अक्षर आकार:

शिवरामाष्टकम्

shivarAmAShTakam

शिवरामाष्टकम्

श्रीगणेशाय नमः । शिव हरे शिवरामसखे प्रभो त्रिविधतापनिवारण हे प्रभो । अज जनेश्वर यादव पाहि मां शिव हरे विजयं कुरु मे वरम् ॥ १॥ कमललोचन राम दयानिधे हर गुरो गजरक्षक गोपते । शिवतनो भव शङ्कर पाहि मां शिव हरे विजयं कुरु मे वरम् ॥ २॥ स्वजनरञ्जनमङ्गलमन्दिरं भजति ते पुरुषाः परमं पदम् । भवति तस्य सुखं परमाद्भुतं शिव हरे विजयं कुरु मे वरम् ॥ ३॥ जय युधिष्ठिरवल्लभ भूपते जय जयार्जित पुण्यपयोनिधे । जय कृपामय कृष्ण नमोऽस्तु ते शिव हरे विजयं कुरु मे वरम् ॥ ४॥ भवविमोचन माधव मापते सुकविमानसहंस शिवारते । जनकजारत राघव रक्ष मां शिव हरे विजयं कुरु मे वरम् ॥ ५॥ अवनिमण्डलमङ्गल मापते जलदसुन्दर राम रमापते । निगमकीर्तिगुणार्णव गोपते शिव हरे विजयं कुरु मे वरम् ॥ ६॥ पतितपावन नाममयी लता तव यशो विमलं परिगीयते । तदपि माधव मां किमुपेक्षसे शिव हरे विजयं कुरु मे वरम् ॥ ७॥ अमरतापरदेव रमापते विजयस्तव नामघनोपमे । मयि कथं करुणार्णव जायते शिव हरे विजयं कुरु मे वरम् ॥ ८॥ हनुमतः प्रियतोषकर प्रभो सुरसरिदूधृतशेखर हे गुरो । मम विभो किमु विस्मरणं कृतं शिव हरे विजयं कुरु मे वरम् ॥ ९॥ नरहरे रतिरञ्जनसुन्दरं पठति यः शिवरामकृतस्तवम् । विशति रामरमाचरणाम्बुजे शिव हरे विजयं कुरु मे वरम् ॥ १०॥ प्रातरुत्थाय यो भक्त्या पठेदेकाग्रमानसः । विजयो जायते तस्य विष्णुमाराध्यमाप्नुयात् ॥ ११॥ इति श्रीरामानन्दविरचितं शिवरामस्तोत्रम् ।