अक्षर आकार:

श्रीशिवमहिमाष्टकम्

Shri Shivamahima aShTakam

श्रीशिवमहिमाष्टकम्

सुरवृन्दमुनीश्वरवन्द्यपदो हिमशैलविहारकरो रुचिरः । अनुरागनिधिर्मणिसर्पधरो जयतीह शिवः शिवरूपधरः ॥ १॥ भवतापविदग्धविपत्तिहरो भवमुक्तिकरो भवनामधरः । धृतचन्द्रशिरो विषपानकरो जयतीह शिवः शिवरूपधरः ॥ २॥ निजपार्षदवृन्दजयोच्चरितः करशूलधरोऽभयदानपरः । जटया परिभूषितदिव्यतमो जयतीह शिवः शिवरूपधरः ॥ ३॥ वृषभाङ्गविराजित उल्लसितः कृपया नितरामुपदेशकरः । त्वरितं फलदो गणयूथयुतो जयतीह शिवः शिवरूपधरः ॥ ४॥ अहिहारसुशोभित आप्तनुतो समुपास्यमहेश्वर आर्तिहरः । धृतविष्णुपदीसुजटो मुदितो जयतीह शिवः शिवरूपधरः ॥ ५॥ व्रजकृष्णपदाब्जपरागरतो व्रजकुञ्जसखीनवरूपधरः । व्रजगोपसुरेश उमाधिपतिर्जयतीह शिवः शिवरूपधरः ॥ ६॥ युगकेलिविलासमहारसिको रसतन्त्रपुराणकथाचतुरः । रसशास्त्ररसज्ञपटुर्मधुरो जयतीह शिवः शिवरूपधरः ॥ ७॥ यमपाशभयापहरोऽघहरः प्रबलोऽस्ति महाप्रबलः प्रखरः । परिपूर्णतमो हरिभक्तिभरो जयतीह शिवः शिवरूपधरः ॥ ८॥ शिवशान्त्यर्थदं दिव्यं श्रीशिवमहिमाष्टकम् । राधासर्वेश्वराख्येन शरणान्तेन निर्मितम् ॥ इति श्रीनिम्बार्कपीठाधीश्वर श्रीराधासर्वेश्वरशरणदेवाचार्यजी महाराज द्वारा रचितं श्रीशिवमहिमाष्टकं सम्पूर्णम् ।