अक्षर आकार:

शिवद्वास्त्रिंशोपचारपूजन

Shiva Puja with 32 parts Dvastrimshopachara pUjana

शिवद्वास्त्रिंशोपचारपूजन

१ ध्यानम् -- ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् । पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृतिं वसानं विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ वन्दे देव उमापतिं सुरगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूषणं मृगधरं,वन्दे पशूनां पतिम् । वन्दे सूर्यशशाङ्कवह्निनयनं,वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयं च वरदं,वन्दे शिवं शङ्करम् ॥ सिंहासनं कनकरत्नमणि प्रभास्वत् छत्रध्वजा लसित चामर तोरणाढ्यम् । बालार्क कोटि सदृशं कनकाम्बराढ्यं श्री विश्वनाथ तव ध्यानपरं करिष्ये ॥ २ आवाहनम् -- गन्धर्व किन्नर महर्षि सुरेन्द्रवृन्दैः संसेव्यमान मनिशं वृषभावरूढम् । आवाहयामि गिरिजासहितं प्रसन्नं भक्त्या सुखागतमहं शिरसा नमामि ॥ ३ आसनम् -- सिंहासनं कनकरत्न मणि- प्रभास्वत् छत्रध्वजा लसित चामर तोरणाढ्यम् । बालार्क कोटि सदृशं कनकाम्बराढ्यं श्री विश्वनाथ ! मनसैव मयाऽर्पितं ते ॥ ४ पाद्यम् -- दूर्वाङ्कुराम्बुज-मनोहर-पुष्पयुक्तं शुद्धं जलं सुरभि चूर्ण-समन्वितं च । सौवर्ण-पात्र-विलसत् पदयोर्विशुद्धं पाद्यं गृहाण जगदीश मयाऽर्पितं ते ॥ ५ अर्घ्यम् -- दुर्वायवाक्षत सुगन्धि हिरण्य रत्नं दर्भाम्बुजं त्रिपथगा जल पुष्प युक्तम् । सौवर्ण पात्र रचितं फल युक्तमर्घ्यं त्वं स्वीकुरुष्व मनसार्पितमिन्दुमौलै ॥ ६-आचमनीयम् -- गङ्गाजलैरमृत माधुरतामुपन्नै- रेलालविङ्ग शुभगन्ध मनोभिरामम् । गौरीपते कनकपात्र घृतं मया ते भक्त्यार्पितं सुचिरमाचमनं गृहाण ॥ ७ स्नानम् -- दिव्यदृमेन्धन- समिध्ध - हुताशनाप्तैः शुद्धोदकैः सविमलैश्च समुद्रजैश्च । गौरीपते परिगृहाण यथा सुखेन स्नानम्मयैव विधिना विधिवत् प्रदिष्टम् ॥ ८ पयः स्नानम्-- दिव्योषधि द्रवभवं नवनीतपूर्णं क्षीराब्धिसम्भृत सुधाधिकधामधारम् । स्वर्धेनु सम्भवमपूर्व- सुमिष्ठमेतं स्नानाय शुद्ध मुररीकुरु देवदुग्धम् ॥ ९ दधि स्नानम् -- कर्पूर-कुन्द-कुमुदेन्दु-करावदन्तं मल्लि प्रफुल्ल- कुसुमाकर- कान्ति कान्तम् । स्नानाय शुद्ध रसराज सुकोमलार्चिः स्निग्धं शुभं दधि दयानिधयेऽर्पयामि ॥ १० घृत स्नानम् -- तेजोमयेन तपन द्युतिपावितेन गव्येन भव्य विविधिना परमन्त्रितेन । वह्नौ सृतेन रचयामि रसावृतेन भौमामृते न च घृतेन तवाभिषेकम् ॥ ११ मधु स्नानम् -- नानाविधौषधि लता-रस-सम्भृतान्तं माधुर्यमिष्टममृतं प्रतिमं गुणेन । माणिक्य पात्र सम पूरित भक्ति पूर्ण - मङ्गी कुरुष्व मधु देव महेश शम्भो ॥ १२ शर्करा स्नानम् -- पूरणेक्षुसागर समुद्र भव याऽति निम्ना मुक्ताफलद्रुम- सुधाधिकया महिम्ना । सर्वाङ्ग शोधनविधौ वरया त्रिनेत्र सुस्नाहि सिद्ध वर शर्करया महेश ॥ १३ गन्धोदक स्नानम् -- कङ्कोल कुण्ड्मल दलैल- लवङ्ग मिश्रं जातिफला मध -सुगन्धि समन्वितं च । कर्पूर केसर सुगन्धिभिरिन्दुमौलै स्नानाय शुद्धतरगन्धमिदं गृहाण ॥ १४ उद्वर्तन स्नानम् -- जातिजपा कनक पङ्कज मोगराद्यै- रन्यैश्च काल भव पुष्प समन्विते च । भक्त्या मया सुमनसैव सुवासितं च गौरीपते सुरभि तैलमिदं गृहाण ॥ १५ शुद्धोदक स्नानम् -- श्री जाह्नवी जलमयं सरसं सुधाव- च्चैला लविङ्ग शुभगन्ध मनोभिरामम् ॥ गौरीपते कनकपात्रधृतं मया ते स्नानं गृहाण जगदीश मयाऽर्पितं ते ॥ १६ वस्त्रम् -- कौशेय-वस्त्र युगलं कनकैर्विचित्रं बालार्क कोटि सदृशं च मनोभिरामम् । भक्त्या मयार्पितमिदं परिधाय शम्भो सिंहासने त्वमुपविश्य गृहाण पूजाम् ॥ १७ यज्ञोपवीतम् -- दत्तम्मया सुमनसा वचसा करेण यद् ब्रह्मचर्यसमयं परमं पवित्रम् । यद् धर्मकर्म निलयं परमायुषं च यज्ञोपवीत मुररीकुरु विश्वनाथ ॥ १८ गन्धम्- चन्दनम् -- यद् श्रेष्ठमस्ति मलयाचल चन्दनानां कर्पूर केसर- सुगन्धि-रसेन घृष्टम् । आमोद -मान मनिशं मनसा धृतं च श्री चन्दनं त्व मुररी कुरु दीनबन्धो ॥ १९ अक्षतान् -- श्वेतेरखण्डित-मनोहर शालीबीजैः संक्षालितैः शुचिजलैश्च सुगन्धिमिश्रैः । त्वामर्चयामि भगवन् मनसा महेशं गौरीपते मयि निधेहि कृपाकटाक्ष ॥ -२० पुष्पम् -- पुन्नाग जाति बकुलाब्ज रसाल पुष्पै- र्बिल्व प्रवालैस्तुलसी समन्वितैः । श्री पारिजातादि- समुद् भवैश्च करोमि पूजां भगवन् गृहाण ॥ २१ पुष्पमाला-- सेवन्तिका- बकुल चम्पक पाटलाब्जैः पुन्नाग जाति-करवीर- रसाल पुष्पैः । बिल्व प्रवाल-तुलसीदल-मालतीभि स्त्वां पूजयामि जगदीश्वर मे प्रसीद ॥ २२ परिमल सौभाग्य द्रव्य -- श्वेताबिरेण सहितं शुभ रक्त चूर्णं सिन्दूरचूर्ण विपुलान्वित पीतचूर्णम् । कर्पूर केसर सुगन्धि सुवासितं च सौभाग्यचूर्ण मुररीकुरु दीनबन्धो ॥ २३ धूपम् -- कालागरोश्च घृतमिश्रित गुग्गुलस्य धूपो मया विरचितो भवतः पुरस्तात् । आघ्रायतां शुचि मनोहर गन्ध पूर्णं तूर्णं विनाशय महेश्वर मोहजालम् ॥ २४ दीपम् -- पूर्णे घृतेन गिरिजेश सुवर्णपात्रे कौसुम्भ सूत्र- द्रढ वर्ति विराजमानः ॥ दीपः पुरस्तव मया रचितो य एष शीघ्रं विनाशयतु मे दुरितान्धकारम् ॥ २५ नैवेद्यम् -- जिह्वा सुधा-कनकपात्र विराजमानं मन्त्रादिकं मधुर शाक-फलावलीढम् । पञ्चामृत प्लुतमनेकविधं रसौघं सङ्कल्पितं त्व मुररीकुरु दीनबन्धो ॥ २६- मुखशुद्ध्यर्थे फलं कलिङ्ग कोशातक संयुतानि जम्बीर नारिङ्ग- समन्वितानि । सुनारिकेलानि च दाडिमानि फलानि ते देव समर्पयामि ॥ २७ मुखवासार्थे ताबूलम् -- पूगैः स चूर्ण खदीरैर्नवजाति पत्रै- र्जातिफलादिक लविङ्ग समन्वितैश्च । ताम्बूल वीटकमिदं मनसा धृतं यत् तत् स्वीकुरु प्रमथनाथ महेश शम्भो ॥ २८ दक्षिणा -- विभावसोर्बीजमिदं हिरण्यद्रव्यं दिव्यं प्रकाशं विधिगर्भ संस्थम् । गृहाण भूताधिपते महेश मुद्रार्पणं वै मनसार्पितं ते ॥ २९ प्रदक्षिणाम् -- पदे पदे या परिपूजकेभ्यः सद्योश्वमेधादि फलं ददाति । तां सर्व पापक्षय हेतुभूतां, प्रदक्षिणां मे परितः करोमि ॥ ३० मन्त्र पुष्पाञ्जलिम् -- चरणकमल युग्मं पङ्कजैः पूजयित्वा कनककमलमालां कण्ठदेशेऽर्पयित्वा । शिरसि विनिहितोयं मन्त्रपुष्पाञ्जलिस्ते हृदयकमलमध्ये देव हर्षं तनोतु ॥ ३१ नमस्कारः -- शान्तं पद्मासनस्थं शशिधरमुकुटं पञ्चवक्त्रं त्रिनेत्रं शूलं वज्रं च खड्गं परशुमभयदं दक्षिणाङ्गे वहन्तम् । नागं पाशं च घण्टां डमरुकसहितं चाङ्कुशं वामभागे नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥ पीठं यस्याः धरित्री जलधरकलशा लिङ्गमाकाशमूर्तिः नक्षत्रं पुष्पमाला ग्रहगणकुसुमं नेत्रचन्द्रार्कवह्निः । कुक्षौ सप्तसमुद्रं भुजगिरिशिखरं सप्तपातालपादं वेदं वक्त्रं षडङ्गं दशदिशिवसनं दिव्यलिङ्गं नमामि ॥ पाताले चान्तरिक्षे दशदिशिवदने सर्वशैले समुद्रे । भस्मे काष्ठे च लोष्ठे क्षिति जलपवने स्थावरे जङ्गमेवा ॥ बीजे सर्वौषधिनां असुरसुरपतौ पुष्पपत्रे तृणाग्रे । एको व्यापी शिवोऽहमिति वदति हरिर्नास्ति देवो द्वितीयः ॥ कण्ठे यस्य विराजते हि गरलं शीर्षै च मन्दाकिनी वामाङ्के गिरिजाननं कटितटे शार्दूलचर्माम्बरम् । माया यस्य रुणाद्धि विश्वमखिलं तस्मै नमः शम्भवे जम्बुवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत् ॥ शिवं शान्तं शुद्धं प्रकटमकलङ्कं श्रुतितनुं महेशानं शम्भुं सकलसुरसंसेव्यचरणम् । गिरीशं गौरीशं भवभयहरं निष्कलमजं महादेवं वन्दे प्रणत जनतापोपशमनम् ॥ गिरीशं गणेशं गले नीलवर्णं गजेन्द्राधिरूढं गुणातीतरूपम् । भवं भास्वरं भस्मना भूषिताङ्गं भवानी कलत्रं भजे पञ्चवक्त्रम् ॥ ३२ क्षमापना -- करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वाऽपराधम् । विहितमविहितं वा सर्वमेतत् क्षमस्व जय जय करुणाब्धे श्रीमहादेव शम्भो ॥