अक्षर आकार:

श्रीशिव आरती

shiva AratI

श्रीशिव आरती

सर्वेशं परमेशं श्रीपार्वतीशं वन्देऽहं विश्वेशं श्रीपन्नगेशम् । श्रीसाम्बं शम्भुं शिवं त्रैलोक्यपूज्यं वन्देऽहं त्रैनेत्रं श्रीकंठमीशम् ॥ १॥ भस्माम्बरधरमीशं सुरपारिजातं बिल्वार्चितपदयुगलं सोमं सोमेशम् । जगदालयपरिशोभितदेवं परमात्मं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ २॥ कैलासप्रियवासं करुणाकरमीशं कात्यायनीविलसितप्रियवामभागम् । प्रणवार्चितमात्मार्चितं संसेवितरूपं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ ३॥ मन्मथनिजमददहनं दाक्षायनीशं निर्गुणगुणसंभरितं कैवल्यपुरुषम् । भक्तानुग्रहविग्रहमानन्दजैकं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ ४॥ सुरगंगासम्प्लावितपावननिजशिखरं समभूषितशशिबिम्बं जटाधरं देवम् । निरतोज्ज्वलदावानलनयनफालभागं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ ५॥ शशिसूर्यनेत्रद्वयमाराध्यपुरुषं सुरकिन्नरपन्नगमयमीशं संकाशम् । शरवणभवसम्पूजितनिजपादपद्मं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ ६॥ श्रीशैलपुरवासं ईशं मल्लीशं श्रीकालहस्तीशं स्वर्णमुखीवासम् । काञ्चीपुरमीशं श्रीकामाक्षीतेजं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ ७॥ त्रिपुरान्तकमीशं अरुणाचलेशं दक्षिणामूर्तिं गुरुं लोकपूज्यम् । चिदम्बरपुरवासं पञ्चलिंगमूर्तिं वन्देऽहं शिवशङ्करमीशं देवेशम् ॥ ८॥ ज्योतिर्मयशुभलिंगं सङ्ख्यात्रयनाट्यं त्रयीवेद्यमाद्यं पञ्चाननमीशम् । वेदाद्भुतगात्रं वेदार्णवजनितं वेदाग्रं विश्वाग्रं श्रीविश्वनाथम् ॥ ९॥ Proofreading support by Avinash Sathaye and Sunder Hattangadi