अक्षर आकार:

शिवगीतिमाला अथवा शिवाष्टपदी

Sivagitimala or Sivashtapadi

शिवगीतिमाला अथवा शिवाष्टपदी

श्रीचन्द्रशेखरेन्द्रसरस्वतीविरचिता Sivagitimala (Sivashtapadi) by Jagadguru Sri Chandrasekharendra Saraswati (62nd Sankaracharya of Kanchi Kamakoti Peetham)

॥ प्रथमः सर्गः ॥

ध्यानश्लोकाः - सकलविघ्ननिवर्तक शङ्करप्रियसुत प्रणतार्तिहर प्रभो ॥ मम हृदम्बुजमध्यलसन्मणीरचितमण्डपवासरतो भव ॥ १॥ विधिवदनसरोजावासमाध्वीकधारा विविधनिगमवृन्दस्तूयमानापदाना । समसमयविराजच्चन्द्रकोटिप्रकाशा मम वदनसरोजे शारदा सन्निधत्ताम् ॥ २॥ यदनुभवसुधोर्मीमाधुरीपारवश्यं विशदयति मुनीनात्मनस्ताण्डवेन । कनकसदसि रम्ये साक्षिणीवीक्ष्यमाणः प्रदिशतु स सुखं मे सोमरेखावतंसः ॥ ३॥ शर्वाणि पर्वतकुमारि शरण्यपादे निर्वापयास्मदघसन्ततिमन्तरायम् । इच्छामि पङ्गुरिव गाङ्गजलावगाह- मिच्छामिमां कलयितुं शिवगीतिमालाम् ॥ ४॥ शिवचरणसरोजध्यानयोगामृताब्धौ जलविहरणवाञ्छासङ्गतं यस्य चेतः । निखिलदुरितमभङ्गव्यापृतं वा मनोज्ञं परशिवचरिताख्यं गानमाकर्णनीयम् ॥ ५॥ ॥ प्रथमाष्टपदी ॥ मालवीरागेण आदितालेन गीयते (प्रलयपयोधिजले इतिवत्) कनकसभासदने वदने दरहासं नटसि विधाय सुधाकरभासं शङ्कर धृततापसरूप जय भवतापहर ॥ १॥ जलधिमथनसमये गरलानलशैलं वहसि गलस्थमुदित्वरकीलं शङ्कर धृतनीलगलाख्य जय भवतापहर ॥ २॥ विधुरविरथचरणे निवसन्नवनिरथे पुरमिषुणा हृतवानितयोधे शङ्कर वर वीरमहेश जय भवतापहर ॥ ३॥ कुसुमशरासकरं पुरतो विचरन्तं गिरिश निहिंसितवानचिरं तं शङ्कर मदनारिपदाख्य जय भवतापहर ॥ ४॥ वटतरुतलमहिते निवसन्मणिपीठे दिशसि परात्मकलामतिगाढे शङ्कर धृतमौन गभीर जय भवतापहर ॥ ५॥ जलनिधिसेतुतटे जनपावनयोगे रघुकुलतिलकयशः प्रविभागे शङ्कर रघुराममहेश जय भवतापहर ॥ ६॥ तनु भृदवनकृते वरकाशीनगरे तारकमुपदिशसि स्थलसारे शङ्कर शिव विश्वमहेश जय भवतापहर ॥ ७॥ निगमरसालतले निरवधिबोधघन श्रीकामक्षिकुचकलशाङ्कन शङ्कर सहकारमहेश जय भवतापहर ॥ ८॥ कच्छपतनुहरिणा निस्तुलभक्तियुजा सन्ततपूजितचरणसरोज शङ्कर शिव कच्छप लिङ्ग जय भवतापहर ॥ ९॥ शङ्करवरगुरुणा परिपूजितपाद काञ्चिपुरे विवृताखिलवेद शङ्कर विधुमौलिमहेश जय भवतापहर ॥ १०॥ श्रीविधुमौलियतेरिदमुदितमुदारं श्रृणु करुणाभरणाखिलसारं शङ्करारुणशैलमहेश जय भवतापहर ॥ ११॥ श्लोकः कनकसभानटाय हरिनीलगळाय नम- स्त्रिपुरहराय माररिपवे मुनिमोहभिदे । रघुकृतसेतवे विमलकाशिजुषे भवते निगमरसाल कूर्महरिपूजित चन्द्रधर ॥॥ ६॥ पापं वारयते परं घटयते कालं पराकुर्वते मोहं दूरयते मदं शमयते मत्तासुरान् हिंसते । मारं मारयते महामुनिगणानानन्दिनः कुर्वते पार्वत्या सहिताय सर्वनिधये शर्वाय तुभ्यं नमः ॥ ७॥ ॥ द्वितीयाष्टपदी ॥ भैरवीरागेण त्रिपुटतालेन गीयते (श्रितकमलाकुच इतिवत्) कलिहरचरितविभूषण श्रुतिभाषण करतलविलसितशूल जय भवतापहर ॥ १॥ दिनमणिनियुतविभासुर विजितासुर नलिननयनकृतपूज जय भवतापहर ॥ २॥ निर्जितकुसुमशरासन पुरशासन निटिलतिलकशिखिकील जय भवतापहर ॥ ३॥ पदयुगविनताखण्डल फणिकुण्डल त्रिभुवनपावन पाद जय भवतापहर ॥ ४॥ अन्धकदानवदारण भवतारण स्मरतनुभसितविलेप जय भवतापहर ॥ ५॥ हिमकरशकलवतंसक फणिहंसक गगनधुनीधृतशील जय भवतापहर ॥ ६॥ परमतपोधनभावित सुरसेवित निखिलभुवनजनपाल जय भवतापहर ॥ ७॥ करिमुखशरभवनन्दन कृतवन्दन श्रृणुशशिधरयतिगीतं जय भवतापहर ॥ ८॥ श्लोकः तुहिनगिरिकुमारी तुङ्गवक्षोजकुम्भ- स्फुटदृढपरिरम्भश्लिष्ट दिव्याङ्गरागम् । उदितमदनखेदस्वेदमंसान्तरं मां अवतु परशुपाणेर्व्यक्त गाढानुरागम् ॥ ८॥ वासन्तिकाकुसुमकोमलदर्शनीयैः अङ्गैरनङ्गविहितज्वरपारवश्यात् । कम्पातटोपवनसीमनि विभ्रमन्तीं गौरिमिदं सरसमाह सखी रहस्यम् ॥ ९॥ ॥ तृतीयाष्टपदी ॥ वसन्तरागेण आदितालेन गीयते (ललितलवङ्गलता इतिवत्) विकसदमलकुसुमानुसमागमशीतलमृदुलसमीरे अतिकुलकलरवसम्भृतघनमदपरभृतघोषगभीरे विलसति सुरतरुसदसि निशान्ते वरयुवतिजनमोहनतनुरिह शुभदति विततवसन्ते विलसति ॥ १॥ कुसुमशरासनशबरनिषूदितकुपितवधूधृतमाने धनरसकुङ्कुमपङ्कविलेपनविटजनकुतुकविधाने विलसति ॥ २॥ कुसुमितबालरसालमनोहरकिसलयमदनकृपाणे मधुकरमिथुनपरस्परमधुरसपाननियोगधुरीणे विलसति ॥ ३॥ मदनमहीपतिशुभकरमन्त्रजपायितमधुकरघोषे अविरलकुसुममरन्दकृताभिनिषेचनतरुमुनिपोषे विलसति ॥ ४॥ मदननिदेशनिवृत्तकलेबरमर्दनमलयसमीरे तुषितमधुव्रतसञ्चलदतिथिसुपूजनमधुरसपूरे विलसति ॥ ५॥ सुचिरकृतव्रतमौनवनप्रियमुनिजनवागनुकूले ललितलतागृहविहृतिकृतश्रमयुवतिसुखानिलशीले विलसति ॥ ६॥ विषमशरावनिपालरथायितमृदुलसमीरणजाले विरहिजनाशयमोहनभसितपरागविजृम्भणकाले विलसति ॥ ७॥ श्रीशिवपूजनयतमति चन्द्रशिखामणियतिवरगीतं श्रीशिवचरणयुगस्मृतिसाधकमुदयतु वन्यवसन्तं विलसति ॥ ८॥ श्लोकः विकचकमलकम्पाशैवलिन्यास्तरङ्गैः अविरलपरिरम्भः सम्भ्रमन् मञ्जरीणाम् । परिसररसरागैर्व्याप्तगात्रानुलेपो विचरति कितवोऽयं मन्दमन्दं समीरः ॥ ९॥

