अक्षर आकार:

शिवाष्टनामानि

Eight Names of Shiva

शिवाष्टनामानि

शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः । संसारवैद्यः सर्वज्ञः परमात्मेति चाष्टकम् ॥ शिवाय नमः । महेश्वराय । रुद्राय । विष्णवे । पितामहाय । संसारवैद्याय । सर्वज्ञाय । परमात्मने नमः । शर्वाय क्षितिमूर्तये नमः । भवाय जलमूर्तये नमः । रुद्राय तेजोमूर्तये नमः । उग्राय वायुमूर्तये नमः । भीमाय आकाशमूर्तये नमः । पशुपतये यजमानमूर्तये नमः । ईशानाय सूर्यमूर्तये नमः । महादेवाय सोममूर्तये नमः । सर्वज्ञाय नमः । उग्राय । शङ्कराय । शिवाय । शम्भवे । ईशानाय । महोग्राय । भूताधिपतये नमः । इति शिवाष्टनामानि समाप्ता ।