अक्षर आकार:

श्रीशिवाष्टोत्तरशतनामस्तोत्रम्

shrI shivAShTottarashatanAma stotram

श्रीशिवाष्टोत्तरशतनामस्तोत्रम्

नारायण उवाच । अस्ति गुह्यतमं गौरि नाम्नामष्टोत्तरं शतम् । शम्भोरहं प्रवक्ष्यामि पठतां शीघ्रकामदम् ॥ ॐ अस्य श्रीशिवाष्टोत्तरशतनामस्तोत्रमन्त्रस्य नारायणऋषिः । अनुष्टुप्छन्दः । श्रीसदाशिवो देवता । गौरी उमा शक्तिः । श्रीसाम्बसदाशिवप्रीत्यर्थे जपे विनियोगः ॥ अथ ध्यानम् - शान्ताकारं शिखरिशयनं नीलकण्ठं सुरेशं विश्वधारं स्फटिकसदृशं शुभ्रवर्णं शुभाङ्गम् । गौरीकान्तं त्रितयनयनं योगिभिर्ध्यानगम्यं वन्दे शम्भुं भवभयहरं सर्वलोकैकनाथम् ॥ शिवो महेश्वरश्शम्भुः पिनाकी शशिशेखरः । वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥ १॥ शङ्करश्शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः । शिपिविष्टोऽम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ॥ २॥ भवश्शर्वस्त्रिलोकेशश्शितिकण्ठश्शिवाप्रियः । उग्रः कपाली कामारिः अन्धकासुरसूदनः ॥ ३॥ गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः । भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥ ४॥ कैलासवासी कवची कठोरस्त्रिपुरान्तकः । वृषाङ्को वृषभारूढो भस्मोद्धूलितविग्रहः ॥ ५॥ सामप्रियस्स्वरमयस्त्रयीमूर्तिरनीश्वरः । सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥ ६॥ हविर्यज्ञमयस्सोमः पञ्चवक्त्रस्सदाशिवः । विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ॥ ७॥ हिरण्यरेता दुर्धर्षः गिरीशो गिरिशोऽनघः । भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः ॥ ८॥ कृत्तिवासा पुरारातिर्भगवान् प्रमथाधिपः । मृत्युञ्जयस्सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥ ९॥ व्योमकेशो महासेनजनकश्चारुविक्रमः । रुद्रो भूतपतिः स्थाणुरहिर्भुध्न्यो दिगम्बरः ॥ १०॥ अष्टमूर्तिरनेकात्मा सात्त्विकश्शुद्धविग्रहः । शाश्वतः खण्डपरशुरजः पाशविमोचकः ॥ ११॥ मृडः पशुपतिर्देवो महादेवोऽव्ययो हरिः । भगनेत्रभिदव्यक्तो दक्षाध्वरहरो हरः ॥ १२॥ पूषादन्तभिदव्यग्रो सहस्राक्षस्सहस्रपात् । अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥ १३॥ फलश्रुतिः । एतदष्टोत्तरं नाम्नां शतमाम्नायसंमितं । शङ्करस्य प्रिया गौरी जप्त्वा शम्भुप्रसाददम् ॥ १॥ त्रैकाल्यमन्वहं देवी वर्षमेकं प्रयत्नतः । अवाप सा शरीरार्धं प्रसादाच्छूलपाणिनः ॥ २॥ यस्त्रिसन्ध्यं पठेन्नित्यं नाम्नामष्टोत्तरं शतम् । शतरुद्रत्रिरावृत्या यत्फलं लभते नरः ॥ ३॥ तत्फलं प्राप्नुयान्नित्यमेकावृत्त्या नसंशयः । सकृद्वा नामभिः पूज्य कुलकोटिं समुद्धरेत् ॥ ४॥ बिल्वपत्रैः प्रशस्तैश्च पुष्पैश्च तुलसीदलैः । तिलाक्षतैर्यजेद्यस्तु जीवन्मुक्तो न संशयः ॥ ५॥ इति श्रीशिवाष्टोत्तरशतनामस्त्रोत्रं समाप्तम् ॥ From Shiva Rahasya Khanda of Sankara Samhita of Skanda Puranam (Gauri-Narayana Samvada).