अक्षर आकार:

शिवभक्तिकल्पलतिकास्तोत्रम्

shivabhaktikalpalatikAstotram

शिवभक्तिकल्पलतिकास्तोत्रम्

श्रीगणेशाय नमः ॥ श्रीकान्तपद्मजमुखैर्हृदि चिन्तनीयं श्रीमत्क्व शङ्कर भगवच्चरणारविन्दम् । क्वाहं तदेतदुपसेवितुमीहमानो हा हन्त कस्य न भवाम्युपहासपात्रम् ॥ १॥ अद्राक्षमङ्घ्रिकमलं न तवेति यन्मे दुःखं यदप्यनवमृश्य दुरात्मतां स्वाम् । पादाम्बुजं तव दिदृक्ष इतीदृगागः पातोऽनले प्रतिकृतिर्गिरिशैतयोर्मे ॥ २॥ दौरात्म्यतो मम भवत्पददर्शनेच्छा मन्तुस्तथापि तव सा भजनात्मिकेति । स्यादीशितुर्मयि दयैव दयामकार्षी- रश्मादिभिः प्रहृतवत्सु न किं बिभो त्वम् ॥ ३॥ दुःखानलोदरनिपातनधूर्वदेष्वे- ष्वर्थाङ्गनासुतमुखेष्वनुराग आगाः । स्यात्ते रुषे तव दयालुतया त्वदान- त्याद्यैर्विभो तदवधूय बिभर्षि चास्मान् ॥ ४॥ ईशान रक्षितुमिमान्यदपेक्षसे त्वं नत्यादिकं तदपनेतुमतिप्रसङ्गम् । किं हीयते तदनुपाधिकृपालुता ते संवित्सुखस्य न हि ते प्रियमप्रियं वा ॥ ५॥ अप्याहर प्रहर संहर वाग्वदस्य त्रातास्युपात्तममुना मम नाम हीति । एवं विभो तनुभृतामवनेऽत्युपाया- न्वेषी कथं परमकारुणिकोऽसि न त्वम् ॥ ६॥ त्राता दयाजलनिधिः स्मृतिमात्रलभ्यः क्षन्तागसामिति भवद्यशसा हृतात्मा । स्वामस्मरन्बत मलीमसतामलज्जो भक्तिं भवत्यभिलषामि धिगस्तु यन्माम् ॥ ७॥ शर्माप्तिरार्तिविहतिश्च भवत्प्रसादं शम्भोर्विना न हि नृणां स च नान्तरा याम् । यस्यां विधिः श्वभुगपि क्षमते समं तां त्वद्भक्तिमिच्छतु न कः स्वविनाशभीरुः ॥ ८॥ भक्तिर्विभात्ययि महत्यपरं तु फल्ग्वि- त्येवं ग्रहो ननु भवत्कृपयैव लभ्यः । लब्धस्त्वसौ फलममुष्य लभे न किं वा तां हन्त ते तदयशो मम हृद्रुजा च ॥ ९॥ त्वद्भक्त्यसम्भवशुचं प्रतिकारशून्या- मन्तर्वहन्निखिलमीश सुखं च दुःखम् । उद्बन्धलग्न इव दुःस्वतयैव मन्ये सन्तान्यतीति मयि हन्त कदा दयेथाः ॥ १०॥ भक्तिं भवत्यविहितां वहतस्तु तद्वि- शेषोपलम्भविरहाहितमस्तु दुःखम् । तस्याः प्रतीपततिभिर्हतिजं कथं वा दुःखं सहे मयि कदेश कृपा भवेत्ते ॥ ११॥ लग्नः कृतान्तवदनेऽस्मि लभे च नाद्या- प्यच्छां रतिं त्वयि शिवेत्यवसीदतो मे । त्वद्विस्मृतिं कुविषयाभिरतिप्रचारै- स्तन्वन् हि मां हसपदं तनुषे ब्रुवे किम् ॥ १२॥ बद्धस्पृहं रुचिरकाञ्चनभूषणादौ बालं फलादिभिरिव त्वयि भक्तियोगे । आशाभराकुलमहो करुणानिधे मा- मर्थान्तरैर्हृतधियं कुरुषे किमेवम् ॥ १३॥ तिक्तग्रहोऽधि मधुरं मधुरग्रहोऽधि तिक्तं यथा भुजगदष्टतनोस्तथाहम् । त्वय्यस्तरक्तिरितरत्र तु गाढमग्नः शोच्योऽश्मनोऽपि हि भवामि किमन्यदीश ॥ १४॥ त्वत्संस्मृतित्वदभिधानसमीरणादि- सम्भावनास्पदममी मम सन्तु शोकाः । मा सन्तु च त्वदनुषक्तिमुषः प्रहर्षा मा त्वत्पुरःस्थितिपुषेश दृशानुपश्य ॥ १५॥ सम्पातनं ननु सुखेषु निपातनं वा दुःखेष्वथान्यदपि वा भवदेकतानम् । यत्कल्पयेर्ननु धिया शिव तद्विधेहि नावैम्यहं मम हितं शरणं गतस्त्वाम् ॥ १६॥ दुःखं प्रदित्सुरयि मे यदि न प्रदद्या दुःखापहं पुरहर त्वयि भक्तियोगम् । त्वद्भक्त्यलाभपरिचिन्तनसम्भवं मे दुःखं प्रदेहि तव कः पुनरत्र भारः ॥ १७॥ भक्त्या त्वयीश कति नाश्रुपरीतदृष्ट्या सञ्जातगद्गदगिरोत्पुलकाङ्गयष्ट्या । धन्याः पुनन्ति भुवनं मम सा न हीति दुःखेऽपि का नु तव दुर्लभता विधित्सा ॥ १८॥ त्वद्भक्तिरेव तदनवाप्तिशुगप्युदारा श्रीः सा च तावकजनाश्रयणे च लभ्या । उल्लङ्घ्य तावकजनान् हि तदर्थनाग- स्त्वय्याः सहस्व तदिदं भगवन्नमस्ते ॥ १९॥ सेवा त्वदाश्रयवतां प्रणयश्च तेषु सिध्येद्दृढो मम यथाऽऽशु तथा दयार्द्राम् । दृष्टिं तवार्पय मयीश दयाम्बुराशे मैवं विभो विमुखता मयि दीनबन्धो ॥ २०॥ गौरीसखं हिमकरप्रभमम्बुदाभं श्रीजानि वा शिववपुस्तव तज्जुषो ये । ते त्वां श्रिता वहसि मूर्घ्नि तदङ्घ्रिरेणुं तत्सेवनं मम कथं नु दयां विना ते ॥ २१॥ त्वद्भक्तिकल्पलतिकां कृपयार्पयेश मच्चित्तसीम्नि भवदीयकथासुधाभिः । तां वर्धय त्वदनुरागफलाढ्यमौलिं तन्मूल एव खलु मुक्तिफलं चकास्ति ॥ २२॥ निःस्वो धनागम इव त्वदुपाश्रितानां सन्दर्शने प्रमुदितस्त्वयि सान्द्रहार्दः । आलोकयन् जगदशेषमिदं भवन्तं कार्यस्त्वयेश कृपयाहमपास्तखेदः ॥ २३॥ यो भक्तिकल्पलतिकाभिधमिन्दुमौले- रेवं स्तवं पठति तस्य तदैव देवः । तुष्टः स्वभक्तिमखिलेष्टदुहं ददाति यां प्राप्य नारदमुखैरुपयाति साम्यम् ॥ २४॥ इति श्री श्रीधरवेङ्केटेशार्य कृतौ शिवभक्तिकल्पलतिकास्तोत्रं सम्पूर्णम् ॥