः । ऐहिको मदनार्तश्च महीमण्डलपूजितः ॥ ९३॥ महीप्रियो मत्तरवो मीनकेतुविमर्दकः । मीनरूपो मनिसंस्थो मृगहस्तो मृगासनः ॥ ९४॥ मार्गस्थो मेखलायुक्तो मैथिलीश्वरपूजितः । मिथ्याहीनो मङ्गलदो माङ्गल्यो मकरासनः ॥ ९५॥ मत्स्यप्रियो मथुरगीर्मधुपानपरायणः । मृदुवाक्यपरः सौरप्रियो मोदान्वितस्तथा ॥ ९६॥ मुण्डालिर्भूषणो दण्डी उद्दण्डो ज्वललोचनः । असाध्यसाधकः शूरसेव्यः शोकापनोदनः ॥ ९७॥ श्रीपतिः श्रीसुसेव्यश्च श्रीधरः श्रीनिकेतनः । श्रीमतां श्रीस्वरूपश्च श्रीमान्श्रीनिलयस्तथा ॥ ९८॥ श्रमादिक्लेशरहितः श्रीनिवासः श्रियान्वितः । श्रद्धालुः श्राद्धदेवश्च श्राद्धो मधुरवाक् तथा ॥ ९९॥ प्रलयाग्न्यर्कसङ्काशः प्रमत्तनयनोज्ज्वलः । असाध्यसाधकः शूरसेव्यः शोकापनोदनः ॥ १००॥ विश्वभूतमयो वैश्वानरनेत्रोऽधिमोहकृत् । लोकत्राणपरोऽपारगुणः पारविवर्जितः ॥ १०१॥ अग्निजिह्वो द्विजास्यश्च विश्वास्यः सर्वभूतधृक् । खेचरः खेचराधीशः सर्वगः सार्वलौकिकः ॥ १०२॥ सेनानीजनकः क्षुब्धाब्धिर्वारिक्षोभविनाशकः । कपालविलसद्धस्तः कमण्डलुभृदर्चितः ॥ १०३॥ केवलात्मस्वरूपश्च केवलज्ञानरूपकः । व्योमालयनिवासी च बृहद्व्योमस्वरूपकः ॥ १०४॥ अम्भोजनयनोऽम्भोधिशयानः पुरुषातिगः । निरालम्बोऽवलम्बश्च सम्भोगानन्दरूपकः ॥ १०५॥ योगनिद्रामयो लोकप्रमोहापहरात्मकः । बृहद्वक्त्रो बृहन्नेत्रो बृहद्वाहुर्बृहद्वलः ॥ १०६॥ बृहत्सर्पाङ्गदो दुष्टबृहद्वालविमर्दकः । बृहद्भुजबलोन्मत्तो बृहत्तुण्डो बृहद्वपुः ॥ १०७॥ बृहदैश्वर्ययुक्तस्च बृहदैश्वर्यदः स्वयम्। बृहत्सम्भोगसनुष्टो बृहदानन्ददायकः ॥ १०८॥ बृहज्जटाजूटधरो बृहन्माली बृहद्धनुः । इन्द्रियाधिष्ठितः सर्वलोकेन्द्रियविमोहकृत् ॥ १०९॥ सर्वेन्द्रियप्रवृत्तिकृत् सर्वेन्द्रियनिवृत्तिकृत्। प्रवृत्तिनायकः सर्वविपत्तिपरिनाशकः ॥ ११०॥ प्रवृत्तिमार्गनेता त्वं स्वतन्त्रेच्छामयः स्वयम् । सत्प्रवृत्तिरतो नित्यं दयानन्दशिवाधरः ॥ १११॥ क्षितिरूपस्तोयरूपी विश्वतृप्तिकरस्तथा । तर्पस्तर्पणसम्प्रीतस्तर्पकस्तर्पणात्मकः ॥ ११२॥ तृप्तिकारणभूतश्च सर्वतृप्तिप्रसाधकः । अभेदो भेदकोऽच्छिद्यच्छेदकोऽच्छेद्य एव हि ॥ ११३॥ अच्छिन्नधन्वाऽच्छिन्नेषुरच्छिन्नध्वजवाहनः । अदृष्टः समधृष्टास्त्रः समधृष्टो बलोन्नतः ॥ ११४॥ चित्रयोधी चित्रकर्मा विश्वसङ्कर्षकः स्वयम् । भक्तानामीप्सितकरः सर्वेप्सितफलप्रदः ॥ ११५॥ वाञ्छिताभीष्टफलदोऽभिन्नज्ञानप्रवर्तकः । बोधनात्मा बोधनार्थातिगः सर्वप्रबोधकृत् ॥ ११६॥ त्रिजटश्चैकजटिलश्चलज्जूटो भयानकः । जटाटीनो जटाजूटस्पृष्टावरवचः स्वयम् ॥ ११७॥ षाण्मातुरस्य जनकः शक्तिः प्रहरतां वरः । अनर्घास्त्रप्रहारी चानर्घधन्वा महार्घ्यपात् ॥ ११८॥ योनिमण्डलमध्यस्थो मुखयोनिरजृम्भणः । महाद्रिसदृशः श्वेतः श्वेतपुष्पस्रगन्वितः ॥ ११९॥ मकरन्दप्रियो नित्यं मासर्तुहायनात्मकः । नानापुष्पप्रसूर्नानापुष्पैरर्चितगात्रकः ॥ १२०॥ षडङ्गयोगनिरतः सदायोगार्द्रमानसः । सुरासुरनिषेव्याङ्घ्रिर्विलसत्पादपङ्कजः ॥ १२१॥ सुप्रकाशितवक्त्राब्जः सितेतरगलोज्ज्वलः । वैनतेयसमारूढः शरदिन्दुसहस्रवत् ॥ १२२॥ जाज्वल्यमानस्तेजोभिर्ज्वालपुञ्जो यमः स्वयम् । प्रज्वलद्विद्युदाभश्च साट्टहासभयङ्करः ॥ १२३॥ प्रलयानलरूपी च प्रलयाग्निरुचिः स्वयम् । जगतामेकपुरुषो जगतां प्रलयात्मकः ॥ १२४॥ प्रसीद त्वं जगन्नाथ जगद्योने नमोऽस्तु ते ॥ १२५॥ श्रीमहादेव उवाच- एवं नामसहस्रेण राज्ञा वै संस्तुतो हरः । प्रत्यक्षमगमत्तस्य सुप्रसन्नमुखाम्बुजः ॥ १२६॥ स तं विलोक्य त्रिदशैकनाथं पञ्चाननं श्वेतरुचिं प्रसन्नम् । वृषाधिरूढं भुजगाङ्गदैर्युतं ननर्त राजा धरणीभुजां वरः ॥ १२७॥ प्रोवाच चेदं परमेश्वराद्य मे एतानि सर्वाणि सुखार्थकानि । तपश्च होमश्च मनुष्यजन्म यत्त्वां प्रपश्यामि दृशा परेशम् ॥ १२८॥ मत्तो न धन्योस्ति महीतले वा स्वर्गे यतस्त्वं मम नेत्रगोचरः । सुरासुराणामपि दुर्लभेक्षणः परात्परः पूर्णमयो निरामयः ॥ १२९॥ ततस्तमेवं प्रतिभाषमाणं प्राह प्रपनार्तिहरो महेश्वरः । किं ते मनोवाञ्छितमेव विद्यते वृणुष्व तत्पुत्र ददामि तुभ्यम् ॥ १३०॥ सचाह पूर्वं कपिलस्य शापतः पातालरन्ध्रे मम पूर्ववंशजाः । भस्मीबभूवुः सगरस्य पुत्रा महाबला देवसमानविक्रमाः ॥ १३१॥ तेषां तु निस्तारणकाम्यया ह्यहं गङ्गां धरण्यामभिनेतुमीहे । सा तु त्वदीया परमा हि शक्तिः विनाज्ञया ते न हि याति पृथ्वीम् ॥ १३२॥ तदेतदिच्छामि समेत्य गङ्गा क्षितौ महावेगवती महानदी । प्रविश्य तस्मिन्विवरे महेश्वरी पुनातु सर्वान्सगरस्य पुत्रान् ॥ १३३॥ इत्येवमाकर्ण्य वचः परेश्वरः प्रोवाच वाक्यं क्षितिपालपुङ्गवम् । मनोरथस्तेऽयमवेहि पूर्णो मम प्रसादादचिराद्भविष्यति ॥ १३४॥ ये चापि मां भक्तित एव मर्त्याः स्तोत्रेण चानेन नृप स्तुवन्ति । तेषां तु पूर्णाः सकला मनोरथा ध्रुवं भविष्यन्ति मम प्रसादात् ॥ १३५॥ श्रीमहादेव उवाच- इत्येवं स वरं लब्ध्वा राजा हृष्टमनास्ततः । दण्डवत्प्रणिपत्याह धन्योऽहं त्वत्प्रसादतः ॥ १३६॥ ततश्चान्तर्दधे देवः क्षणादेव महामते । राजा निर्वृत्तचेताः स बभूव मुनिसत्तम ॥ १३७॥ राज्ञा कृतमिदं स्तोत्रं सहस्रनामसंज्ञकम् । यः पठेत्परया भक्त्या स कैवल्यमवाप्नुयात् ॥ १३८॥ न चेह दुःखं कुत्रापि जायते तस्य नारद । जायते परमैश्वर्यं प्रसादाच्च महेशितुः ॥ १३९॥ महापदि भये घोरे यः पठेत्स्तोत्रमुत्तमम् । शम्भोर्नामसहस्राख्यं सर्वमङ्गलवर्धनम् ॥ १४०॥ महाभयहरं सर्वसुखसम्पत्तिदायकम् । स मुच्यते महादेवप्रसादेन महाभयात् ॥ १४१॥ दुर्भिक्ष्ये लोकपीडायां देशोपद्रव एव वा । सम्पूज्य परमेशानं धूपदीपादिभिर्मुने ॥ १४२॥ यः पठेत्परया भक्त्या स्तोत्रं नामसहस्रकम् । न तस्य देशे दुर्भिक्षं न च लोकादिपीडनम् ॥ १४३॥ न चान्योपद्रवो वापि भवेदेतत्सुनिश्चितम् । पर्जन्योऽपि यथाकाले वृष्टिं तत्र करोति हि ॥ १४४॥ यत्रेदं पठ्यते स्तोत्रं सर्वपापप्रणाशनम् । सर्वसस्ययुता पृथ्वी तस्मिन्देशे भवेद्ध्रुवम् ॥ १४५॥ न दुष्टबुद्धिर्लोकानां तत्रस्थानां भवेदपि । नाकाले मरणं तत्र प्राणिनां जायते मुने ॥ १४६॥ न हिंस्रास्तत्र हिंसन्ति देवदेवप्रसादतः । धन्या देशाः प्रजा धन्या यत्र देशे महेश्वरम् ॥ १४७॥ सम्पूज्य पार्थिवं लिङ्गं पठेद्यत्रेदमुत्तमम् । चतुर्दश्यां तु कृष्णायां फाल्गुने मासि भक्तितः ॥ १४८॥ यः पठेत्परमेशस्य नाम्नां दशशताख्यकम् । स्तोत्रमत्यन्तसुखदं न पुनर्जन्मभाग्भवेत् ॥ १४९॥ वायुतुल्यबलो नूनं विहरेद्धरणीतले । धनेशतुल्यो धनवान्कन्दर्पसमरूपवान् ॥ १५०॥ विहरेद्देवतातुल्यो निग्रहानुग्रहे क्षमः । गङ्गायां वा कुरुक्षेत्रे प्रयागे वा महेश्वरम् । परिपूज्य पठेद्यस्तु स कैवल्यमवाप्नुयात् ॥ १५१॥ काश्यां यस्तु पठेदेतत्स्तोत्रं परममङ्गलम् । तस्य पुण्यं मुनिश्रेष्ठ किमहं कथयामि ते ॥ १५२॥ एतत्स्तोत्रप्रसादेन स जीवन्नेव मानवः । साक्षान्महेशतामेति मुक्तिरन्ते करस्थिता ॥ १५३॥ प्रत्यहं प्रपठेदेतद्बिल्वमूले नरोत्तमः । स सालोक्यमवाप्नोति देवदेवप्रसादतः ॥ १५४॥ यो ह्येतत्पाठयेत्स्तोत्रं सर्वपापनिबर्हणम् । स मुच्यते महापापात्सत्यं सत्यं वदामि ते ॥ १५५॥ न तस्य ग्रहपीडा स्यान्नापमृत्युभयं तथा । न तं द्विषन्ति राजानो न वा व्याधिभयं भवेत् ॥ १५६॥ पठेदेतद्धृदि ध्यात्वा देवदेवं सनातनम् । सर्वदेवमयं पूर्णं रजताद्रिसमप्रभम् ॥ १५७॥ प्रफुल्लपङ्कजास्यं च चारुरूपं वृषध्वजम्। जटाजूटज्वलत्कालकूटशोभितविग्रहम् ॥ १५८॥ त्रिशूलं डमरु चैव दधानं दक्षवामयोः । द्वीपिचर्माम्बरधरं शान्तं त्रैलोक्यमोहनम् ॥ १५९॥ एवं हृदि नरो भक्त्या विभाव्यैतत्पठेद्यदि । इह भुक्त्वा परं भोगं परत्र च महामते ॥ १६०॥ शम्भोः स्वरूपतां याति किमन्यत्कथयामि ते ॥ १६१॥ तत्रैव सद्भक्तियुतः पठेदिदं स्तोत्रं मम प्रीतिकरं परं मुने । मर्त्यो हि योऽन्यः खलु सोऽपि कृच्छ्रं जगत्पवित्रायत एव पापतः ॥ १६२॥ ॥ श्रीमहाभागवते उपपुराणे भगीरथप्रोक्तं शिवसहस्रनामस्तोत्रं सम्पूर्णम् ॥