अक्षर आकार:

शिवकण्ठस्तुतिः

shivakaNThastutiH

शिवकण्ठस्तुतिः

श्रीगणेशाय नमः ॥ पातु वो नीलकण्ठस्य कण्ठः श्यामाम्बुदोपमः । गौरीभुजलता यत्र विद्युल्लेखेव राजते ॥ १॥ पातु वः शितिकण्ठस्य तमालसदृशश्यामलो गलः । संसक्तपार्वतीबाहुसुवर्णनिकषोपलः ॥ २॥ कस्तूरेतिलकन्ति भालफलके देव्या मुखाम्भोरुहे रोलम्बन्ति तमालवालमुकुलोत्तंसन्ति मौलिं प्रति । याः कर्णे विकचोत्पलन्ति कुचयोरंसे च कालागुरु- स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः ॥ ३॥ कस्तूरीयन्ति भाले तदनु नयनयोः कज्जलीयन्ति कर्णप्रान्ते नीलोत्पलीयन्त्युरसि मरकतालङ्कृतीयन्ति देव्याः । रोमालीयन्ति नाभेरुपरि॥॥ मध्ये ॥॥ लिने इञ्चोम्प्लेते। कल्याणं कुर्युरेते त्रिजगति पुरुजित्कण्ठभासां विलासाः ॥ ४॥ इति शिवकण्ठस्तुतिः समाप्ता ।