अक्षर आकार:

श्रीशिवनीराजनस्तोत्रं

Shri ShivanirajanastotraM

श्रीशिवनीराजनस्तोत्रं

ॐ नमः शिवाय । जय गङ्गाधर हर शिव जय गिरिजाधीश शिव जय गौरीनाथ त्वं मां पालय नित्यं त्वं मां पालय शम्भो कृपया जगदीश ॥ ॐ हर हर हर महादेव ॥ पारिजातहरिचन्दनकल्पद्रुमनिचयैः शिव कल्प० कुसुमितलतावितानै२र्गुञ्जद्भ्रमरमयैः । उन्मदकोकिलकूजितशिखिकेकारुचिरैः हर शिखि० सहकारैश्च कदम्बे २ र्भृङ्गवधूमुखरैः ॥ १॥ ॐ हर हर हर महादेव ॥ मुदितहंसयुगखेलत्सारसपरिवारैः शिव सार० भ्रमरयुवतिमुखराम्बुज २ सुभगैः कासारैः । हारिणि कलधौताद्रेर्देशे मणिरचिते हर देशे० भवने सुखमासीनं २ चिन्तामणिनिचिते ॥ २॥ ॐ हर हर हर महादेव ॥ पीठे गिरिजासहितं चन्द्रकलाधवलं शिवमिन्दुक० विशरणशरणं देवं २ विपत्क्षयप्रबलम् । सम्पद्विधानरसिकं जगदङ्कुरकन्दं हर जग० प्रणमामो वयमीशं २ चित्परमानन्दम् ॥ ३॥ ॐ हर हर हर महादेव ॥ यस्याग्रेस्मरवध्वो विबुधाधिपसहिताः शिव विबु० मुदितमनोहरवेषा २ लास्यकलामहिताः । ताथै ताथै तथेति विविधं नृत्यन्ति हर विविधं- किङ्किणिनूपुरशिञ्जित २ रुचिरं वल्गन्ति ॥ ४॥ ॐ हर हर हर महादेव ॥ तान्धिक धिनकित्थथेति विविधं वादयते शिव विविधं- मृदङ्गममरी काचित् २ रुचिरं नादयते । वीणां काचिद्रमणी गानविदाभरणा हर गान० गायति कलमपराचित् २ चिन्तितहरचरणा ॥ ५॥ ॐ हर हर हर महादेव ॥ रमया सहितो विष्णुर्ब्रह्मा सावित्र्या शिव ब्रह्मा० जिष्णुर्नृत्यति भक्त्या २ मुदितमनाः शच्या । तुम्बुरुरुचितं मुरजं विविधं वादयते हर विविधं० नारदमुनिरपि वीणां २ महतीं नादयते ॥ ६॥ ॐ हर हर हर महादेव ॥ तं प्रसन्नवदनं प्रभुमिन्दुकलाभरणं शिवमिन्दु० प्रणमामः करुणाब्धिं २ तापत्रयहरणम् । देवासुरमणिमुकुटैर्नीराजितचरणं हर नीरा० भक्ताभीष्टदकल्पं २ कातरजनशरणम् ॥ ७॥ ॐ हर हर हर महादेव ॥ जटाकिरीटे गङ्गां चन्द्रकलां भाले शिवमिन्दुकलां० नेत्रेष्विन्दुशिखीना २ नधरे स्मितममले । कण्ठे गरलं पाणौ वरमभयं शूलं हर वर० पीयूषं कटिदेशे २ कृत्तिं च दुकूलम् ॥ ८॥ ॐ हर हर हर महादेव ॥ श्रीगिरिराजकिशोरीमङ्के निदधानं शिवमङ्के० निखिलसुरासुरमौलीन् २ चरणेऽमितदानम् । शम्भुं तडिदभिगौरं कृतनागाभरणं हर कृत० भजति स गच्छति मुक्तिं २ तिमिरापाकरणम् ॥ ९॥ ॐ हर हर हर महादेव ॥ निरुपधिकरुणासिन्धुर्भीतत्राणपरः शिव भीत० दुःखक्षतये भूयात् २ कातरबन्धुवरः । यः श्वेतं यमभीतं स्मृतमात्रोऽरक्षत् हर स्मृतमा० मा भैषीरिति वादी २ कालं समतक्षत् ॥ १०॥ ॐ हर हर हर महादेव ॥ आनन्दाय महेशो युष्माकं भवतात् शिव युष्माकं० जन्मजरामृतिशोकात् २ करुणानिधिरवतात् । येन सुरासुरनिवहस्त्रातो विषभीतो हर त्रातो- नीलकण्ठ इति भूयो २ निगमगणैर्गीतः ॥ ११॥ ॐ हर हर हर महादेव ॥ यः सृष्ट्यादिविधानं ब्रह्माच्युतरुद्रैः शिव ब्रह्मा- निजरूपैस्तनुते यो २ दुर्ज्ञेयः क्षुद्रैः । तं प्रकाशसुखमच्छं बाधावधिमीशं हर बाधा० तनुभेदैरिव भिन्नं २ श्रयत धियामीशम् ॥ १२॥ ॐ हर हर हर महादेव ॥ ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इति श्रीहृषीकेशकैलासनिवासिविद्वद्वरिष्ठब्रह्मनिष्ठपरमहंस- परिव्राजकाचार्य्य १०८ श्रीमत्स्वामिप्रकाशानन्दपुरी- भिर्विनिर्मितं शिवनीराजनस्तोत्रं सम्पूर्णम् ॥ The Arati is sung in the tune of well known jaya jagadIsha hare Arati. The 0 at the end refers to the implied repetition, for example कल्पद्रुमनिचयैः शिव कल्प० means कल्पद्रुमनिचयैः शिव कल्पद्रुमनिचयैः With other repetion किङ्किणिनूपुरशिञ्जित २ रुचिरं वल्गन्ति means किङ्किणिनूपुरशिञ्जित किङ्किणिनूपुरशिञ्जित रुचिरं वल्गन्ति