अक्षर आकार:

श्रीशिवपादादिकेशान्तस्तुतिः

Shri Shiva-PadadikeshAnta Stuti

श्रीशिवपादादिकेशान्तस्तुतिः

कल्याणं वो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज- क्रीडासंसक्तविद्याधरनिवहवधूगीतरुद्रापदानः । तारैर्हेरम्बनादैस्तरलितनिनदत्तारकारातिकेकी- कैलासश्शर्वनिर्वृत्यभिजनकपदस्सर्वदा पर्वतेन्द्रः ॥ १॥ यस्य प्राहुस्स्वरूपं सकलदिविषदां सारसर्वस्वयोगं यत्येषुश्शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः । मौर्वी दर्वीकराणामपि च परिबृढः पूस्त्रयी सा च लक्ष्यं सोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः ॥ २॥ आतङ्कावेगहारी सकलदिविषदामङ्घ्रिपद्माश्रयाणां मातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधारात्तधारः । क्रूरः सूरायुतानामपि च परिभवं स्वीयभासा वितन्वन् घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः ॥ ३॥ कालारातेः कराग्रे कृतवसतिरुरश्शाणशातो रिपूणां काले काले कुलाद्रि प्रवरतनयया कल्पितस्नेहलेपः । पायान्नः पावकार्चिःप्रसरसखमुखः पापहन्ता नितान्तं शूलश्श्रीपादसेवाभजनपरहृदां पालनैकान्तशीलः ॥ ४॥ भजनरसजुषां देवस्याङ्काश्रयायाः कुलगिरिदुहितुर्नेत्रकोणप्रचार- प्रस्तारानत्युदारान् पिपठिषुरिव यो नित्यमत्यादरेण । आधत्ते भङ्गितुङ्गैरनिशमवयवैरन्तरङ्गं समोदं सोमापीडस्य सोऽयं प्रदिशतु कुशलं पाणिरङ्गः कुरङ्गः ॥ ५॥ कण्ठप्रान्तावसज्जत्कनकमयमहाघण्टिकाघोरघोषैः कण्ठारावैरकुण्ठैरपि भरितजगच्चक्रवालान्तरालः । चण्डः प्रोद्दण्डश‍ृङ्गः ककुदकबलितोत्तुङ्गकैलासश‍ृङ्गः कण्ठे कालस्य वाहः शमयतु दुरितं शाश्वतः शाक्करेन्द्रः ॥ ६॥ शमयति शमलं निर्यद्दानाम्बुधारापरिमलतरलीभूतलोलम्बपाली झङ्गारैः शङ्कराद्रेः शिखरशतदरीः पूरयन्भूरिघोषैः । शार्वस्सौवर्णशैलप्रतिमपृथुवपुस्सर्वविघ्नोपहर्ता शर्वाण्याः पूर्वसूनुस्स भवतु भवतां स्वस्तिदो हस्तिवक्त्रः ॥ ७॥ यः पुण्यैर्देवतानां समजनि शिवयोश्श्लाघ्यवीरैकमत्यात् var वीर्यैकमत्यात्] यन्नाम्नि श्रूयमाणे दितिजभटघटा भीतिभारं भजन्ते । भूयात्सोऽयं विभूत्यै निशितशरशिखापाटितक्रौञ्चशैल- स्संसारागाधकूपोदरपतितसमुत्तारकस्तारकारिः ॥ ८॥ आरूढप्रौढवेगप्रविजितपवनं तुङ्गतुङ्गं तुरङ्गं चेलं नीलं वसानः करतलविलसत्काण्डकोदण्डदण्डः । रागद्वेषादिनानाविधमृगपटलीभीतिकृद्भूतभर्ता कुर्वन्नाखेटलीलां परिलसतु मनः कानने मामकीने ॥ ९॥ अम्भोजाभ्यां च रम्भारथचरणलताद्वन्द्वकुम्भीन्द्रकुम्भै- र्बिम्बेनेन्दोश्च कम्बोरुपरि विलसता विद्रुमेणोत्पलाभ्याम् । अम्भोदेनापि सम्पादितमुपजनिताडम्बरं शम्बरारेः शम्भोस्सम्भोगयोग्यं किमपि धनमिदं सम्भवेत्सम्पदे नः ॥ १०॥ वेणीसौभाग्यविस्मापिततपनसुताचारुवेणीविलासा- न्वाणीनिर्धूतवाणीकरतलविधृतोदारवीणाविरावान् । एणीनेत्रान्तभङ्गीनिरसननिपुणापाङ्गकोणानुपासे शोणान् प्राणानुदूढप्रतिनवसुषमाकन्दलानिन्दुमौलैः ॥ ११॥ नृत्तारम्भेषु हस्ताहतमुरजधिमिद्धिंकृतैरत्युदारै- श्चित्तानन्दं विधत्ते सदसि भगवतस्सन्ततं यस्स नन्दी । चण्डीशाद्यास्तथान्ये चतुरगुणगणप्राणितस्वामिसत्का- रोत्कर्षोद्यत्प्रतापाः प्रमथपरिवृढास्सन्तु सन्तोषिणो नः ॥ १२॥ var रोत्कर्षोद्यत्प्रसादाः प्रमथपरिवृढाः पान्तु मुक्तामाणिक्यजालैः परिकलितमहासालमालोकनीयं प्रत्युप्तानर्घरत्नैर्दिशि भवनैः कल्पितैर्दिक्पतीनाम् । उद्यानैरद्रिकन्यापरिजनवनितामाननीयैः परीतं हृद्यं स्तुत्यं सुराणां मम भुवनपतेर्धाम सोमार्धमौलेः ॥ १३॥ var हृद्यं हृद्यस्तु नित्यं स्तम्भैर्जम्भारिरत्नप्रवरविरचितैस्सम्भृतोपान्तभागं शुम्भत्सोपानमार्गं शुचिमणिनिचयैर्गुम्भितानल्पशिल्पम् । कुम्भैस्सम्पूर्णशोभं शिरसि सुघटितैः शातकुम्भैरपङ्कै- श्शम्भोस्सम्भावनीयं सकलमुनिजनैस्सर्वदा सुप्रसन्नः ॥ १४॥ जनैः स्वस्तिदं स्यात्सदो नः न्यस्तो मध्ये सभायाः परिसरविलसत्पादपीठाभिरामो हृद्यः पादैश्चतुर्भिः कनकमणिमयैरुच्चकैरुज्ज्वलात्मा । वासोरत्नेन केनाप्यधिकमृदुकरेणास्त्रतो विस्मृतश्रीः- var तरेणास्तृतो पीठः पीडाधरं नः शमयतु शिवयोस्स्वैरसंवासयोग्यः ॥ १५॥ पीडाभरं आसीनस्याधिपीठं त्रिजगदधिपतेरङ्घ्रिपीठानुषक्तौ पाथोजाभोगभाजौ परिमृदुलतलोल्लासिपद्माभिलेखौ । पातां पादावुभौ तौ नमदमरकिरीटोल्लसच्चारुहीर्- श्रेणीशोणायमानोन्नतनखदशकोद्भासमानौ समानौ ॥ १६॥ यन्नादो वेदवाचां निगदति निखिलं लक्षणं पक्षिकेतु- र्लक्ष्मीसम्भोगसौख्यं विरचयति ययोश्चापदे रूपभेदे । शम्भोस्सम्भावनीये पदकमलसमासङ्गतस्तुङ्गशोभे माङ्गल्यं नस्समग्रं सकलसुखकरे नूपुरे पूरयेताम् ॥ १७॥ अङ्गे श‍ृङ्गारयोनेस्सपदि शलभतां नेत्रवह्नौ प्रयाते शत्रोरुद्धृत्य तस्मादिषुधियुगमधो न्यस्तमग्रे किमेतत् । शङ्कामित्थं नतानाममरपरिषदामन्तरं कूरयत्त- त्सङ्घातं चारुजङ्घायुगमखिलपतेरंहसां संहरेन्नः ॥ १८॥ जानुद्वन्द्वेन मीनध्वजनृपरसमुद्रोपमानेन साकं राजन्तौ राजरम्भाकरिकरकनकस्तम्भसम्भावनीयौ । ऊरू गौरी कराम्भोरुहसरससमामर्दनानन्दभाजौ- चारू दूरीक्रियास्तां दुरितमुपचितं जन्मजन्मान्तरे नः ॥ १९॥ आमुक्तानर्घरत्नप्रकरकरपरिष्वक्तकल्याणकाञ्ची- दाम्ना बद्धेन दुग्धद्युतिनिचयमुषा चीनपट्टाम्बरेण । संवीते शैलकन्यासुचरितपरिपाकायमाणे नितम्बे नित्यं नर्नर्तु चित्तं मम निखिलजगत्स्वामिनस्सोममौलेः ॥ २०॥ सन्ध्याकालानुरज्यद्दिनकरसरुचा कालधौतेन गाधं व्यानद्धस्स्निग्धवर्णस्सरसमुदरबन्धेन पीतोपमेन । var स्निग्धमुग्धः उद्दीप्रैस्स्वप्रकाशैरूपचितमहिमा मन्मथारेरुदारो मध्यो मिथ्यार्थसध्र्यङ्मम दिशतु सदा सङ्गतिं मङ्गलानाम् ॥ २१॥ नाभीचक्रालवालान्नवनवसुषमादोहदश्रीपरीता- दुद्गच्छन्ती पुरस्तादुदरपथमतिक्रम्य वक्षः प्रयान्ती । श्यमा कामागमार्थप्रकथनलिपिवद्भासते या निकामं सा मा सोमार्धमौलेस्सुखयतु सततं रोमवल्लीमतल्ली ॥ २२॥ आश्लेषेष्वद्रिजायाः कठिनकुचतटीलिप्तकाश्मीरपङ्क- व्यासङ्गादुद्यदर्कद्युतिभिरुपचितस्पर्धमुद्दामहृद्यम् । दक्षारातेरुदूढप्रतिनवमणिमालावलीभासमानं वक्षो विक्षोभिताघं सततनतिजुषां रक्षतादक्षतन्नः ॥ २३॥ वामाङ्के विष्फुरन्त्या करतलविलसच्चारुरक्तोत्पलायाः कान्ताया वामवक्षोरुहभरशिखरोन्मर्दनव्यग्रमेकम् । अन्यांस्त्रीनप्युदारान्वरपरशुमृगालङ्कृतान्सिन्धुमौले- var तानिन्दुमौले- र्बाहूनाबद्धहेमाङ्गदमणिकटकानन्तरालोकयामः ॥ २४॥ सन्भ्रान्तायाश्शिवायाः पतिविलयभयात्सर्वलोकोपतापा- var भिया सर्वलोकोपतापा त्संविग्नस्यापि विष्णोः सरभसमुभयोर्वारणप्रेरणाभ्याम् । मध्ये त्रैशङ्कवीयामनुभवति दशां यत्र हालाहलोष्मा सोऽयं सर्वापदां नः शमयतु निचयं नीलकण्ठस्य कण्ठः ॥ २५॥ हृद्यैरद्रीन्द्रकन्यामृदुदशनपदैर्मुद्रितो विद्रुमश्री- रुद्द्योतन्त्या नितान्तं धवलधवलया मिश्रितो दन्तकान्त्या । मुक्तामाणिक्यपूरव्वतिकरसदृशा तेजसा भासमान- var माणिक्यजाल स्सद्योजातस्य दद्यादधरमणिरसौ सम्पदां सञ्चयन्नः ॥ २६॥ कर्णालङ्कारनानामणिनिकररुचां सञ्चयैरञ्चितायां वर्ण्यायां स्वर्णपद्मोदरपरिविलसत्कर्णिकासन्निभायाम् । पद्धत्यां प्राणवायोः प्रणतजनहृदम्भोजवानस्यशम्भो- र्नित्यं नश्चित्तमेतद्विरचयतु सुखेनासिकां नासिकायाम् ॥ २७॥ अत्यन्तं भासमाने रुचिरतररुचां सङ्गमात्सन्मणीना- मुद्यच्चण्डांशुधामप्रसरनिरसनस्पष्टदृष्टापदाने । भूयास्तां भूतये नः करिवरजयिनः कर्णपाशावलम्बे भक्तालीभालसज्जज्जनिमरणलिपेः कुण्डले कुण्डले ते ॥ २८॥ याभ्यां कालव्यवस्था भवति तनुमतां यो मुखं देवतानां येषामाहुस्स्वरूपं जगति मुनिवरा देवतानां त्रयीं ताम् । रुद्राणीवक्त्रपङ्केरुहसततविहारोस्तुकेन्दिन्दिरेभ्य- स्तेभ्यस्त्रिभ्यः प्रणामाञ्जलिमुपरचये त्रीक्षणस्येक्षणेभ्यः ॥ २९॥ वामं वामाङ्कगाया वदनसरसिजे व्यावलद्वल्लभाया व्यानम्नेष्वन्यदन्यत्पुनरलिकभवं वीतनिश्शेषरौक्ष्यम् । भूयो भूयोऽपि मोदान्निपतदतिदयाशीतलं चूतबाणे दक्षारेरीक्षणानां त्रयमपहरतादाशु तापत्रयन्नः ॥ ३०॥ यस्मिन्नधेन्दुमुग्धद्युतितिमिरतिरस्कारनिस्तन्द्रकान्तौ var धुतिनिचय काश्मीरक्षोदसङ्कल्पितमिव रुचिरं चित्रकं भाति नेत्रम् । तस्मिन्नुल्लीलचिल्लीनटवरतरुणीलास्यरङ्गायमाणे कालारेर्भालदेशे विहरतु हृदयं वीतचिन्तान्तरन्नः ॥ ३१॥ स्वामिन् गङ्गामिवाङ्गीकुरु तव शिरसा मामपीत्यर्थयन्तीं धन्यां कन्यां खरांशोश्शिरसि वहति किन्वेष कारुण्यशाली । इत्थं शङ्कां जनानां जनयदतिघनं कैशिकं कालमेघ- च्छायं भूयादुदारं त्रिपुरविजयिनः श्रेयसे भूयसेनः ॥ ३२॥ श‍ृङ्गाराकल्पयोग्यैश्शिखरिवरसुतासत्सखीहस्तलूनै- स्सूनैराबद्धमालावलिपरिविलसत्सौरभाकृष्टभृङ्गम् । तुङ्गं माणिक्यकान्त्या परिहसितसुरावासशैलेन्द्रश‍ृङ्गं सङ्घन्नः सङ्कटानां विघटयतु सदा काङ्कटीकं किरीटम् ॥ ३३॥ वक्राकारः कलङ्की जडतनुरहमप्यङ्घ्रिसेवानुभावा- दुत्तंसत्वं प्रयातस्सुलभतरघृणास्यन्दिनश्चन्द्रमौलेः । तत्सेवन्तां जनौघाश्शिवमिति निजयावस्थयापि ब्रुवाणं var निजयावस्थयैव वन्दे देवस्य शम्भोर्मकुटसुघटितं मुग्धपीयूषभानुम् ॥ ३४॥ कान्त्या सम्फुल्लमल्लीकुसुमधवलया व्याप्य विश्वं विराजन् वृत्ताकारो वितन्वन्मुहुरपि च परां निर्वृतिं पादभाजाम् । सानन्दं नन्दिदोष्णा मणिकटकवता वाह्यमानः पुरारेः श्वेतच्छत्राख्यशीतद्युतिरपहरतादापदस्तापदा नः ॥ ३५॥ दिव्याकल्पोज्ज्वलानां शिवगिरिसुतयोः पार्श्वयोराश्रितानां रुद्राणीसत्सखीनामतितरलकटाक्षाञ्चलैरञ्चितानाम् । var सखीनां मदतरल उद्वेल्लद्बाहुवल्लीविलसनसमये चामरान्दोलनीना- मुद्भूतः कङ्कणालीवलयकलकलो वारयेदापदो नः ॥ ३६॥ स्वर्गौकस्सुन्दरीणां सुललितवपुषां स्वामिसेवापराणां वल्गद्भूषाणि वक्त्राम्बुजपरिविगलन्मुग्धगीतामृतानि । नित्यं नृत्तान्युपासे भुजविधुतिपदन्यासभावावलोक- प्रत्युद्यत्प्रीतिमाद्यत्प्रथमनटनटीदत्तसम्भावनानि ॥ ३७॥ स्थानप्राप्त्या स्वराणां किमपि विशदतां व्यञ्जयन्मञ्जुवीणा- स्वानावच्छिन्नतालक्रमममृतमिवास्वाद्यमानं शिवाभ्याम् । नानारागादिहृद्यं नवरसमधुरस्तोत्रजातानुविद्धं गानं वीणामहर्षेः कलमतिललितं कर्णपूरायतान्नः ॥ ३८॥ चेतो जातप्रमोदं सपदि विदधति प्राणिनां वाणिनीनां पाणिद्वन्द्वाग्रकूजत्सुललितविलसत्स्वर्णतालानुकूला । var पाणिद्वन्द्वाग्रजाग्रत्सुललितरणितस्वर्ण स्वीयारावेण पाथोधररवपटुना नादयन्तीं मयूरीं मायूरी मन्दभावं मणिमुरजभवा मार्जना मार्जयेन्नः ॥ ३९॥ देवेभ्यो दानवेभ्यः पितृमुनिपरिषत्सिद्धविद्याधरेभ्य- स्साध्येभ्यश्चारणेभ्यो मनुजपशुलसज्जातिकीटादिकेभ्यः । var पशुपतज्जाति श्रीकैलासप्ररूढास्तृणविटपिमुखाश्चापि ये सन्ति तेभ्य- स्सर्वेभ्यो निर्विचारं नतिमुपरचये शर्वपादाश्रयेभ्यः ॥ ४०॥ इत्थं ध्यायन् प्रभाते प्रतिदिवसमिदं स्तोत्ररत्नं पठेद्यः var ध्यन्नित्थं किं वा ब्रूमस्तदीयं सुचरितमथवा कीर्तयामस्समासात् । सम्पज्जातं समग्रं सदसि बहुमतिं सर्वलोकप्रियत्वं सम्प्राप्यायुश्शतान्ते पदमयति परब्रह्मणो मन्मथारेः ॥ ४१॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीशिवपादादिकेशान्तवर्णनस्तोत्रं सम्पूर्णम् ॥