॥ द्वितीयः सर्गः ॥

श्लोकः प्रगल्भतरभामिनी शिवचरित्र गानामृत- प्रभूतनवमञ्जरीसुरभिगन्धिमन्दानिले । रसालतरुमूलगस्फुरितमाधवी मण्डपे महेशमुपदर्शयन्त्यसकृदाह गौरीमसौ ॥ ॥ चतुर्थाष्टपदी ॥ रामक्रियारागेण आदितालेन गीयते (चन्दनचर्चित इतिवत्) अविरल कुङ्कुमपङ्ककरम्बितमृगमदचन्द्रविलेपं निटिल विशेषकभासुरवह्निविलोचन कृतपुरतापं शशिमुखि शैलवधूतनये विलोकय हरमथ केलिमये शशिमुखि ॥ १॥ युवतिजनाशयमदनशरायितशुभतरनयन विलासं भुवनविजृम्भितघनतरतिमिरनिषूदननिजतनु भासं शशिमुखि ॥ २॥ पाणि सरोजमृगीपरिशङ्कितबालतृणालिगलाभं यौवतहृदयविदारणपटुतरदरहसितामितशोभं शशिमुखि ॥ ३॥ चरणसरोजलसन्मणिनूपुरघोषविवृतपदजातं गगनधुनीसमतनुरुचिसंहतिकारितभुवनविभातं शशिमुखि ॥ ४॥ निखिलवधूजनहृदयसमाहृतिपटुतरमोहनरूपं मुनिवरनिकरविमुक्तिविधायकबोधविभावनदीपं शशिमुखि ॥ ५॥ विकचसरोरुहलोचनसकृदवलोकनकृतशुभजातं भुजगशिरोमणिशोणरुचा परिभीतमृगीसमुपेतं शशिमुखि ॥ ६॥ रजतमहीधरसदृशमहावृषदृष्टपुरोवनिभागं सनकसनन्दनमुनिपरिशोभितदक्षिणतदितरभागं शशिमुखि ॥ ७॥ श्रीशिवपरिचरणव्रतचन्द्रशिखामणि नियमधनेन शिवचरितं शुभगीतमिदं कृतमुदयतु बोधघनेन शशिमुखि ॥ ८॥ श्लोकः मदनकदनशान्त्यै फुल्लमल्ली प्रसूनैः विरचितवरशय्यामाप्नुवन्निन्दुमौलिः । मृदुमलयसमीरं मन्यमानः स्फुलिङ्गान् कलयति हृदये त्वामन्वहं शैल कन्ये ॥ १२॥ इति सहचरीवाणीमाकर्ण्य सापि सुधाझरीं अचलदुहिता नेतुः श्रुत्वाभिरूप्यगुणोदयम् । विरहजनितामार्तिं दूरीचकार हृदि स्थितां दयितनिहितप्रेमा कामं जगाद मिथः सखीम् ॥ १३॥ ॥ पञ्चमाष्टपदी ॥ तोडिरागेण चापुतालेन गीयते (सञ्चरदधर इतिवत्) जलरुहशिखरविराजितहिमकरशङ्कितकरनखराभं रुचिररदनकिरणामरसरिदिव शोणनदाधर शोभं सेवे निगमरसालनिवासं - युवतिमनोहरविविधविलासं सेवे ॥ १॥ शुभतनुसौरभलोभविभूषणकैतवमहित भुजङ्गं मुकुटविराजितहिमकरशकलविनिर्गलदमृतसिताङ्गं सेवे ॥ २॥ मकुटपरिभ्रमदमरधुनीनखविक्षतशङ्कित चन्द्रं उरसि विलेपितमलयजपङ्कविमर्दितशुभतरचन्द्रं सेवे ॥ ३॥ पन्नगकर्णविभूषणमौलिगमणिरुचि शोणकपोलं अगणितसरसिजसम्भवमौलिकपालनिवेदित कालं सेवे ॥ ४॥ हरिदनुपालसुरेशपदोन्नतिमुपनमतो वितरन्तं अनवधिमहिमचिरन्तनमुनिहृदयेषु सदा विहरन्तं सेवे ॥ ५॥ नारदपर्वतवरमुनिकिन्नरसन्नुत वैभव जातं अन्धकसुररिपुगन्धसिन्धुर विभङ्गमृगादिपरीतं सेवे ॥ ६॥ विषयविरतविमलाशयकोशमहाधनचरणसरोजं घनतरनिजतनुमञ्जुलतापरि निर्जितनियुत मनोजं सेवे ॥ ७॥ श्रीशिव भजन मनोरथचन्द्रशिखामणियतिवरगीतं श्रोतुमुदञ्चितकौतुकमविरतममरवधूपरि गीतं सेवे ॥ ८॥ श्लोकः सहचरि मुखं चेतः प्रातः प्रफुल्लसरोरुह- प्रतिममनघं कान्तं कान्तस्य चन्द्रशिखामणेः । स्मरति परितोदृष्टिस्तुष्टा तदाकृतिमाधुरी- गतिविषयिणी वाणी तस्य ब्रवीति गुणोदयम् ॥ १४॥ ॥ षष्टाष्टपदी ॥ काम्भोजिरागेण त्रिपुटतालेन गीयते (निभृतनिकुञ्ज इतिवत्) निखिलचराचरनिर्मितिकौशलभरितचरित्र विलोलं ललितरसालनिबद्धलतागृहविहरण कौतुक शीलं कलये कालमथनमधीशं घटय मया सह घनतरकुचपरिरम्भण केलिकृताशं कलये ॥ १॥ कुवलयसौरभवदनसमीरणवसितनिखिलदिगन्तं चरणसरोजविलोकनतोऽखिलतापरुजं शमयन्तं कलये ॥ २॥ पटुतरचाटुवचोमृतशिशिरनिवारितमनसिजतापं तरुणवनप्रियभाषणया सह सादरविहितसुलापं कलये ॥ ३॥ चलितदृगञ्चलमसमशरानिव युवतिजने निदधानं रहसि रसालगृहं गतया सह सरसविहारविधानं कलये ॥ ४॥ दरहसितद्युतिचन्द्रिकया गतखेद विकारचकोरं लसदरुणाधरवदनवशीकृतयुवतिजनाशयचोरं कलये ॥ ५॥ मलयजपङ्कविलेपनमुरुतरकुचयुगमाकलयन्तं कृतकरुषो मम सुतनुलतापरिरम्भणकेळिमयन्तं कलये ॥ ६॥ सुरतरुकुसुमसुमालिकया परिमण्डितचिकुरनिकायं अलघुपुलककटसीमनि मृगमदपत्रविलेखविधेयं कलये ॥ ७॥ श्रीशिवसेवनचन्द्रशिखामणियतिवरगीतमुदारं सुखयतु शैलजया कथितं शिवचरितविशेषितसारं कलये ॥ ८॥ श्लोकः लीलाप्रसूनशरपाशसृणिप्रकाण्ड- पुण्ड्रेक्षुभासिकरपल्लवमम्बुजाक्षम् । आलोक्य सस्मितमुखेन्दुकमिन्दुमौलिं उत्कण्ठते हृदयमीक्षितुमेव भूयः ॥ १५॥

