अक्षर आकार:

श्रीशिवपञ्चरत्नस्तुती शिवमहापुराणे

Shivapancharatnastuti

श्रीशिवपञ्चरत्नस्तुती शिवमहापुराणे

श्रीकृष्ण उवाच - मत्तसिन्धुरमस्तकोपरि नृत्यमानपदाम्बुजम् । भक्तचिन्तितसिद्धिदानविचक्षणं कमलेक्षणम् । भुक्तिमुक्तिफलप्रदं भवपद्मजाऽच्युतपूजितम् । कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ १॥ वित्तदप्रियमर्चितं कृतकृच्छ्रतीव्रतपश्चरैः । मुक्तिकामिभिराश्रितैर्मुनिभिर्दृढामलभक्तिभिः । मुक्तिदं निजपादपङ्कजसक्तमानसयोगिनाम् । कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ २॥ कृत्तदक्षमखाधिपं वरवीरभद्रगणेन वै । यक्षराक्षसमर्त्यकिन्नरदेवपन्नगवन्दितम् । रक्तभुग्गणनाथहृद्भ्रमराञ्चिताङ्घ्रिसरोरुहम् । कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ३॥ नक्तनाथकलाधरं नगजापयोधरनीरजा- लिप्तचन्दनपङ्ककुङ्कुमपङ्किलामलविग्रहम् । शक्तिमन्तमशेषसृष्टिविधायकं सकलप्रभुम् । कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ४॥ रक्तनीरजतुल्यपादपयोजसन्मणिनूपुरम् । पत्तनत्रयदेहपाटनपङ्कजाक्षशिलीमुखम् । वित्तशैलशरासनं पृथुशिञ्जिनीकृततक्षकम् । कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ५॥ ॥ फलश्रुतिः॥ यः पठेच्च दिने दिने स्तवपञ्चरत्नमुमापतेः । प्रातरेव मया कृतं निखिलाघतूलमहानलम् । तस्य पुत्रकलत्रमित्रधनानि सन्तु कृपाबलात् । ते महेश्वर शङ्कराखिल विश्वनायक शाश्वत ॥ ६॥ ॥ इति श्रीशिवमहापुराणे च्युतपुरीमाहात्म्ये श्रीकृष्ण कृत श्रीशिवपञ्चरत्नस्तुतिः सम्पूर्णम्॥