अक्षर आकार:

श्रीशिवप्रातःस्मरणस्तोत्रम् २

Shri Shivapratahsmaranastotram 2

श्रीशिवप्रातःस्मरणस्तोत्रम् २

श्रीगणेशाय नमः । प्रातः स्मरामि गिरिजापतिमादितेय- स्रोतस्विनीस्रगभिरामजटाकलापम् । पीयूषभानुमुकुटं शिखिपुष्पवन्ता- क्षं नीलकण्ठमनुपाधिकृपामृताब्धिम् ॥ १॥ प्रातर्नमामि निखिलेश्वरशासितारं तारं समस्तनिगमेषु कृतप्रचारम् । कामं दहन्तमहिमन्तमनन्तमन्तः सन्तं सतीकुलललामकलत्रवन्तम् ॥ २॥ प्रातर्भजामि निखिलौषधिभर्तृभूषा- रत्नं क्रियासु कुशलं भवरोगभीतः । पीयूषपाणिमगदप्रदमागमस्वं वर्षिष्ठमार्त्तकरुणापरवन्तमीशम् ॥ ३॥ श्लोकत्रयं विरचितं यमिना प्रबोधा- नन्देन नन्दयतु शश्वदिदं प्रसन्नम् । धन्यानखण्डविभवानमृतांशुखण्ड- चूडामणिस्मरणलोलुपचित्तचुञ्चून् ॥ ४॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्वामिप्रकाशानन्दपुरीविरचितं शिवप्रातःस्मरणस्तोत्रं समाप्तम् ॥