॥ तृतीयः सर्गः ॥

श्लोकः इति बहु कथयन्तीमालिमालोक्य बालां अलघुविरहदैन्यामद्रिजामीक्षमाणः । सपदि मदनखिन्नः सोमरेखावतंसः किमपि विरहशान्त्यै चिन्तयामास धीरः ॥ १६॥ ॥ सप्तमाष्टपदी ॥ भूपालरागेण त्रिपुटतालेन गीयते (मामियं चलिता इतिवत्) श्लोकः लीलया कलहे गता कपटक्रुधा वनितेयं मानिनी मदनेन मामपि सन्तनोति विधेयम् ॥ शिव शिव कुलाचलसुता ॥ १॥ तापितो मदनज्वरेण तनूनपादधिकेन यापयमि कतं नु तद्विरहं क्षणं कुतुकेन शिव शिव ॥ २॥ यत्समागमसम्मदेन सुखी चिरं विहरामि । यद्वियोगरुजा न जातु मनोहितं वितनोमि शिव शिव ॥ ३॥ लीलया कुपिता यदा मयि तामथानुचरामि । भूयसा समयेन तामनुनीय संविहरामि शिव शिव ॥ ४॥ अर्पितं शिरसि क्रुधा मम हा यदङ्घ्रिसरोजं पाणिना परिपूजितं बत जृम्भमाणमनोजं शिव शिव ॥ ५॥ दृश्यसे पुरतोऽपि गौरि न दृश्यसे चपलेव । नापराधकथा मयि प्रणतं जनं कृपयाव शिव शिव ॥ ६॥ नीलनीरदवेणि किं तव मत्कृतेऽनुनयेन । सन्निधेहि न गन्तुमर्हसि मादृशे दयनेन शिव शिव ॥ ७॥ वर्णितं शिवदासचन्द्रशिखामणिश्रमणेन । वृत्तमेतदुदेतु सन्ततं ईशितुः प्रवणेन शिव शिव ॥ ८॥ श्लोकः भुवनविजयी विक्रान्तेषु त्वमेव न चेतरः तव न कृपणे युक्तं मादृग्विधे शरवर्षणम् । मदन यदि ते वैरं निर्यातु भो नियतं पुरा विहितमहितो नाहं नित्यं तवास्मि निदेशगः ॥ १७॥ मधुकरमयज्याघोषेण प्रकम्पयसे मनः परभृतवधूगाने कर्णज्वरं तनुषेतराम् । कुसुमरजसां बृन्दैरुत्मादयस्यचिरादितः स्मर विजयसे विश्वं चित्रीयते कृतिरीदृशी ॥ १८॥ चलितललितापाङ्ग श्रेणीप्रसारणकैतवात् दरविकसितस्वच्छच्छायासितोत्पलवर्षणैः । विरहशिखिना दूनं दीनं न मामभिरक्षितुं यदि न मनुषे जानासि त्वं मदीयदशां ततः ॥ १९॥ शुभदति विचरावः शुभ्रकम्पातटिन्यास्तट भुवि रमणीयोद्यानकेळिं भजावः । प्रतिमुहुरिति चिन्ताविह्वलः शैलकन्यामभि शुभतरवादः पातु चन्द्रार्धमौलेः ॥ २०॥

