अक्षर आकार:

शिवनिर्वाणस्तोत्रम्

shivanirvANa stotram

शिवनिर्वाणस्तोत्रम्

ॐ नमः शिवाय । ॐ जयत्यनन्यसामान्यप्रकृष्टगुणवैभवः । संसारनाटकारम्भनिर्वाहणकविः शिवः ॥ १॥ ॐ नमः शिवाय भूतभव्यभाविभावभाविने । ॐ नमः शिवाय मातृमानमेयकल्पनाजुषे । ॐ नमः शिवाय भीमकान्तशान्तशक्तिशालिने । ॐ नमः शिवाय शाश्वताय शङ्कराय शम्भवे । ॐ नमः शिवाय निर्निकेतनिःस्वभावमूर्तये । ॐ नमः शिवाय निर्विकल्पनिष्प्रपञ्चसिद्धये । ॐ नमः शिवाय निर्विवादनिष्प्रमाणसिद्धये । ॐ नमः शिवाय निर्मलाय निष्कलाय वेधसे । ॐ नमः शिवाय पार्थिवाय गन्धमात्रसंविदे । ॐ नमः शिवाय षड्रसादिसामरस्यतृप्तये । १० ॐ नमः शिवाय तैजसाय रूपतानिरूपिणे । ॐ नमः शिवाय पावनाय सर्वभावसंस्पृशे । ॐ नमः शिवाय नाभसाय शब्दमात्रराविणे । ॐ नमः शिवाय निर्गलन्मलव्यपायपायवे । ॐ नमः शिवाय विश्वसृष्टिसौष्टवैकमीढुषे । ॐ नमः शिवाय सर्वतः प्रसारिपादसम्पदे । ॐ नमः शिवाय विश्वभोग्यभागयोग्यपाणये । ॐ नमः शिवाय वाचकप्रपञ्चवाच्यवाचिने । ॐ नमः शिवाय नस्यगन्धसर्वगन्धबन्धवे । ॐ नमः शिवाय पुद्गलालिलोलिकाप्रशालिने । २० ॐ नमः शिवाय चाक्षुषाय विश्वरूपसन्दृशे । ॐ नमः शिवाय सद्गुणत्रयाविभागभूमये । ॐ नमः शिवाय पूरुषाय भोक्तृताभिमानिने । ॐ नमः शिवाय सर्वतो नियन्तृतानियामिने । ॐ नमः शिवाय कालभेदकल्पनोपकल्पिने । ॐ नमः शिवाय किञ्चिदेवकर्तृतोपपादिने । ॐ नमः शिवाय शुद्धविद्यतत्वमन्त्ररूपिणे । ॐ नमः शिवाय दृक्क्रियाविकस्वरेश्वरात्मने । ॐ नमः शिवाय सर्ववित्प्रभो सदाशिवाय ते । ॐ नमः शिवाय वाच्यवाचकाध्वषट्कभित्तये । ३० ॐ नमः शिवाय वर्णमन्त्रसत्पदोपपदिने । ॐ नमः शिवाय पञ्चधाकलाप्रपञ्चपञ्चिने । ॐ नमः शिवाय सौरजैनबौद्धशुद्धिहेतवे । ॐ नमः शिवाय भक्तिमात्रलभ्यदर्शनाय ते । ॐ नमः शिवाय सर्वतो गरीयसां गरीयसे । ॐ नमः शिवाय सर्वतो महीयसां महीयसे । ॐ नमः शिवाय सर्वतः स्थवीयसां स्थवीयसे । ॐ नमः शिवाय तुभ्यमऽस्त्वऽणीयसामऽणीयसे । ॐ नमः शिवाय मन्दराद्रिकन्दराधिशायिने । ॐ नमः शिवाय जाह्नवीजलोज्ज्वलाभजूटीने । ४० ॐ नमः शिवाय बालचन्द्रचन्द्रिकाकिरीटिने । ॐ नमः शिवाय सोमसूर्यवह्निमात्रनेत्र ते । ॐ नमः शिवाय कालकूटकण्ठपीठसुश्रिये । ॐ नमः शिवाय धर्मरूपपुङ्गवध्वजाय ते । ॐ नमः शिवाय भस्मधूलिशालिने त्रिशूलिने । ॐ नमः शिवाय सर्वलोकपालिने कपालिने । ॐ नमः शिवाय सर्वदैत्यमर्दिने कपर्दिने । ॐ नमः शिवाय नित्यनम्रनाकिने पिनाकिने । ॐ नमः शिवाय नागराजहारिणे विहारिणे । ॐ नमः शिवाय शैलजाविलासने सुखासिने । ५० ॐ नमः शिवाय मन्मथप्रमाथिने पुरप्लुषे । ॐ नमः शिवाय कालदेहदाहयुक्तिकारिणे । ॐ नमः शिवाय नागकृत्तिवाससेऽप्यऽवाससे । ॐ नमः शिवाय भीषणश्मशानभूमिवासिने । ॐ नमः शिवाय पीठशक्तिपीठकोपभेदिने । ॐ नमः शिवाय सिद्धमन्त्रयोगिने वियोगिने । ॐ नमः शिवाय सर्वदिक्चतुर्नयाधिकारिणे । ॐ नमः शिवाय सर्वतीर्थतीर्थताविधायिने । ॐ नमः शिवाय साङ्गवेदतद्विचारचारवे । ॐ नमः शिवाय षट्पादार्थषोडशार्थवादिने । ६० ॐ नमः शिवाय साङ्ख्ययोगपाञ्चरात्रपञ्चिने । ॐ नमः शिवाय भोग्यदायिभोग्यदानतन्त्रिणे । ॐ नमः शिवाय पारगाय पारणाय मन्त्रिणे । ॐ नमः शिवाय पारपार्थिवस्वरूपरूपिणे । ॐ नमः शिवाय सर्वमण्डलाधिपत्यशालिने । ॐ नमः शिवाय सर्वशक्तिवासनानिवासिने । ॐ नमः शिवाय सर्वतन्त्रवासनारसात्मने । ॐ नमः शिवाय सर्वमन्त्रदेवतानियोआगिने । ॐ नमः शिवाय स्वस्थिताय नित्यकर्ममायिने । ॐ नमः शिवाय कालकल्पकल्पिने सुताल्पने । ७० ॐ नमः शिवाय भक्तकायसाख्यदाय शम्भवे । ॐ नमः शिवाय भूर्भुवःस्वरात्मलक्ष्यलक्षिणे । ॐ नमः शिवाय शून्यभावशान्तरूपधारिणे । ॐ नमः शिवाय सर्वभावशुद्धशुद्धिहेतवे । ॐ नमः शिवाय भास्वते । ॐ नमः शिवाय भर्ग ते । ॐ नमः शिवाय शर्व ते । ॐ नमः शिवाय गर्व ते । ॐ नमः शिवाय खर्व ते । ॐ नमः शिवाय पर्व ते । ८० ॐ नमः शिवाय रुद्र ते । ॐ नमः शिवाय भीम ते । ॐ नमः शिवाय विष्णुवे । ॐ नमः शिवाय जिष्णवे । ॐ नमः शिवाय घन्विने । ॐ नमः शिवाय खडुगिने । ॐ नमः शिवाय चर्मिणे । ॐ नमः शिवाय वर्मिणे । ॐ नमः शिवाय भामिने । ॐ नमः शिवाय कामिने । ९० ॐ नमः शिवाय योगिने । ॐ नमः शिवाय भोगिने । ॐ नमः शिवाय तिष्ठते । ॐ नमः शिवाय गच्छते । ॐ नमः शिवाय हेतवे । ॐ नमः शिवाय सेतवे । ॐ नमः शिवाय सर्वतः । ॐ नमः शिवाय सर्वशः । ॐ नमः शिवाय सर्वथा । ॐ नमः शिवाय सर्वदा । १०० शिव भव शर्व रुद्र हर शङ्कर भूतपते गिरिश गिरीश भर्ग शशिशेखर नीलगल । त्रिनयन वामदेव गिरिजाधव माररिपो जय जय देव देव भगवन् भवतेऽस्तु नमः ॥ एतामष्टोत्तरशतनमस्कारसंस्कारपूतां भूतार्थव्याहृतिनुतिमुदाहृत्य मृत्युञ्जयस्य । कश्चिद्विद्वान्यदिह कुशलं सञ्चिनोति स्म लोके तेनान्येषां भवतु पठतां वान्छितार्थस्यसिद्धिः ॥ इति श्रीव्यासमुनिना विरचितं शिवनिर्वाणस्तोत्रं सम्पूर्णं ।