अक्षर आकार:

श्री श्रीधरवेङ्कटार्यकृतौ शिवभक्तलक्षणम्

shivabhaktalakShaNam by ShridharavenkatArya

श्री श्रीधरवेङ्कटार्यकृतौ शिवभक्तलक्षणम्

शिवाभ्यां नमः । अथ शिवभक्तलक्षणं प्रारम्भः । नाथ त्वदीयमभिधानमुपाश्रितानां क्रोधस्मरादिक कुवृत्तिपिशाचिकाभिः । आभिः कथं परिभवो भगवन्नमीषां अन्तर्निषीदति भवान् खलु शूलपाणिः ॥ १॥ दर्पस्मरप्रभृतिदावविदह्यमानं लोकं विलोक्य कृपयेश कृपां तवास्मिन् । वाञ्छन्ति यान्ति च मुदं वयमेतदापत् त्यक्ताः किलेति शरणीकृत तावकाख्याः ॥ २॥ कायस्य हेयनिधितां मृतिरुग्जरार्त्या- द्यानन्त्यमप्यलमवेत्य विमुक्तसर्वाः । शम्भो चरन्ति विरुजस्त्वयि बध्दभावाः ये सादरास्तव हि नाम्नि महानुभावाः ॥ ३॥ त्वन्नामकीर्तनवरौषधमाश्रितेऽस्मिन् अस्मै खलु स्मरहर स्वदसे त्वमेकः । अन्यत्तु किञ्चिदपि न स्वदते तदेतत् आखण्डलस्य पदमस्तु विधेः पदं वा ॥ ४॥ आकाङ्क्षितुं कमलजादिभिरप्यलभ्यं आप्तुञ्च तन्निरुपहत्यथ वर्तितुञ्च । सन्मौळिलाळनपदं पदमीश ते किं गौरीश ये त्वदभिधा नरतास्तदन्ये ॥ ५॥ एकं भवद्भजनमेव सुखं तदन्यत् आर्त्यात्मकं सकलमेतदिति प्रबोद्धुम् । स्थातुं च मुक्तसकलं भवदेकतानं ईशास्त एव शिव ये तव नाम्नि सक्ताः ॥ ६॥ दुःखात्मकत्वमखिलस्य तवातिवेला- नन्दात्मताञ्च समवेत्य झटित्यशेषम् । त्यक्त्वाऽनलार्त वपुषः सरसीव शम्भो त्वय्यापतन्ति समुपाश्रित तावकाख्याः ॥ ७॥ आख्यापरास्तव विभो भवदात्मकत्वं अस्याखिलस्य तव चित्सुखरूपताञ्च । आबुध्द्य बध्दहृदयास्तव शर्म विन्दन्त्यन्तः किमप्यगणित द्रुहिणादिभोगाः ॥ ८॥ द्वेष्य प्रियादि सकलं भवदीयरूपं बुध्द्वा त्वयि प्रणयतः प्रणयार्द्रदृष्ट्या । पश्यन्त एतदवलम्बित तावकाख्याः पश्यल्ललाट विचरन्ति जगत् पुनन्तः ॥ ९॥ रागादिकृद्विविधमेष महानटः खल्वानृत्यतीत्थमिति तत्वदृशेक्षमाणाः । क्षोभं न यान्ति दधते च मुदं स्मरन्तः त्वद्वैभवं त्वदभिधान निबद्धभावाः ॥ १०॥ शम्भो कथं नु चतुरास्तव नाम्नि सक्ताः शश्वत्कृतेऽप्यपद एव पराभवेऽन्यैः । अस्तोद्यमाः प्रतिकृतावपयात्वमीषामेषा कदाऽऽर्तिरिति तेषु दयां वहन्ति ॥ ११॥ त्वन्नामधेयसिकास्तरुणेन्दुमौळे दुःखं न यान्ति किमपीति हि वादमात्रम् । तेऽमी किल स्वविपदीव वहन्ति दुःखं दृग्गोचरं व्रजति दुःखिनि जन्तुमात्रे ॥ १२॥ सर्वत्र वत्सलतया त्वदवेक्षया चो- दारा महान्त इति धीनिगळेन मुक्ताः । प्रेम्णा खलु त्वयि विभो तृणिताखिलार्थाः त्वन्नामधेयरसिकाः कृतिनो जयन्ति ॥ १३॥ नाथ त्वदीक्षणवशादखिलेष्वमीषु न क्वाप्यगौरवदृगात्मनि तु प्रकामम् । नैच्यग्रहस्त्वयि तु रक्तिरनर्गळेति क्वाधीतवन्त इदमादृत तावकाख्याः ॥ १४॥ अत्युन्नतिं वितरतीति यथोऽतिवेलं अस्याश्चकास्ति शिव तावकनाम्नि सक्तेः । आख्यायतां किमियमातनुते नितान्तं आनम्रमेतमखिलेषु चराचरेषु ॥ १५॥ त्वन्नामकीर्तनजुषोऽनिशमेकतानाः त्वत्सेवनं विदधतोऽपि न तत्र तृप्तिम् । विन्दन्ति हन्त सति विघ्नलवे भवन्ति वह्निप्रवेश इव दुस्सहतापभाजः ॥ १६॥ अस्तस्पृहं मुनिमहं समदर्शनं स- मन्वेमि तच्चरणपद्मरजोभिलाषात् । इत्यादि ताक्कगिरां गिरिशास्पदं त्वत् आख्यापराः पुनरमूनवितुं क्षमः कः ॥ १७॥ त्वत्सौहृदादि सुगुणामृतशीतळास्त्वत् आख्यापरा इति तवेश यशोऽभिगोप्तुम् । अस्मानपि त्वदभिधान जुषो जुषस्व स्वच्छं यशस्तदपदे ननु माऽपनैषीः ॥ १८॥ क्रोधस्मराद्युपशमं त्वयि रागिताञ्च देहीश मे न यदि मे श्वमुखेभ्य एभ्यः । किं भेदकं त्वदभिधां मम गृह्णतोऽस्य फल्गुस्थितिस्त्वदयशोभरहेतुरेषा ॥ १९॥ त्वन्नामकीर्तन सुधारसधारयाऽस्त- विच्छेदया भृशविश्रृङ्खलसौहितीकः । वेद्यान्तराण्यकलयन् विचराणि सोऽहं शान्तः कदा शशिवतंस तव प्रसादात् ॥ २०॥ मत्प्राणवल्ल्भ मदीयनिधे मदात्मन् साम्ब प्रभो शिव शशाङ्कविभूषणेति । त्वन्नामदीव्यदमृतोदधिवीचिडोळा- न्दोळैर्विधेहि विरुजं कृपया विभो माम् ॥ २१॥ इति श्री श्रीधरवेङ्कटेशार्य कृतिषु शिवभक्तलक्षणं सम्पूर्णम् ।