॥ चतुर्थः सर्गः ॥

श्लोकः कम्पातीरप्रचुररुचिरोद्यानविद्योतमान- श्रीमाकन्दद्रुमपरिसर माधवीक्लृप्तशालाम् । अध्यासीनं रहसि विरहश्रान्तमश्रान्तकेलिं वाचं गौरीप्रियसहचरी प्राह चन्द्रावतंसम् ॥ २१॥ ॥ अष्टमाष्टपदी ॥ सौराष्ट्ररागेण आदितालेन गीयते (निन्दति चन्दनं इतिवत्) या हि पुरा हर कुतुकवती परिहासकथासु विरागिणी असितकुटिल चिकुरावळि मण्डनशुभतरदाम निरोधिनी शङ्कर शरणमुपैति शिवामतिहन्ति स शम्बरवैरी शिव विरहकृशा तव गौरी ॥ १॥ कुसुम शयनमुपगम्य सपदि मदनशरविसरपरिदूना मलयजरजसि महनलततिमिव कलयति मतिमतिदीना शिव विरहकृशा तव गौरी ॥ २॥ उरसिरुचिरमणिहारलतागतबलभिदुपलततिनीला मञ्जुवचनगृहपञ्जरशुकपरिभाषणपरिहृतलीला शिव विरहकृशा तव गौरी ॥ ३॥ भृशकृतभवदनुभावनयेक्षित भवति विहितपरिवादा सपदि विहित विरहानुगमनादनुसम्भृतहृदय विषादा शिव विरहकृशा तव गौरी ॥ ४॥ बालहरिणपरिलीढपदा तदनादरविगत विनोदा उन्मदपरभृतविरुताकर्णनकर्णशल्यकृतबाधा शिव विरहकृशा तव गौरी ॥ ५॥ कोकमिथुनबहुकेळिविलोकनजृम्भितमदन विकारा शङ्करहिमकरशेखर पालय मामिति वदति न धीरा शिव विरहकृशा तव गौरी ॥ ६॥ दूषितमृगमदरुचिरविशेषक निटिलभसिकृतरेखा अतनुतनुज्वरकारितया परिवर्जितचन्द्रमयूखा शिव विरहकृशा तव गौरी ॥ ७॥ श्रीशिवचरणनिषेवणचन्द्रशिखामणियतिवरगीतं श्रीगिरिजाविरहक्रमवर्णनमुदयतु विनयसमेतं शिव विरहकृशा तव गौरी ॥ ८॥ श्लोकः आवासमन्दिरमिदं मनुते मृडानी घोराटवीसदृशमाप्तसखीजनेन । ना भाषणानि तनुते नलिनायताक्षी देव त्वया विरहिता हरिणाङ्कमौले ॥ ॥ नवमाष्टपदी ॥ बिलहरिरागेण त्रिपुटतालेन गीयते (स्तनविनिहत इतिवत्) हिमकरमणिमयदामनिकाय कलयति वह्निशिखामुरसीयं शैलजा शिव शैलजा विरहे तव शङ्कर शैलजा ॥ १॥ वपुषि पतितघनहिमकरपूरं सन्तनुते हृदि दिवि दुरितारं शैलजा ॥ २॥ उरसि निहितमृदु विततमृणालं पश्यति सपदि विलसदळिनीलं शैलजा ॥ ३॥ सहचरयुवतिषु नयनमनीलं नमितमुखी वितनोति विशालं शैलजा ॥ ४॥ रुष्यति खिद्यति मुहुरनिदानं न प्रतिवक्ति सखीमपि दीनं शैलजा ॥ ५॥ शिव इति शिव इति वदति सकामं पश्यति पशुरिव किमपि ललामं शैलजा ॥ ६॥ सुरतरुविविधफलामृतसारं पश्यति विषमिव भृशमतिघोरं शैलजा ॥ ७॥ यतिवरचन्द्रशिखामणिगीतं सुखयतु साधुजनं शुभगीतं शैलजा ॥ ८॥ श्लोकः त्वद्भावनैकरसिकां त्वदधीनवृत्तिं त्वन्नामसंस्मरणसंयुतचित्तवृत्तिम् । बालामिमां विरहिणीं कृपणैकबन्धो नोपेक्षसे यदि तदा तव शङ्कराख्या ॥ २३॥ वस्तूनि निस्तुलगुणानि निराकृतानि कस्तूरिकारुचिरचित्रकपत्रजातम् । ईदृग्विधं विरहिणी तनुते मृडानी तामाद्रियस्व करुणाभरितैरपाङ्गैः ॥ २४॥

