अक्षर आकार:

शशाङ्कमौलीश्वरस्तोत्रम्

shashA~NkamaulIshvarastotram

शशाङ्कमौलीश्वरस्तोत्रम्

श्रीगणेशाय नमः ॥ माङ्गल्यदाननिरत प्रणमज्जनानां मान्धातृमुख्यधरणीपति चिन्तिताङ्घ्रे मान्धान्तकारविनिवारणचण्डभानो मां पाहि वीरगुरुभूत शशाङ्कमौले ॥ १॥ मां प्राप्नुयदखिलसौख्यकरी सुधीश्च माकन्दतुल्यकविता सकलाः कलाश्च । क्वाचित्कमत्पदसरोजनतेर्हि स त्वं मां पाहि धीरगुरुभूत शशाङ्कमौले ॥ २॥ मातङ्गकृत्तिवसन प्रणतार्तिहारिन्- मायासरित्पतितशोषणावाहवाग्ने । मानोन्नतिप्रद निजाङ्घ्रिजुषां नराणाम् मां पाहि वीरगुरुभूत शशाङ्कमौले ॥ ३॥ इति शशाङ्कमौलीश्वरस्तोत्रं सम्पूर्णम् ॥