अक्षर आकार:

श्रीशिवनवरत्नमालास्तवः

shrIshivanavaratnamAlAstavaH

श्रीशिवनवरत्नमालास्तवः

श्रीगणेशाय नमः ॥ कलय कलावित्प्रवरं कलया नीहारदीधितेः शीर्षम् । सततमलङ्कुर्वाण प्रयतावनदीक्ष यक्षराजसख ॥ १॥ कान्तागेन्द्रसुतायाः शान्ताहङ्कारचिन्त्यचिद्रूप । कान्तारखेलनरुचे शान्तान्तःकरणभेनमव शम्भो ॥ २॥ दाक्षायणीमनोऽम्बुजभानो वीक्षावितीर्णविनतेष्ट । द्राक्षामधुरिममदभरशिक्षाकर्त्रीं प्रदेहि मम वाचम् ॥ ३॥ पारदसमानवर्णो नीरदनीकाशदिव्यगलदेशः । पादनतदेवसङ्घः पशुनिशं पातु मामीशः ॥ ४॥ प्रत्यक्षो भव शम्भो गुरुरूपेणाशु मेऽद्य करुणाब्धे चिरतरमिह वासं कुरु जगतीं रक्षन्प्रबोधदानेन ॥ ५॥ यक्षाधिपसत्तमनिशं रक्षाचतुरं समस्तलोकानाम् । वीक्षादापितकवितं दाक्षायण्याः पतिं नौमि ॥ ६॥ यमनियमनिरतलभ्यं शमदममुखषट्कदानकृतदीक्षम् । रमणीयपदसरोजं शमनाहितमाश्रये सततम् ॥ ७॥ यमिहृन्मानसहंसं शमिताघौघं प्रणाममात्रेण । अमितायुःप्रदपूजं कमितारं नौमि शैलतनयायाः ॥ ८॥ येन कृतमिन्दुमौले मानववर्येण तावकस्मरणम् । तेन जितं जगदखिलं को न ब्रूते सुरार्यतुल्येन ॥ ९॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः श्रीशिवनवरत्नमालास्तवः सम्पूर्णः ।