॥ पञ्चमः सर्गः ॥

श्लोकः एकाम्रमूलविलसन्नवमञ्जरीक श्रीमाधवीरुचिरकुञ्जगृहेवसामि । तामानयानुनय मद्वचनेन गौरीमित्थं शिवेन पुनराह सखी नियुक्ता ॥ ॥ दशमाष्टपदी ॥ आनन्दभैरवीरागेण आदितालेन गीयते (वहति मलयसमीरे इतिवत्) जयति मदननृपाले शिवे कुपितपथिक जालं भ्रमरमिथुन जाले शिवे पिबति मधु सलीलं विरहरुजा पुरवैरी परिखिद्यति गौरी शिवविरहरुजा ॥ १॥ मलयमरुति वलमाने शिवे विरह विघटनाय सति च मधुपगाने शिवे सरसविहरणाय शिव विरहरुजा ॥ २॥ कुसुमभरितसाले शिवे विततसुमधुकाले कृपणविरहिजाले शिवे कितवहृदनुकूले शिवविरहरुजा ॥ ३॥ मदनविजयनिगमं शिवे जपति पिकसमूहे चतुरकितवसङ्ग (शिवे) कुटिलरवदुरूहे शिवविरहरुजा ॥ ४॥ कुसुमरजसि भरिते शिवे कितवमृदुळमरुता दिशि च विदिशि वितते शिवे विरहिवपुषि चरता शिवविरहरुजा ॥ ५॥ विमलतुहिनकिरणे शिवे विकिरति करजालं विहृतिविरतिहरणे शिवे वियति दिशि विशालं शिवविरहरुजा ॥ ६॥ मृदुलकुसुमशयने शिवे वपुषि विरहदूने भ्रमति लुठति दीने शिवे सुहितशरणहीने शिवविरहरुजा ॥ ७॥ जयति गिरिशमतिना शिवे गिरिशविरहकथनं चन्द्रमकुटयतिना शिवे निखिलकलुषमथनं शिवविरहरुजा ॥ ८॥ श्लोकः यत्रत्वामनुरञ्जयन्नतितरामारब्धकामागमं व्यापारैरचलाधिराजतनये केलीविशेषैर्युतः । तत्र त्वामनुचिन्तयन्नथ भवन्नामैकतन्त्रं जपन् भूयस्तत्परितम्भसम्भ्रमसुखं प्राणेश्वरः काङ्क्षति ॥ २६॥ ॥ एकादशाष्टपदी ॥ केदारगौळरागेण आदितालेन गीयते (रतिसुखसारे गतमभिसारे इतिवत्) हिमगिरितनये गुरुतरविनये नियुतमदनशुभरूपं निटिलनयनमनुरञ्जय सति तव विरहजनितघनतापम् । मलयजपवने कम्पानुवने वसति सुदति पुरवैरी युवतिहृदयमदमर्दनकुशली सम्भृत केलिविहारी । मलयजपवने ॥ १॥ वद मृदु दयिते मम हृदि नियते बहिरिव चरसि समीपं वदति मुहुर्मुहुरिति हर मामकदेहमदनघनतापम् । मलयजपवने ॥ २॥ उरुघन सारं हिमजल पूरं वपुषि पतितमतिघोरं सपदि न मृष्यति शपति मनोभवमतिमृदुमलय समीरम् । मलयजपवने ॥ ३॥ विलिखति चित्रं तव च विचित्रं पश्यति सपदि समोदं वदति झटिति बहु मामिति शम्बररिपुरतिकलयति खेदम् । मलयजपवने ॥ ४॥ अर्पयनीलं मयि धृतलीलं नयनकुसुममतिलोलं विरहतरुणि विरहातुरमनुभज मामिह (ति) विलपति सा (सोऽ) लम् । मलयजपवने ॥ ५॥ लसदपराधं मनसिजबाधं विमृश विनेतुमुपायं गुरुतरतुङ्गपयोधरदुर्गमपानय हरमनपायम् । मलयजपवने ॥ ६॥ अतिधृतमाने परभृतगाने किञ्चिदुदञ्चय गानं जहि जहि मानमनूनगुणै रमयाशु विरहचिरदीनम् । मलयजपवने ॥ ७॥ इति शिवविरहं घनतरमोहं भणति नियमिजनधीरे चन्द्रशिखामणिनामनि कुशलमुपनय गजवरचीरे । मलयजपवने ॥ ८॥ श्लोकः विमल सलिलोदञ्चत्कम्पासरोरुहधोरणी- परिमलरजः पालीसङ्क्रान्तमन्दसमीरणे । वितपति वियद्गङ्गामङ्गीचकार शिरः स्थितां तव हि विरहाक्रान्तः कान्तः नतोऽपि न वेदितः ॥ २७॥ अनुभवति मृगाक्षी त्वद्वियोगक्षणानां लवमिव युगकल्पं स्वल्पमात्मापराधम् । त्वयि विहितमनल्पं मन्यमानः कथञ्चित् नयति समयमेनं देवि तस्मिन्प्रसीद ॥ २८॥ इति सहचरीवाणीमेणाङ्कमौळिमनोभव- व्यथनकथनीमेनामाकर्ण्य कर्णसुधाझरीम् । सपदि मुदिता विन्यस्यन्ती पदानि शनैः शनैः जयति जगतां माता नेतुः प्रविश्य लतागृहम् ॥ २९॥ सा दक्षदेवनविहारजयानुषङ्गलीलाहवे भवति शैलजया शिवस्य । चेतः प्रसादमनयोस्तरसा विधाय देव्या कृतं कथयति स्म सखी रहस्यम् ॥ ३०॥ ॥ द्वादशाष्टपदी ॥ शङ्कराभरणरागेण त्रिपुटतालेन गीयते (पश्यति दिशि दिशि इतिवत्) कलयति कलयति मनसि चरन्तं कुचकलशस्पृशमयति भवन्तम् । पाहि विभो शिव पाहि विभो निवसति गौरी केळिवने पाहि विभो ॥ १॥ जपति जपति तव नाम सुमन्त्रं प्रति मुहुरुदितसुमायुधतन्त्रं पाहि ॥ २॥ उपचितकुसुमसुदामवहन्ती भवदनुचिन्तनमाकलयन्ती पाहि ॥ ३॥ मलयजरजसि निराकृतरागा वपुषि भसित धृतिसंयतयोगा पाहि ॥ ४॥ परिहृतवेणि जटाकच भारा निजपतिघटकजनाशयधारा पाहि ॥ ५॥ अविधृतमणिमुकुटादिललामा बिसवलयादिविधारणकामा पाहि ॥ ६॥ मुहुरवलोकित किसलयशयना बहिरुपसङ्गत सुललित नयना पाहि ॥ ७॥ इति शिव भजनगुणेन विभान्तं चन्द्रशिखामणिना शुभगीतम् ॥ पाहि ॥ ८॥ श्लोकः सा वीक्षते सहचरीं मदनेन लज्जा- भारेण नोत्तरवचो वदति प्रगल्भा । व्याधून्वति श्वसितकोष्णसमीरणेन तुङ्गस्तनोत्तरपटं गिरिजा वियुक्ता ॥ ३१॥

