अक्षर आकार:

श्रीशिवसुप्रभातम्

shiva-suprabhatam

श्रीशिवसुप्रभातम्

स्नात्वाजले शीतलितान्तरङ्गाः स्पृष्ट्वाचा पुष्पाणिसुवासिताङ्गाः । द्विजन्ति प्रभात्त मरुत्तरङ्गाः उत्तिष्ठशम्भो तव सुप्रभातम् ॥ नन्दीश्वराम्भानिनदम्मनोज्ञं वर्शाब्दगर्ज्यां इव मन्य मानः । केकीकुमारस्य करोतिऽमृतं उत्तिष्ठशम्भो तव सुप्रभातम् ॥ लोकैकबन्धुं प्रसविश्यतीति प्राचींसमर्च्यान्जलिबद्ध हस्तैः । स्तोतुं भवन्तं मुनयः प्रवृत्ताः उत्तिष्ठशम्भो तव सुप्रभातम् ॥ ब्रह्मादिदेवोदित वेद मन्त्रैः दिग्पालभूषा मणिराणिनादैः । कोलाहलोद्वारिच सम्प्रभूतः उत्तिष्ठशम्भो तव सुप्रभातम् ॥ आभातिशैलोपरिलम्बमाना मेघालिरेषागजचर्मनीला । नित्येवशाटीहरिनात्वदर्थं उत्तिष्ठशम्भो तव सुप्रभातम् ॥ प्राथ्यासमन्तात् प्रविकीर्यमाणैः लिप्तोत्यलोकः शितकान्तिपुञ्जैः । धत्तेत्वदीयां रुचिराङ्गशोभां उत्तिष्ठशम्भो तव सुप्रभातम् ॥