अक्षर आकार:

श्रीशिवनामावली

Shri Shivanamavali

श्रीशिवनामावली

(पञ्चचामरम्) अनादिमादिनायकं इभेन्द्रचर्मवाससम् । तमीश्वरं सदाशिवं नमाम्यहं महेश्वरम् ॥ १॥ उमेशमूर्ध्वरेतसं ऋषीश्वरादिवन्दितम् । तमेकदन्तवत्सलं नमाम्यहं महेश्वरम् ॥ २॥ तमैहिकप्रदं शिवं तमौषधीशभूषणम् । तमन्तकच्छिदं हरं नमाम्यहं महेश्वरम् ॥ ३॥ कपर्दिनं च कामदं किरातरूपधारिणम् । तथैव कीर्तिदं शिवं नमाम्यहं महेश्वरम् ॥ ४॥ कुमारतातमीश्वरं हिमाद्रिकूटवासिनम् । सदैव कृत्तिवाससं नमाम्यहं महेश्वरम् ॥ ५॥ खरत्नलोचनं शिवं खकुन्तलं च शङ्करम् । तथा च खेचरीपतिं नमाम्यहं महेश्वरम् ॥ ६॥ गजेन्द्रचर्मवाससं च गाङ्गवारिभूषणम् । गिरामधीश्वरं शिवं नमाम्यहं महेश्वरम् ॥ ७॥ नमामि घस्रलोचनं तथैव घर्घरीप्रियम् । तथा च घोररूपिणं नमाम्यहं महेश्वरम् ॥ ८॥ नमाम्यनङ्गनाशकं विहङ्गभक्ष्यभूषणम् । सदैव सङ्कटान्तकं नमाम्यहं महेश्वरम् ॥ ९॥ चकोरबन्धुशेखरं सुचारुचन्द्रभूषणम् । चिताविभूतिभूषितं नमाम्यहं महेश्वरम् ॥ १०॥ नमामि छत्रकप्रियं च छागवाहनस्तुतम् । त्रिमूर्तिमीश्वरं शिवं नमाम्यहं महेश्वरम् ॥ ११॥ जटाधरं च जाह्नवीशमीश्वरं जितेन्द्रियम् । तथैव जीवरक्षकं नमाम्यहं महेश्वरम् ॥ १२॥ झषध्वजान्तकं शिवं तथा च झर्झरप्रियम् । त्रियम्बकं त्रिलोचनं नमाम्यहं महेश्वरम् ॥ १३॥ अनेकपापसञ्चयान्तकं सदाशिवं हरम् । धनञ्जयास्त्रदायकं नमाम्यहं महेश्वरम् ॥ १४॥ नटं च नाटयदैवतं जटाधरं नटेश्वरम् । जटाटवीगलज्जलं नमाम्यहं महेश्वरम् ॥ १५॥ शठान्तकं च नीलकण्ठमीश्वरं स्मरान्तकम् । गजाजिनावगुण्ठितं नमाम्यहं महेश्वरम् ॥ १६॥ प्रचण्डताण्डवप्रियं मृडं मृकण्डुसंस्तुतम् । षडास्यतातमीश्वरं नमाम्यहं महेश्वरम् ॥ १७॥ नमामि ढुण्ढिराजतातमीश्वरं सदाशिवम् । भवान्तकं च भैरवं नमाम्यहं महेश्वरम् ॥ १८॥ नमामि रावणस्तुतं फणाधरेन्द्रभूषणम् । तथैव जिष्णुपूजितं नमाम्यहं महेश्वरम् ॥ १९॥ तपस्विगम्यमीश्वरं च ताण्डवप्रियं शिवम् । तुरीयधामदायकं नमाम्यहं महेश्वरम् ॥ २०॥ सदैव सत्पथप्रियं व्यथाहरं कथाप्रियम् । कृशानुरेतसं शिवं नमाम्यहं महेश्वरम् ॥ २१॥ दयार्णवं च दानवेन्द्रपूजितं दिगम्बरम् । सदैव दीनबान्धवं नमाम्यहं महेश्वरम् ॥ २२॥ धराधरेन्द्रनन्दिनीपतिं च धूर्जटिं तथा । भवान्तकं मखान्तकं नमाम्यहं महेश्वरम् ॥ २३॥ नगेशनन्दिनीपतिं च नागराजभूषणम् । सुनीलकण्ठमीश्वरं नमाम्यहं महेश्वरम् ॥ २४॥ परेशमीश्वरं शिवं च पार्वतीपतिं तथा । पिनाकपाणिमीश्वरं नमाम्यहं महेश्वरम् ॥ २५॥ सुपीतसर्पभूषितं पुरत्रयादिनाशकम् । सुरेन्द्रपूजितं शिवं नमाम्यहं महेश्वरम् ॥ २६॥ फणीन्द्रभूषणं हरं नटेश्वरं च शङ्करम् । सदाशिवं त्रिलोचनं नमाम्यहं महेश्वरम् ॥ २७॥ सदैव बिल्वपूजितं बुधार्चितं पुरच्छिदम् । तथैव बन्धमोचकं नमाम्यहं महेश्वरम् ॥ २८॥ भवं च भासुरं तथा सदैव भीमशङ्करम् । भुजङ्गभूषणं शिवं नमाम्यहं महेश्वरम् ॥ २९॥ महेश्वरं च मानदं च मित्रचन्द्रलोचनम् । तथैव मुक्तिदं मृडं नमाम्यहं महेश्वरम् ॥ ३०॥ नमामि यज्ञनाशकं च यामिनीशभूषणम् । युगान्तवह्निलोचनं नमाम्यहं महेश्वरम् ॥ ३१॥ रतिप्रियान्तकं शिवं च रामशत्रुपूजितम् । सदैव रुद्रमीश्वरं नमाम्यहं महेश्वरम् ॥ ३२॥ ललाटपट्टपावकं तथैव लासकं शिवम् । सदैव शम्भुमीश्वरं नमाम्यहं महेश्वरम् ॥ ३३॥ वसन्तमित्रदाहकं विभूतिदेहभूषणम् । वृषध्वजं च शङ्करं नमाम्यहं महेश्वरम् ॥ ३४॥ शशाङ्कमौलिमीश्वरं च शाम्भवीप्रियं शिवम् । तथैव शूलधारिणं नमाम्यहं महेश्वरम् ॥ ३५॥ षडास्यतातमीश्वरं च षाडवप्रियं हरम् । कपालिनं स्मरान्तकं नमाम्यहं महेश्वरम् ॥ ३६॥ सदाशिवं च सिद्धिदं सुरासुरेन्द्रपूजितम् । सदैव सोमनायकं नमाम्यहं महेश्वरम् ॥ ३७॥ हरं हिमाद्रिजापतिं तथा च हीरकप्रभुम् । हुताशनेक्षणं हरं नमाम्यहं महेश्वरम् ॥ ३८॥ शताधिकां शिवाभिधानमालिकां पठेन्नरः । सुखं लभेत जीविते स शङ्करप्रसादतः ॥ ३९॥ अकारादि-हकारान्तं मातृकावर्णसंयुतम् । शिवस्तोत्रमिदं पुण्यं यः पठेत् स भवेत् सुखी ॥ ४०॥ शिवनामावली दिव्यां महादेवेन गुम्फिताम् । यः कण्ठे धारयेद् रम्यां शिवस्तस्य प्रसीदतु ॥ ४१॥ इति श्री आपटीकरविरचिता श्रीशिवनामावली समाप्ता ।