॥ षष्ठः सर्गः ॥

श्लोकः अथ विरहिणीमर्मच्छेदानुसम्भृतपातक- श्रित इव निशानाथः सङ्क्रान्तनीलगुणान्तरः । किरणनिकरैरञ्चत्कम्पासरित्तटरम्यभू- वलयमभितो व्याप्त्या विभ्राजयन्परिजृम्भते ॥ ३२॥ विकिरति निजकरजालं हिमकरबिम्बेऽपि नागते कान्ते । अकृतकमनीयरूपा स्वात्मगतं किमपि वदति गिरिकन्या ॥ ३३॥ ॥ त्रयोदशाष्टपदी ॥ आहिरिरागेण झम्पतालेन गीयते (कथितसमयेऽपि इतिवत्) सुचिरविरहापनय सुकृतभिकामितं सफलयति किमिह विधिरुत न विभवामितं कामिनी किमिह कलये सहचरीवञ्चिताहं कामिनी ॥ १॥ यदनुभजनेन मम सुखमखिलमायतं तमनुकलये किमिह नयनपथमागतं कामिनी ॥ २॥ येन मलयजरेणुनिकरमिदमीरितं न च वहति कुचयुगलमुरु तदवधीरितुं कामिनी ॥ ३॥ यच्चरणपरिचरणमखिलफलदायकं न स्पृशति मनसि मम हा तदुपनायकं कामिनी ॥ ४॥ निगमशिरसि स्फुरति यतिमनसि यत्पदम् । विततसुखदं तदपि हृदि न मे किमिदं कामिनी ॥ ५॥ विरहसमयेषु किल हृदि यदनुचिन्तनम् । न स भजति नयनपथमखिलभय कृन्तनं कामिनी ॥ ६॥ कुचयुगलमभिमृशति स यदि रतसूचितम् । सफलमिह निखिलगुणसहितमपि जीवितं कामिनी ॥ ७॥ नियमधनविधुमौळिफणितमिदमञ्चितम् । बहुजनिषु कलुषभयमपनयतु सञ्चितं कामिनी ॥ ८॥ श्लोकः आजग्मुषीं सहचरीं हरमन्तरेण चिन्ताविजृम्भितविषादभरेण दीना । आलोक्य लोकजननी हृदि सन्दिहाना कान्तं कयाभिरमितं निजगाद वाक्यम् ॥ ३४॥ ॥ चतुर्दशाष्टपदी ॥ सारङ्गरागेण त्रिपुटतालेन गीयते (स्मरसमरोचित इतिवत्) कुसुमशराहवसमुचितरूपा प्रियपरिरम्भणपरिहृततापा कापि पुररिपुणा रमयति हृदयममितगुणा कापि ॥ १॥ घनतरकुचयुगमृगमदलेपा दयितविहितरतिनव्यसुलापा ॥ कापि ॥ २॥ रमणरचितकटपत्रविशेषा उरसिलुलितमणिहारविभूषा ॥ कापि ॥ ३॥ दयितनिपीतसुधाधरसीमा गलितवसनकटिपरिहृतदामा ॥ कापि ॥ ४॥ अधिगतमृदुतरकिसलयशयना दरपरिमीलितचालितनयना ॥ कापि ॥ ५॥ विहितमधुररतिकूजितभेदा दृढपरिरम्भणहतमेति भेदा ॥ कापि ॥ ६॥ महित महोरसि सरभसपतिता लुलितकुसुमकुटिलालकमुदिता ॥ कापि ॥ ७॥ चन्द्रशिखामणियतिवरभणितम् । सुखयतु साधुजनं शिवचरितम् ॥ कापि ॥ ८॥

॥ सप्तमः सर्गः ॥

श्लोकः चकोराणां प्रीतिं कलयसि मयूखैर्निजकला- प्रदानैर्देवानमपि दयितभाजां मृगदृशाम् । न कोकानां राकाहिमकिरण मादृग्विरहिणी- जनानां युक्तं ते किमिदमसमं हन्त चरितम् ॥ ३५॥ गङ्गामङ्गनिषङ्गिपङ्कजरजोगन्धावहामङ्गनां आश्लिष्यन्निभृतं निरङ्कुशरहः केळीविशेषैरलम् । विभ्रान्तः किमदभ्ररागभरितस्तस्यामुत स्यादयं कान्तोऽश्रान्तमनङ्गनागविहतो नाभ्याशमभ्यागतः ॥ ३६॥ सन्तापयन्नखिलगात्रममित्रभावात् सन्दृश्यते जडधियामिह शीतभानुः । दोषाकरो वपुषि सङ्गतराजयक्ष्मा घोराकृतिर्हि शिवदूति निशाचराणाम् ॥ ३७॥ ॥ पञ्चदशाष्टपदी ॥ सावेरिरागेण आदितालेन गीयते (समुदितवदने इतिवत्) विरहितशरणे रमणीचरणे विजितारुणपङ्कजे अरुणिमरुचिरं कलयति सुचिरं मतिमिव वपुषि निजे रमते कम्पामहितवने विजयी पुरारिजने ॥ रमते ॥ १॥ अलिकुलवलिते परिमळललिते युवतिकुटिलालके कलयति कुसुमं विलसितसुषुमं सुमशरपरिपालके ॥ रमते ॥ २॥ कुचगिरियुगले निजमतिनिगले मृगमदरचनाकरे मणिसरनिकरं विलसितमुकुरं घटयति सुमनोहरे ॥ रमते ॥ ३॥ विलसितरदने तरुणीवदने किसलयरुचिराधरे रचयति पत्रं मकरविचित्रं स्मितरुचिपरिभासुरे ॥ रमते ॥ ४॥ कटितटभागे मनसिजयोगे विगळितकनकाम्बरे मणिमयरशनं रविरचिवसनं घटयति तुहिनकरे ॥ रमते ॥ ५॥ अधरसुधाळिं रुचिररदालिं पिबति सुमुखशङ्करे विदधति मधुरं हसति च विधुरं रतिनिधिनिहितादरे ॥ रमते ॥ ६॥ मृदुलसमीरे वलति गभीरे विलसति तुहिनकरे उदितमनोजं विकसदुरोजं शिवरतिविहितादरे ॥ रमते ॥ ७॥ इति रसवचने शिवनति रचने पुरहरभजनादरे बहुजनिकलुषं निरसतु परुषं यतिवरविधुशेखरे ॥ रमते ॥ ८॥ श्लोकः आयातवानिह न खेदपरानुषङ्ग- वाञ्छाभरेण विवशस्तरुणेन्दुमौलिः । स्वच्छ्न्दमेव रमतां तव कोऽत्र दोषः पश्याचिरेण दयितं मदुपाश्रयस्थम् ॥ ३८॥

