अक्षर आकार:

श्रीशिवसहस्रनामावलिः शिवरहस्यान्तर्गतम् अध्याय २४

Shri Shiva Sahasranamavali from Shivarahasya Adhyaya 24 1000 Names

श्रीशिवसहस्रनामावलिः शिवरहस्यान्तर्गतम् अध्याय २४

शिवरहस्ये चतुर्विंशोऽध्यायः ॥ ॐ श्रीगणेशाय नमः । ॐ ओङ्कारकण्ठनिलयाय नमः । ओङ्कारार्थप्रकाशकृते । ओङ्कारबीजसुप्रीताय । ओङ्कारस्वरमात्रकाय । ओङ्कारार्थाय । ओमितीड्याय । नानामन्त्रस्वरूपवते । नादरूपाय । नाशिताघाय । नामरूपगुणातिगाय । नागाजिनोत्तरासङ्गाय । नामप्रीताय । नताखिलाय । मायातीताय । माधवेयाय । मार्गमाणाय । महेश्वराय । मांसादनाय । मातृमेयमानादिगुणवर्जिताय । शिवाय नमः । २० ॐ शिवतराय नमः । अशीताय । शीतांशुकृतभूषणाय । शिवेतरहराय । शम्भवे । शिशिरर्तुप्रवर्तकाय । वामदेवाय । वशिने । शान्ताय । वाद्यमोदाय । अवसानकृते । वामाय । चक्रप्रदाय । वाग्मिने । वाय्वाहाराय । अगदाय । वसवे । यामिनीशकलामौलये । यातायानप्रियाय । यमिने नमः । ४० ॐ यमप्रमथनाय नमः । यष्ट्रे । यजमानाय । यतीश्वराय । सिन्धुनिषङ्गाय । सिंहेन्द्राय । सिनीवालीस्तुतिप्रियाय । सिन्धुसिंहासनासीनाय । सिन्धुराङ्गत्वगम्बराय । धनाधीशाय । अन्धसां नाथाय । धर्माधर्मविचारकाय । धौम्याय । धात्रे । धराधीशाय । धूर्जटये । धर्मकेतनाय । नमिताशेषदिक्पालाय । नरनारायणार्चिताय । नतिप्रीताय नमः । ६० ॐ नमस्कार्याय नमः । नगधृषे । नगवासभुवे । मयस्कराय । मन्त्ररूपाय । मस्करिणे । मस्तकाम्बुधृषे । मन्मथान्तकराय । मन्यवे । मनस्विने । मननातिगाय । कपालपाणये । कालात्मने । किष्कवे । कीर्तिप्रदायकाय । कुसुमार्चनसुप्रीताय । कुशलाय । केकयेश्वराय । कैलासमौलिनिलयाय । कोपात्मने नमः । ८० ॐ कौलमार्गविदे नमः । कटाक्षपूज्याय । कस्तुरीगन्धवासैकमेदुराय । खण्डपर्शवे । खाण्डवासाय । खिल्याय । खीरप्रियाय । खुसाय (खसाय) । खण्डपाय । खेटधृषे । खैराय । खान्तकृते । स्वर्धुनीश्वराय । खण्डितारातिनिलयाय । खर्जूरवनमध्यगाय । गयासुरहराय । गार्ग्याय । गिरीशाय । गीतिवर्धनाय । गुरवे नमः । १०० ॐ गुर्जरगाय नमः । गेयाय । गौरीभर्त्रे । गैरिकाय । गोवर्धनाय । गन्धवहाय । गन्त्रे । गर्वप्रणाशकृते । घण्टाध्वनिप्रियाय । घस्थाय । घनगर्भाय । घनाघनाय । चन्द्रचूडाय । चारुरूपाय । चित्रकर्मणे । चितिप्रियाय । चीनाजिनिने । चञ्चुचूडाय । चैत्रिणे । चैत्ररथाश्रिताय नमः । १२० ॐ चेतसे नमः । अच्युताय । चण्डांशवे । चमसोद्भेदवासकृते । छत्रधृषे । छान्दसाय । छागवाहनाय । छद्मरूपधृषे । छेत्त्रे । छेदकराय । अच्छादाय । छन्दोगाय । छान्दसप्रियाय । जयदाय । जागताय । जिग्यवे । जयदाय । जीवितप्रदाय । जयकृते । जैत्रसञ्जेत्रे नमः । १४० ॐ जिष्णवे नमः । जपपरायणाय । जकुटाद्रिकृतावासाय । जटिलाय । जम्बुकेश्वराय । जननाय । जूतिगाय । जूटिने । जङ्गमाजङ्गमात्मकाय । झञ्झावाद्यरताय । झङ्कारवप्रीताय । झर्झरिणे । झङ्कारकृते । झाङ्करिकाय । झषकेतननाशनाय । यमाय । यामप्रियाय । यन्त्रे । यजमानाय । यमिने नमः । १६० ॐ यजुषे नमः । यशस्कराय । यत्नपराय । यष्ट्रे । यज्ञेश्वराय । यतये । टङ्काप्रियाय । टङ्ककराय । टक्काराय । टारवाहनाय । नीलकण्ठाय । कालकालाय । कमेराय । कश्मलापघ्ने । वैकुण्ठपूजापीठस्थाय । द्विठान्तमनुमध्यगाय । डाम्भिकाय । डमरुप्रीताय । डामरीतन्त्रपूरकाय । दाडिमीफलसुप्रीताय नमः । १८० ॐ डम्भाय नमः । डम्भप्रियाय । जडाय । ढक्कारवप्रियाय । ढक्काधराय । ढक्कारिकाप्रियाय । ढुण्ढाय । गूढाय । महाबाढाय । गूढपादे । वरभूषणाय । णकारवाच्याय । गणपाय । फणाधरवरप्रियाय । वीणापाणये । शूलपाणये । कणपादे । कणभक्षणाय । तस्कराय । तीर्थकृते नमः । २०० ॐ तीर्थ्याय नमः । तुर्याय । तूर्यरवप्रियाय । तेजस्विने । तेजसां नाथाय । तोषणाय । तौल्यलालिताय । तन्तवे । तमालनीलाङ्गाय । तारकाय । ताम्रतारणाय । धकाराय (थकाराय) । मन्मथारातये । प्रमथेशाय । कुथाऽऽवृताय । कम्पाकाय । कथाप्रीताय । कौथुमाय । गीतसुप्रियाय । दमनाय नमः । २२० ॐ दान्तनिलयाय नमः । दिनेशाय । दानवानलाय । दुर्दान्ताय । दूतहरणाय । देशकालाय । दैवविदे । दोषघ्नाय । दुर्गतिघ्नाय । दण्डपाणये । दयापराय । धनदाय । धान्यदाय । धाराय । धुन्धुकौकाय । धुरन्धराय । धेनुप्रियाय । धैर्यधनाय । धर्माधर्मविशारदाय । नम्याय नमः । २४० ॐ अनादये नमः । नीतिरताय । नृत्तज्ञाय । नेत्रपालकाय । नतार्तिशमनाय । नेत्रे । अनन्ताय । नामविवर्जिताय । पद्मनेत्रप्रपूज्याङ्घ्रये । पार्वतीशाय । प्रसादकृते । पीयूषकाय । पीतवाससे । पीनाङ्गाय । पालकाय । पवये । पोषणः । पैतृकाय । पोषाय । पन्नगाभरणाय नमः । २६० ॐ पराय नमः । फणीश्वरधराय । फालनयनाय । फल्गुकेश्वराय । फूत्कारकृद्युतशिरसे । फणिताय । फणिताकृतये । बर्बराय । बाहुमते । बिन्दवे । बिल्मिनये । बुधवर्धनाय । जम्बूप्रीताय । अम्बरगताय । बैन्दवासनसंस्थिताय । बोधदाय । बौद्धहृद्बन्धाय । बलप्रमथनिने । बलिने । भयहृते नमः । २८० ॐ भानुदृषे नमः । भिल्लाय । भीतिदाय । भूतिभूषणाय । भेरीवाद्यप्रियाय । देवाय । भैरवाय । भोगभाजे । भवाय । भोज्यपूज्याय । भण्डखण्डाय । भीमाय । भागविवर्जिताय । मनोन्मनाय । माणवकाय । मितिकृते । मीनलोचनाय । मुनिप्रियाय । मूकपालाय । मेनकाजनकाय नमः । ३०० ॐ मनवे नमः । मैनाकवरदाय । मोचाफलप्रीताय । मरुत्वकाय । मौनिपूज्याय । मन्थरकाय । मस्करिणे । मयशिल्पदाय । यशोधनाय । यायजूकाय । यज्ञकृते । यज्ञनाशनाय । यात्रिकाय । यन्त्रमध्यस्थाय । यशोदातनयार्चिताय । रमणाय । रावणप्रीताय । रतिदाय । रुग्विनाशकृते । रेतस्विने नमः । ३२० ॐ रैभ्यवरदाय नमः । रोदनाय । अरातिनाशनाय । रन्धनाय । रसपाय । रामाय । रतिदाय । रगणस्थिताय । ललाटनयनाय । लीनाय । लिङ्गस्थाय । लिङ्गमस्तकाय । लुलायवाहहरणाय । ललवे । लयविवर्जिताय । वसुदाय । वामदेवाय । विश्वनाथाय । विशालकृते । वीतिहोत्रमहानेत्राय नमः । ३४० ॐ वेनाय नमः । वैश्वानराय । वटवे । वौषिट्कृते । वामदेव्याय । वामभागाङ्गनाय । वशिने । षडध्वगाय । षडाधाराय । पाषण्डप्राणखण्डकाय । उच्चैर्घोषाय । घोरवेषाय । भीषणाय । बहुभाषणाय । शाङ्गाय । शान्ताय । शिवाय । शीताय । शुनकाय । शून्यकृते नमः । ३६० ॐ शठाय नमः । शेषाय । विशेषणाय । शास्त्रे । शतात्मने । शौनकार्चिताय । सनातनाय । सावित्राय । सिन्धुजूटाय । सुनीथकाय । सूताय । सेतवे । सौतिकराय । सैकताय । सन्नतये । समाय । क्षपापतिकलाधारिणे । क्षात्रकर्मणे । क्षितीरभसे । क्षुद्रकर्मविनाशात्मने नमः । ३८० ॐ क्षुत्तृष्णादिविवर्जिताय नमः । हाहाहूहूमुखस्तुत्याय । हानि (ह्रास) वृद्धिविवर्जिताय । हस्तिकृत्तिप्रियाय । हर्त्रे । हरिकेशाय । हराय । हनवे । हैयङ्गवीनहृदयाय । हरिदश्वान्तरस्थिताय । हंसकाख्यमहानागाय । हंसकूटाद्रिवासकृते । भुजङ्गभोगभूषाढ्याय । भूतिभूषितविग्रहाय । न्यङ्कुहस्ताय । शम्बरारिनिहन्त्रे । महेश्वराय । अर्णवान्तःस्थिताय । योगिने । भोगिने नमः । ४०० ॐ रागविवर्जिताय नमः । कपालधृषे । कालकालाय । कालातीताय । अक्षराय । पराय । पर्णशय्याय । महावैद्याय । आद्याय । अभेद्याय । विशारदाय । हिरण्यदशनाय । अहार्याय । मुञ्जिकेशाय । हरिद्युतये । हव्यवाहाम्बकाय । नित्याय । स्तुत्याय । वप्त्याप्रवर्तकाय । गयास्तुताय नमः । ४२० ॐ गुणिने नमः । गोप्त्रे । निर्गुणाय । त्रिगुणातिगाय । विष्णुप्रीतिकराय । शोणाय । शोणाक्षय । शोणतीरगाय । शतावर्ताय । शाश्वतात्मने । शमनान्तकराय । शठाय । उगणाय । भगणाय । अधीशाय । प्रभवे । सम्मुखाय । ईश्वराय । सद्योजाताय । वामदेवाय नमः । ४४० ॐ ईशानाय नमः । अघोरपूरुषाय । पञ्चब्रह्ममयाय । पञ्चमुखाय । पञ्चार्णमध्यगाय । पञ्चाक्षरीमध्यगताय । पञ्चकोशविवर्जिताय । पादपाय । पवनाय । पाशाय । पशुपाशविवर्जिताय । पथ्याय । पद्मजपूज्याङ्घ्रये । प्रघसाय । पङ्कजेक्षणाय । विश्वाय । विश्वाधिकाय । नेत्रे । विश्वाक्षाय । विश्वतोमुखाय नमः । ४६० ॐ विष्णुपूज्याय नमः । विशां श्रेष्ठाय । विनायकवरप्रदः । गङ्गाधराय । अम्बिकाभर्त्रे । धर्त्रे । हर्त्रे । जनेश्वराय । मेघवाहाय । प्रसन्नात्मने । कङ्कालकवराय । मधवे । वीतिहोत्रमहानेत्राय । सत्रपात्राय । दिगम्बराय । महास्मशाननिलयाय । ईशानाय । गराशनाय । महाग्रासाय । महाभीमाय नमः । ४८० ॐ विद्युत्याय नमः । शुक्लाय । ईश्वराय । कन्दर्पदर्पघ्ने । कान्ताय । कपर्दिने । नीललोहिताय । पिनाकपाणये । कालात्मने । गोपतये । वृषवाहनाय । सुरमन्दारमालाढ्याय । कन्धराय । अनन्तविक्रमाय । क्षयद्वीराय । मारहाराय । हराय । शीतांशुशेखराय । शताङ्गवरदाय । होत्रे नमः । ५०० ॐ यजमानाय नमः । यशस्कराय । मयस्कराय । शङ्कराय । शिपिविष्टाय । प्रतिष्ठिताय । प्रजापतये । पशुपतये । यतीनां पतये । अग्निभुवे । सामगानप्रियाय । शुद्धाय । प्रशान्तात्मने । स्थिराय । प्रभवे । विभवे । विभासकाय । अनन्ताय । रुद्राय । उग्राय नमः । ५२० ॐ महेश्वराय नमः । जागर्तकाय । जाङ्गलेशाय । जङ्गमाय । अजङ्गमात्मकाय । जातुकर्णप्रियाय । ज्येष्ठाय । कनिष्ठाय । श्रेष्ठाय । उत्तमाय । प्रतिष्ठायै । परमाय । धाम्ने । परमात्मने । ऋताय । महते । यन्त्रात्मने । मन्त्ररूपात्मने । मन्त्ररूपाय । सदाशिवाय नमः । ५४० ॐ निगमागमसंसेव्याय नमः । सुराद्याय । प्रपितामहाय । सुरासुरगणाध्यक्षाय । त्र्यक्षाय । दक्षमखान्तकाय । महोक्षवाहाय । उक्षेड्याय । भगाक्षिहरणाय । अक्षताय । अनल्पकल्पाय । शिल्पादये । सुशीलाय । कौलपूजिताय । स्तव्याय । नव्याय । भव्यरूपाय । हव्यकव्यभुजे । अव्ययाय । महाबलाय नमः । ५६० ॐ महोत्साहाय नमः । महादेवाय । महाङ्गधृषे । शतावर्ताय । शान्तमनसे । सहमानाय । स्तुतिप्रियाय । सनातनाय । वामदेवाय । मनस्विने । मानवर्जिताय । गतिदाय । नतपाय । वाग्मिने । उच्चैर्घोषाय । महाहनवे । त्रिपुण्ड्रफालाय । भस्माङ्गाय । पुण्डरीकत्वगम्बराय । गायत्रीमध्यनिलयाय नमः । ५८० ॐ मित्ररूपाय नमः । जगत्प्रभवे । प्रसेनजित्कक्षवासाय । नरसिंहनिपातनाय । कोलदंष्ट्राधराय । भूताय । भूतनाथाय । रतिप्लुताय । कूर्माम्रेडितपादाब्जाय । चन्द्रचूडाय । स्थिराय । मृडाय । गुढपादे । वरहाराध्याय । आढ्याय । मौढ्यविनाशकाय । दण्डिने । कुण्डिने । तण्डुपूज्याय । मुण्डिने नमः । ६०० ॐ पाषण्डवर्जिताय नमः । अलिङ्गाय । लिङ्गनिलयाय । स्फुलिङ्गसदृशेक्षणाय । बिल्वपूज्याय । बिल्मिनये । बिलेशयफणाधराय । बाणलिङ्गार्चनप्रीताय । वडवानलसम्भवाय । बलारातिभुजस्तम्भाय । भूपतये । विप्रपूजिताय । अन्धकान्तकराय । भर्गाय । गोवृषाङ्काय । उमाधवाय । धनञ्जयाक्षाय । कञ्चाक्षपूज्यपादाम्बुजद्वयाय । वीतरागाय । सान्द्रसुखाय नमः । ६२० ॐ वङ्कशङ्कुशराय नमः । हराय । हयग्रीवार्चिताय । हेतिधराय । भिक्षाटनप्रियाय । युक्त्रे । युक्त्वाय । निर्णयाय । पाठकविद्वदधीनाय । त्रिमधवे । त्रिसुपर्णात्मने । पर्णशायिने । महेश्वराय । अञ्जनाक्षाय । खञ्जनात्मने । रञ्जनाय । रङ्गनृत्यकृते । वायवे । आयुःप्रदाय । मध्याय नमः । ६४० ॐ गह्वरेष्टाय नमः । अन्तकान्तकाय । शर्वाय । सर्वगताय । स्थाणवे । स्थविष्ठाय । सुप्रसन्नवाचे । शब्दाय । स्पर्शाय । रसाय । रूपाय । गन्धाय । चन्द्राय । विभावसवे । सर्वेन्द्रियगुणातीताय । सर्वेन्द्रियविवर्जिताय । सर्वेषां प्रभवे । ईशानाय । सर्वेषां शरणाय । सुहृते नमः । ६६० ॐ सीमाय नमः । भूमाय । महते आत्मने । प्रतिष्ठात्रे । पुरुषाय । पराय । पुच्छाय । ब्रह्मणे । ऋताय । सत्याय । हराय । वैष्णवपिङ्गलाय । ऊर्ध्वरेतसे । विरूपाक्षाय । क्षितीशाय । क्षान्तिवर्धनाय । सविशेषाय । निर्विशेषाय । शेषाहिकटकोज्ज्वलाय । रसाय नमः । ६८० ॐ आनन्दाय नमः । आतार्याय । शष्पाय । फेन्याय । सिकत्यकाय । प्रवाह्याय । गेह्यवाह्याय । प्रसाद्याय । प्रमथाधिपाय । ज्ञानदाय । धनदाय । धीराय । दुन्दुभ्याय । भीतिनाशकृते । मयस्कराय । मस्करिणे । तस्कराय । भास्करेक्षणाय । यशस्कराय । कुलुञ्चेशाय नमः । ७०० ॐ भिषजामधिपाय नमः । यूने । वर्णिने । वन्याय । गृहस्थाय । सन्यासिने । न्यासमध्यगाय । भीमाय । सोमाय । प्रशान्तात्मने । धाम्ने । धूमसवर्णभृते । कामदाय । काममथनाय । क्रथनाय । कनकाम्बराय । समाय । निःसीममहिमाय । वनेशाय । क्षेत्रनायकाय नमः । ७२० ॐ कैलासशैलनिलयाय नमः । विलयाय । लयवर्जिताय । रक्षाकराय । राक्षसघ्नाय । लास्यप्रीताय । रतिप्रदाय । प्रदोषताण्डवपराय । सर्वदोषहराय । हरये । आखण्डलमुखस्तुत्याय । मेरुकोदण्डधृग्वराय । वेदघोटाय । पाटिताशोह्यहिज्याय ?? । ब्रह्मसारथये । सूर्यचन्द्रमहाचक्राय । हरिबाणाय । अम्बरावृताय । क्ष्मारथाय । त्रिपुरारातये नमः । ७४० ॐ कण्वपूज्याय नमः । विचारकाय । शूलिने । हलिने । लाङ्गलिने । मुसलिने । कुशलिने । बलिने । गदिने । शङ्खिने । वशिने । चक्रिणे । कवचिने । छन्दसां पतये । निषङ्गसागराय । शम्भवे । शान्ताय । सङ्गविवर्जिताय । धीरोदात्ताय । उदात्ताय नमः । ७६० ॐ स्वरिताय नमः । प्रचयस्वराय । प्रणवाय । प्राणदाय । शोणाय । कणादाय । फणिकङ्कणाय । मौनिने । मानिने । जितारातये । रीति धातुमयाय । महते । अणोरणीयसे । सुभगाय । महतोऽपि महत्तराय । स्वराजे । सम्राजे । विराजे । धात्रे । विधात्रे नमः । ७८० ॐ सर्वतोमुखाय नमः । मेधाधिपाय । गाधिपूज्याय । आधिव्याधिविनाशनाय । गाधाधिपाय । व्याधिनीशाय । कलधौतप्रभाय । अबलाय । वेदगर्भाय । नीलकण्ठाय । कुण्ठिताघाय । कृपाकराय । जगदम्बापतये । साम्बाय । त्र्यम्बकाय । रविबिम्बगाय । सुधासागरमध्यस्थाय । मणिद्वीपनिकेतनाय । कदम्बवनमध्यस्थाय । नीपवापीप्रपान्तराय नमः । ८०० ॐ पापतापहराय नमः । गोप्त्रे । शम्बरारिनिषूदनाय । त्रियम्बकाय । वरनटाय । जटाजूटविभूषिताय । काट्याय । नीप्याय । सूद्याय । सरस्याय । मेध्याय । वैद्युताय । ईध्रियाय । आतप्याय । आतार्याय । आलाद्याय । चन्द्रशेखराय । रेष्म्याय । रस्याय । वैशन्ताय नमः । ८२० ॐ अनाद्याय नमः । कूप्याय । वटोद्भवाय । आहनन्याय । दुन्दुभ्याय । सिकत्याय । फेन्यवन्यकाय । प्रवाह्याय । सिकत्याय । प्रवाह्याय । गेह्याय । हिरण्यतल्पाय । आताम्राय । भवाय । रुद्राय । पितामहाय । संसारवैद्याय । विश्वात्मने । गजाय । चक्रप्रवर्तकाय नमः । ८४० ॐ मेरवे नमः । पित्रे । स्विषवे पात्रे । गरिष्ठाय । गह्वराय । तरवे । हिरण्यबाहवे । आशास्याय । सेनानिने । गिरिशाय । मृडाय । सुधन्वने । बिल्वपत्रार्च्याय । गोनर्दाय । वृषाकपये । उरुगायाय । कल्पवृक्षाय । ज्योतिषे । हेतये । विभावसवे नमः । ८६० ॐ सुतिथये नमः । कौशिकाय । धूर्ताय । धुत्तूरकुसुमप्रियाय । उमाधवाय । माधवार्च्याय । भस्मरुद्राक्षभूषिताय । गङ्गातुङ्गजटामौलये । नर्मदाशर्मदायकाय । तमालमालासुगलाय । करवाललसत्कराय । अट्टाट्टहासाय । विकटाय । दंष्ट्राकुटिलवक्त्रकाय । रक्तवृत्तेक्षणाय । सुभ्रुवे । श्वभ्राय । हर्त्रे । कवीश्वराय । फुल्लनीलोत्पलस्रग्विने नमः । ८८० ॐ शम्याकार्च्याय नमः । विरोधघ्ने । आर्याय । सूर्यप्रभाय । शास्त्रे । सुहस्ताय । बस्तचर्मधृषे । क्षेत्रेशाय । जन्मघ्ने । आत्मने । अमोघाय । अद्रिजापतये । शाणचीरधराय । अघोराय । बर्बराय । भैरवाय । सख्ये । उष्णीषवसनाच्छन्न उपानत्पात्प्लवाय । शिवाय । वृक्षपल्लवसन्मौलये नमः । ९०० ॐ शुनाम्पतये नमः । अपां पतये । जघन्याय । बुध्न्याय । छन्दसे । अरुणाय । भगणेन्द्रधृषे । कुमारजनकाय । वेत्त्रे । परिवीतोपवीतधृषे । बभ्रवे । सुचेत्रे । मीढुषे । आषढाय । द्रापये । उत्तमाय । एकाक्षाय । नैकपादे । सुभ्रुवे । अधिपाय नमः । ९२० ॐ मित्रपाय नमः । शिवाय । क्षेत्रपाय । स्वपतये । देवाय । धनपाय । शत्रुनाशकृते । अन्नेषवे । वातेषवे । तीर्थेषवे । प्रपथां पतये । आयुर्दाय । धनदाय । धीराय । रसाय । शिवतराय । भृगवे । ९३७ इति श्रीशिवरहस्ये द्वादशांशे स्कन्दकृत शिवसहस्रनामस्तुतिर्नामावलिः समाप्ता । There are only 937 names we could find in the corresponding original stotra.