अक्षर आकार:

शिवाष्टकम् ४

shivAShTakam 4

शिवाष्टकम् ४

जय शङ्कर शान्त शशाङ्करुचे रुचितार्थद सर्वद सर्वरुचे । शुचिदत्तगृहीतमहोपहृते हृतभक्तजनोद्धततापतते ॥ १॥ ततसर्वहृदम्बरवरदनुते नतवृजिनमहावनदाहकृते । कृतविविधचरित्रतनो सुतनो तनु विशिखविशोषणधैर्यनिधे ॥ २॥ निधनादिविवर्जितकृतनतिकृत्कृतविहितमनोरथपन्नगभृत् । नगभर्तृसुतार्पितवामवपुः स्ववपुःपरिपूरितसर्वजगत् ॥ ३॥ त्रिजगन्मयरूप विरूपसुदृगृगुदञ्चनकिञ्चनकृद्धुतभुक् । भवभूतपते प्रमथैकपते पतितेष्वतिदत्तकरप्रसृते ॥ ४॥ प्रसृताखिलभूतलसंवरणप्रणवध्वनिसौधसुधांशुधर । गिरिराजकुमारिकया परया परितः परितुष्ट नतोऽस्मि शिव ॥ ५॥ शिव देव महेश गिरीश विभो विभवप्रद शर्व शिवेश मृड । मृडयोडुपतीध्रजगत्त्रितयं कृतयन्त्रण भक्तिविघातकृताम् ॥ ६॥ न कृतान्तत एष बिभेमि हर प्रहराशु ममाघममोघमते । न मतान्तरमन्यमवैमि शिवं शिवपादनतेः प्रणतोऽस्मि ततः ॥ ७॥ विततेऽत्र जगत्यखिलाघहरं परितोषणमेव परं गुणवत् । गुणहीनमहीनमहावलयं लयपावकमीश नतोऽस्मि ततः ॥ ८॥ इति स्तुत्वा महादेवं विररामाङ्गिरःसुतः । व्यतरच्च महादेवः स्तुत्या तुष्टो वरान् बहून् ॥ ९॥ इति शिवाष्टकं समाप्तम् ॥