॥ अष्टमः सर्गः ॥

श्लोकः मत्प्राणनेतुरसहायरसालमूल- लीलागृहस्य मयि चेदनुरागबन्धः । अन्याकथानुभविनः प्रणयानुबन्धो दूति प्रसीदति ममैष महानुभावः ॥ ॥ षोडशाष्टपदी ॥ पुन्नागवराली रागेण आदितालेन गीयते (अनिलतरलकुवलयनयनेन इतिवत्) अरुणकमलशुभतरचरणेन सपदि गता न हि भवतरणेन । या विहृता पुरवैरिणा ॥ १॥ स्मितरुचिहिमकरशुभवदनेन निहितगुणा विलसितसदनेन । या विहृता पुरवैरिणा ॥ २॥ सरसवचनजितकुसुमरसेन हृदि विनिहितरतिकृतरभसेन । या विहृता पुरवैरिणा ॥ ३॥ विहित विविधकुसुमशरविहृते नानागतरसा नयगुण विहितेन । या विहृता पुरवैरिणा ॥ ४॥ उदितजलजरुचिरगळेन स्फुटितमना न युवतिनिगळेन । या विहृता पुरवैरिणा ॥ ५॥ कनकरुचिरसुजटापटलेनानुहतसुखासतिलकनिटिलेन । या विहृता पुरवैरिणा ॥ ६॥ निखिलयुवतिमदनोदयनेन ज्वरितमाना न विरहदहनेन । या विहृता पुरवैरिणा ॥ ७॥ तुहिनकिरणधरयतिरचनेन सुखयतु मां शिवहितवचनेन । या विहृता पुरवैरिणा ॥ ८॥ श्लोकः अयि मलयसमीर क्रूर भावोरगाणां श्वसितजनित किं ते मादृशीहिंसनेन । क्षणमिव सहकारादीशगात्रानुषङ्ग- उपहृतपरिमलात्मा सन्निधेहि प्रसन्नः ॥ ४०॥

॥ नवमः सर्गः ॥

श्लोकः इत्थं रुषा सहचरीं परुषं वदन्ती शैलाधिराजतनुजा तनुजातकार्श्या । नीत्वा कथं कथमपि क्षणदां महेशः मागः प्रशान्ति विनतं कुटिलं बभाषे ॥ ४१॥ ॥ सप्तदशाष्टपदी ॥ आरभीरागेण त्रिपुटतालेन गीयते (रजनिजनितगुरु इतिवत्) चतुरयुवतिसुरतादर जागरितारुणमधृतविलासं निटिलनयन नयनद्वितयं तव कथयति तदभिनिवेशम् । पाहि तामिह फाललोचन या तव दिशति विहारं गरळमिलितधवलामृतमिव हरमागमवचनमसारं पाहि ॥ गुरुतरकुचपरिरम्भणसम्भृतकुङ्कुमपङ्किलहारं स्मरति विशालमुरो विशदं तव रतिरभसादनुरागं पाहि ॥ २॥ रतिपतिसमरविनिर्मित निशितनखक्षतचिह्नितरेखं वपुरिदमळिकविलोचन लसदिव रतिभरकृतजयरेखं पाहि ॥ ३॥ रदनवसनमरुणमिदं तव पुरहर भजति विरागं विगलितहिमकरशकलमुदञ्चितदर्शितरतिभरवेगं पाहि ॥ ४॥ युवतिपदस्थितयावकरसपरिचिन्तितरतिकमनीयं विलसति वपुरिदमलघुबहिर्गतमयति विरागममेयं पाहि ॥ ५॥ युवतिकृतव्रणमधरगतं तव कलयति मम हृदि रोषं प्रियवचनावसरेऽपि मया सह स्फुटयति तत्परितोषं पाहि ॥ ६॥ सुरतरुसुमदामनिकायनिबद्धजटावलिवलयमुदारं कितवमनोभवसङ्गरशिथिलितमनुकथयति सुविहारं पाहि ॥ ७॥ इति हिमगिरिकुलदीपिकया कृतशिवपरिवदनविधानं सुखयतु बुधजनमीशनिषेवणयतिवरविधुशेखरगानं पाहि ॥ ८॥ श्लोकः ईदृग्विधानि सुबहूनि तव प्रियायां गाढानुरागकृतसङ्गमलाञ्छितानि । साक्षदवेक्षितवतीमिह मामुपेत्य किं भाषसे कितवशेखर चन्द्रमौळे ॥ ४२

॥ दशमः सर्गः ॥

श्लोकः तामुद्यतप्रसवबाणविकारखिन्नां सञ्चिन्त्यमानशशिमौलिचरित्रलीलाम् । बालां तुषारगिरिजां रतिकेलिभिन्नां आळिः प्रियाथ कलहान्तरितामुवाच ॥ ४३॥ ॥ अष्टादशाष्टपदी ॥ यदुकुलकाम्भोजिरागेण आदितालेन गीयते (हरिरभिसरति इतिवत्) पुररिपुरभिरतिमति हृदि तनुते भवदुपगूहनमिह बहु मनुते । शङ्करे हे शङ्करि मा भज मानिनि परिमानमुमे शङ्करे ॥ १॥ मृगमदरसमय गुरुकुचयुगले कलयति पुररिपुरथ मति निगले ॥ शङ्करे ॥ २॥ सुचिरविरहभवमपहर कलुषं भवदधरामृतमुपहर निमिषं ॥ शङ्करे ॥ ३॥ सरस निटिलकृतचित्रकरुचिरं तव वदनं स च कलयति सुचिरं ॥ शङ्करे ॥ ४॥ विभुरयमेष्यति शुभतरमनसा तदुरसि कुचयुगमुपकुरु सहसा ॥ शङ्करे ॥ ५॥ सकुसुमनिकरमुदञ्चय चिकुरं सुदति विलोकय मणिमय मुकुरं ॥ शङ्करे ॥ ६॥ श्रृणु सखि शुभदति मम हितवचनं घटय जघनमपि विगलितरशनं ॥ शङ्करे ॥ ७॥ श्रीविधुशेखरयतिवरफणितं सुखयतु साधुजनं शिवचरितं ॥ शङ्करे ॥ ८॥ महादेवे तस्मिन्प्रणमति निजागः शमयितुं तदीयं मूर्धानं प्रहरसि पदाभ्यां गिरिसुते । स एष क्रुद्धश्चेत्तुहिनकिरणं स्थापयति चेत् मृदून्यङ्गान्यङ्गारक इव तनोत्येष पवनः ॥ ४४॥

