अक्षर आकार:

शिवलोचनस्तुतिः

shivalochanastutiH

शिवलोचनस्तुतिः

श्रीगणेशाय नमः ॥ जयति ललाटकटाक्षः शशिमौलेः पक्ष्मलः प्रियप्रणतौ । धनुषि स्मरेण निहितः सकण्टकः केतकेपुरिव ॥ १॥ सानन्दा गणगायके सपुलका गौरीमुखाम्भोरुहे सक्रोधा कुसुमायुधे सकरुणा पादानते वज्रिणि । सस्मेरा गिरिजासखीषु सनया शैलाधिनाथे वहन्- भूमीन्द्र प्रदिशन्तु शर्म विपुलं शम्भोः कटाक्षच्छटाः ॥ २॥ एकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः पार्वत्या वदनाम्बुजस्तनतटे श‍ृङ्गारभारालसम् । अन्यद्दूरविकृष्टचापमदनक्रोधानलोद्दीपितं शम्भोर्भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥ ३॥ पक्ष्मालीपिङ्गलिम्नः कण इव तडितां यस्य कृत्स्नः समूहो यस्मिन् ब्रह्माण्डमीषद्विघटितमुकुले कालयज्वा जुहाव । अर्चिर्निष्टप्तचूडाशशिगणितसुधाघोरझाङ्कारकोणं तार्तीयं यत्पुरारेस्तदवतु मदनप्लोषणं लोचनं वः ॥ ४॥ इति शिवलोचनस्तुतिः सम्पूर्णा ।