अक्षर आकार:

श्रीशिवजटाजूटस्तुतिः

shrIshivajaTAjUTastutiH

श्रीशिवजटाजूटस्तुतिः

श्रीगणेशाय नमः ॥ स धूर्जटिर्जटाजूटो जायतां विजयाय वः । यत्रैकपलितभ्रान्तिं करोत्यद्यापि जाह्नवी ॥ १॥ चूडापीडकपालसङ्कुलगलन्मन्दाकिनीवारयो विद्युत्प्रायललाटलोचनपुटज्योतिर्विमिश्रत्विषः । पान्तु त्वामकठोरकेतकशिखासन्दिग्धमुग्धेन्दवो भूतेशस्य भुजङ्गवल्लिवलयस्रन्नद्धजूटाजटाः ॥ २॥ गङ्गावारिभिरुक्षिताः फणिफणैरुत्पल्लवास्तच्छिखा- रत्नैः कोरकिताः सितांशुकलया स्मेरैकपुष्पश्रियः । आनन्दाश्रुपरिप्लुताक्षिहुतभुग्धूमैर्मिलद्दोहदा नाल्पं कल्पलताः फलं ददतु वोऽभीष्टं जटा धूर्जटेः ॥ ३॥ इति श्रीशिवजटाजूटस्तुतिः समाप्ता ।