॥ एकादशः सर्गः ॥

इत्थं प्रियां सहचरीं गिरमुद्गिरन्तीं चिन्ताभरेण चिरमीक्षितुमप्यधीरा । गौरी कथञ्चिदभिमानवती ददर्श कान्तं प्रियानुनयवाक्य मुदीरयन्तम् ॥ ४५॥ बाले कुलाचलकुमारि विमुञ्च रोषं दोषं च मय्यधिगतं हृदये न कुर्याः । शक्ष्यामि नैव भवितुं भवतीं विनाहं वक्ष्यामि किं तव पुरः प्रियमन्यदस्मात् ॥ ४६॥ ॥ एकोनविंशाष्टपदी ॥ मुखारि रागेण झम्पतालेन गीयते (वदसि यदि किञ्चिदपि इतिवत्) भजसि यदि मयि रोषमरुणवारिरुहाक्षि किमिह मम शरणमभिजातं शरणमुपयायतवति कलुषपरिभावनं न वरमिति सति सुजनगीतं शिवे शैलकन्ये पञ्चशरतपनमिह जातं हरकमलशीतलं सरसनयनाञ्चलं मयि कलय रतिषु कमनीयं शिवे शैलकन्ये ॥ १॥ स्पृशसि यदि वपुररुणकमलसमपाणिना न स्पृशसि तपनमनिवारं दरहसितचन्द्रकरनिकरमनुषञ्जयसि यदि मम च हृदयमतिधीरं शिवे शैलकन्ये ॥ २॥ कुसुमदामचयेन मम जटावलिजूटनिचयमयि सुदति सविलासं सपदि कलयामि वलयाकृतिसरोजवनसुरसरितमुपहसितभासम् शिवे शैलकन्ये ॥ ३॥ अमलमणिहारनिकरेण परिभूषयसि पृथुल कुचयुगल मतिभारम् । तुहिनगरिशिखरानुगळितसुरनिम्नगा सुगळसमभावसुगभीरम् शिवे शैलकन्ये ॥ ४॥ विकसदसिताम्बुरुहविमलनयना- ञ्चलैरुपचरसि विरहपरिदूनम् । सफलमिह जीवितं मम सुदति कोपने विसृज मयि सफलमतिमानम् शिवे शैलकन्ये ॥ ५॥ भवदधर मधु वितर विषमशरविकृति- हरमयि वितर रतिनियतभानं स्फुयमदपराधशतमगणनीयमिह विमृश भवदनुसृतिविधानं शिवे शैलकन्ये ॥ ६॥ कुपितहृदयासि मयि कलय भुजबन्धने कुरु निशितरदनपरिपातं उचितमिदमखिलं तु नायिके सुदति मम शिक्षणं स्वकुचगिरिपातं शिवे शैलकन्ये ॥ ७॥ इति विविधवचनमपि चतुरपुरवैरिणा हिमशिखरिजनुषमभिरामं शिवभजननियतमतियतिचन्द्रमौलिना फणितमपि जयतु भुवि कामं शिवे शैलकन्ये ॥ ८॥ श्लोकः सुचिर विरहाक्रान्तं विभ्रान्तचित्तमितस्ततः स्मरपरवशं दीनं नोपेक्षसे यदि मां प्रिये । अहमिह चिरं जीवन्भावत्कसेवनमाद्रिये यदपकरणं सर्वं क्षन्तव्यमद्रिकुमारिके ॥ ४७॥

॥ द्वादशः सर्गः ॥

श्लोकः इति विरहितामेनां चेतः प्रसादवतीं शिवां अनुनयगिरां गुम्फैः सम्भावयन्निजपाणिना । झटिति घटयन्मन्दस्मेरस्तदीयकराम्बुजं हिमकरकलामौलिः संप्राप केलिलतागृहम् ॥ ४८॥ संप्राप्य केळीगृहमिन्दुमौलिः इन्दीवराक्षीमनुवीक्षमाणः । जहौ रहः केलिकुतूहलेन वियोगजार्तिं पुनराबभाषे ॥ ४९॥ ॥ विंशाष्टपदी ॥ घण्टारागेण झम्पतालेन गीयते (मञ्जुतरकुञ्जतल इतिवत्) पृथुलतरललितकुचयुगलमयि ते मृगमदरसेन कलयामि दयिते । रमय बाले भवदनुगमेनं ॥ रमय बाले ॥ १॥ विधुशकलरुचिरमिदमलिकमयि ते शुभतिलकमभिलसतु केलिनियते ॥ रमय बाले ॥ २॥ इह विहर तरुणि नव कुसुमशयने भवदधरमधु वितर मकरनयने ॥ रमय बाले ॥ ३॥ अयि सुचिरविरहरुजमपहर शिवे सरसमभिलप रमणि परभृतरवे ॥ रमय बाले ॥ ४॥ कलय मलयजपङ्कमुरसि मम ते कठिनकुचयुगमतनु घटय ललिते ॥ रमय बाले ॥ ५॥ इदममरतरुकुसुमनिकरमयि ते घनचिकुरमुपचरतु सपदि वनिते ॥ रमय बाले ॥ ६॥ दरहसितविधुकरमुदञ्चय मनो- भवतपनमपनुदतु विलसितघने ॥ रमय बाले ॥ ७॥ शिवचरणपरिचरणयतविचारे फणति हिमकरमौळिनियमिधीरे ॥ रमय बाले ॥ ८॥ श्लोकः ईदृग्विधैश्चटुलचाटुवचोविलासैः गाढोपगूहनमुखाम्बुजचुम्भनाद्यैः । आह्लादयन् गिरिसुतामधिकाञ्चि नित्यं एकाम्रमूलवसतिर्जयति प्रसन्नः ॥ ५०॥ विद्याविनीतजयदेवकवेरुदार- गीतिप्रबन्धसरणिप्रणिधानमात्रात् । एषा मया विरचिता शिवगीतिमाला मोदं करोतु शिवयोः पदयोजनीया ॥ ५१॥ अव्यक्तवर्णमुदितेन यथार्भकस्य वाक्येन मोदभरितं हृदयं हि पित्रोः । एकाम्रनाथ भवदङ्घ्रिसमर्पितेयं मोदं करोतु भवतः शिवगीतिमाला ॥ ५२॥ गुणानुस्यूतिरहिता दोषग्रन्थिविदूषिता । तथापि शिवगीतिर्नो मालिका चित्रमीदृशी ॥ ५३॥ ॐ नमः शिवायै च नमः शिवाय इति श्रीचन्द्रशेखरेन्द्रसरस्वतीविरचिता शिवगीतिमाला अथवा शिवाष्टपदी समाप्ता । ॥ शुभमस्तु ॥