अक्षर आकार:

श्रीशिवाष्टमूर्तिस्तोत्रम्

Shri shivAShTamUrtistotram

श्रीशिवाष्टमूर्तिस्तोत्रम्

ॐ तत्सदित्यमलधीभिरधीयमान- मानन्दकन्दमवबोधमसद्विविक्तम् । यं ग्राहयन्ति निगमागमशासनानि प्रत्यक्तया तमगजापतिमाश्रयामः ॥ १॥ ॐ भूर्भुवःस्वरिति तत्सवितुर्वरेण्यं ध्यायेम मन्मथरिपोर्धिषणाः क्रियासु । यन्नः प्रचोदयति भर्ग ऋगादिभिस्त- द्गीतस्य शम्भुशिवरुद्रमुखैः पदौघैः ॥ २॥ यस्मादिदं जगदशेषविशेषहीना- ज्जातं भुजङ्गम इव प्रतिभाति रज्ज्वाम् । यस्मिन्विनश्यदखिलं न खिलं यमेति हंसं नुमस्तममलं मुनिमानसानाम् ॥ ३॥ ब्रह्माच्युतादिमुकुटव्यतिषक्तपुष्प- मालाविलासरसतुन्दिलितारुणश्रीः । भूयान्मृगाङ्ककलिकाललितावतंस- पादाब्जरेणुरभिवाञ्छितसिद्धये नः ॥ ४॥ आमोदितो दितिजनाथशिरःप्रसूनै- र्देवेन्द्रमौलिसुमनोमकरन्दपीनः । बुद्‍ध्या युनक्तु शुभया भवतापहारी मुग्धेन्दुमौलिचरणाम्बुजरेणुरस्मान् ॥ ५॥ आह्लादकत्वमपि चिन्तनतोऽधिगन्तुं शीतांशुरग्निरखिलाशनदोषहानिम् । हार्दान्धकारपरिहारपटुत्वमर्को यं सेवते नयनभावगतस्तमीडे ॥ ६॥ जूटेऽपगां शिरसि चन्द्रकलां कृशानुं भानुं सुधांशुमधिदृष्ट्यधरे स्मितं च । कण्ठे विषं हृदि कृपाममृतं करे च कृत्तिं कटौ मृगपतेरगराजपुत्रीम् ॥ ७॥ अङ्के शिरांस्यपि मनांसि पदाब्जयुग्मे देवासुरेशयमिनां भसितं सितं च । भूषाविधौ च भुजगान्भवमादधानं ज्योत्स्नाब्धिफेनघटितामिव मूर्तिमीडे ॥ ८॥ रङ्गःस्थलीश पुरुषार्थचतुष्टयस्य रक्षास्पदं कृतलयस्खलितामराणाम् । पुष्णाति मातृवदशेषजनानसौ या सर्वंसहा विजयते तव मूर्तिरेषा ॥ ९॥ आप्यायिनी तनुभृतां मलनाशिनी च धात्रीव नाकफलकर्मनिदानमेकम् । येयं त्रिलोकसुखदा विविधात्मना सा मूर्तिर्विभो विजयते तव जीवनाख्या ॥ १०॥ आधाय वेदविधिना शिव पञ्चधा यां प्रीणन्ति दानवरिपून् कृतिनो वितानैः । कर्त्री लयस्य जगतामपि पालनस्य सा ते तनुर्विजयते हुतभुक्स्वरूपा ॥ ११॥ यां जीवनौषधमिमां पवनाभिधानां त्यक्त्वा न जीवितुमपि क्षणमेकमीष्टे । कोऽपीह गन्तुमपरत्र च लोकयात्रा- नेत्री तनुर्विजयते तव सा महेश ॥ १२॥ आधारमीश गणनातिगताण्डकानां सीम्नामभूमिरखिलान्तरबाह्यलीना । मीना इवान्तरुदकं भुवनानि यस्या- माभान्ति सा विजयते तनुरम्बरं ते ॥ १३॥ उच्चावचासु तनुषु प्रविशन्सुखैको नानाविधः स्फुरति यः पुरुषोऽविवेकात् । मुक्तोऽपि बद्ध इव भाति च सच्चिदात्मा सा ते तनुर्विजयते जगदेकबन्धो ॥ १४॥ ह्लादं तनोति कुरुते तमसो विनाशं तापं धुनोति विबुधानपि चौषधीर्या । पुष्णाति सा त्रिभुवनाभरणोज्ज्वलश्री- रीशान ते विजयतेऽमृतभानुमूर्तिः ॥ १५॥ या स्तूयते श्रुतिभिरीश तनूरशेष- लोकप्रवृत्तिजननी तिमिरं धुनाना । देवैः कृताञ्जलिपुटैर्मुनिभिश्च सा ते नित्यं नुता विजयते तपनाभिधाना ॥ १६॥ अष्टाभिराभिरशरीर तनूभिरस्मां- स्त्रायस्व लोकधिषणातिगतप्रभाव । बन्धुर्न कोऽपि भवदुःखशतार्दितानां कारुण्यमङ्गलगृहाद्भवतः परोऽस्ति ॥ १७॥ आर्ता वयं भव भवप्रभवामयैस्त्वं चार्तार्तिनाशनमखे खलु दीक्षितोऽतः । अर्थामहे निहतकाम निकाममेत- द्बाधौघबाधनविधौ कुरु मावहेलाम् ॥ १८॥ संसारवाडवशिखापरिलीढगात्रा- न्पात्रान्सुधारसभराकुलदृक्छटानाम् । त्वं चेदकारणकृपाकुलवासभूमि- र्भूमञ्जहासि बत कं कृपणाः श्रयन्तु ॥ १९॥ संसारसागरभयङ्करगोधिकानां चेञ्त्रायसे बत न मां कवलीभवन्तम् । ब्रूयान्न कः कृपणशोकविमोककारि- न्कारुण्यमस्तमगमत्किल निर्निमित्तम् ॥ २०॥ शम्भो सुधाकरकलाकलितावतंस स्थाणो सुधाशनसरिल्ललितावचूड । श्रीकण्ठ कातरमनाथमनाथबन्धो त्रायस्व शोकदलितं करुणाम्बुधे माम् ॥ २१॥ स्वर्गापगाच्छुरितशीतमयूखभानु- वर्धिष्णुगौररुचिरञ्जितरम्यमूर्तिः । भूयादनङ्गदमनो दमनो रिपूणां नालिङ्गितार्थकरुणावरुणालयो नः ॥ २२॥ गङ्गगधरा शशिकलाललिता त्रिनेत्रा नीला गले करतलेऽमृतकुम्भभर्त्री । कर्पूरपूरघटितेव पुनातु काचि- त्सौभाग्यसम्पदतुला गिरिराजपुत्र्याः ॥ २३॥ क्षीराब्धिफेनशरदिन्दुसुधावदात कृत्या भवाति न कदापि भवामयानाम् । यस्मात्कृपारसमवाप्य भुवः स विज्ञः पीयूषपाणिरवताद्भिषजां वरेण्यः ॥ २४॥ येनाक्रियन्त भुवनानि विचित्रभोग- योगाभिरामविषमाणि कपालयुग्मे । कीर्णानि नाकिनरनागमुखैः स नोऽव्या- द्ब्रह्माण्डभाण्डघटनाचतुरः कुलालः ॥ २५॥ ससारदुर्जरपटं त्रिभिरेव तेने चित्रं गुणैरपगताखिलतर्कचर्चाम् । बिभ्रच्चमत्कृतिकरीं रचनामसौ यः पायान्मृगाङ्कमुकुटः प्रथमः कुविन्दः ॥ २६॥ आह्लादिनो विजयिनः शमिनोऽपि चार्ता- न्क्रूरान्विधाय नटयन्नृसुरादिपात्रान् । यो मोदते स सुखयत्वनपेक्षकोऽस्मा- न्ब्रह्माण्डनाटकमहामतिसूत्रधारः ॥ २७॥ पापं दृशा शासितकामकालया तापं सुधासूतिमरीचिमालया । मोहान्धकारं निशितांशुजालया नाशं नयोमेश्वर मे विशालया ॥ २८॥ जटास्खलद्देवनदीतरङ्गैऽ- र्भालेन्दुरश्मिच्छुरितैः सदा नः । सुरासुराराधितपादपद्मः श्रीशङ्करस्तापमपाकरोतु ॥ २९॥ स्तोत्रं महेशचरणप्रवणप्रबोधा- नन्देन निर्मितमिदं यमिना नराणाम् । एणाङ्कखण्डशिखराङ्घ्रिसरोजचिन्ता- सन्तानपूतमनसां तनुतां प्रमोदम् ॥ ३०॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्वामिप्रकाशानन्दपुरीविरचितं शिवाष्टमूर्तिस्तोत्रं सम्पूर्णम् ॥