अक्षर आकार:

श्रीशरभेश्वरकवचम्

Shri Sharabheshvara Kavacham

श्रीशरभेश्वरकवचम्

ॐ श्रीगणेशाय नमः । शिवोवाच - वक्ष्यामि श‍ृणु ते देवि सर्वरक्षणमद्भुतम् । शारभं कवचं नाम चतुर्वर्गफलप्रदम् ॥ १॥ शरभश्रीसालुवपक्षिराजाख्यकवचस्य तु । सदाशिवः ऋषिश्छन्दो बृहती शरभेश्वरः ॥ २॥ देवता प्रणवं बीजं प्रकृतिः शक्तिरुच्यते । चतुर्वर्गार्थसिध्यर्थे विनियोगोऽथ भावना ॥ ३॥ रक्ताभं सुप्रसन्नं त्रिणयनममृतोन्मत्तभाषाभिरामं कारुण्याम्भोधिमीशं शरभमभयदं चन्द्ररेखावतंसम् । शङ्खध्वानाखिलाशाप्रतिहतविधिना भासमानात्मभावं सर्वेशं सालुवेशं प्रणतभयहरं पक्षिराजं नमामि ॥ ४॥ मानसपूजा --- ॐ श्रीशिवः पुरतः पातु मायाधीशस्तु पृष्ठतः । पिनाकी दक्षिणं पातु वामपार्श्वं महेश्वरः ॥ ५॥ शिखाग्नं पातु मे शम्भुर्निटिलं पातु शङ्करः । ईश्वरो वदनं पातु भ्रुवोर्मध्यं पुरान्तकः ॥ ६॥ भ्रुवौ पातु मम स्थाणुः कपर्दी पातु लोचने । शर्वो मे श्रोत्रके पातु वागीशः पातु लम्बिकाम् ॥ ७॥ नासिक मे वृषारूढो नासाग्रे वृषभध्वजः । स्मरारिः पातु मे तालू चोष्ठयोर्भक्तवत्सलः ॥ ८॥ पातु मृत्युञ्जयो दन्तांश्चबुकं पातु भूतराट् । परमेशः कपोलौ मे त्रिकं पातु कपालभृत् ॥ ९॥ कण्ठं पशुपतिः पातु शूली पातु हनू मम । स्कन्धद्वयं हरः पातु धूर्जटिः पातु मे भुजौ ॥ १०॥ भुजसन्धिं महादेवः ईशानो मे प्रकूर्परम् । मध्यसन्धिं जगन्नाथः प्रकोष्ठे चन्द्रशेखरः ॥ ११॥ मणि बन्धे त्रिणेत्रो मे भीमः पातु करस्थले । करपृष्ठे मृडः पातु रुद्रोऽङ्गुष्ठद्वयं मम ॥ १२॥ उमासहायस्तर्जन्यौ भर्गो मे पातु मध्यमे । अनामिके करालास्यः कालकण्ठः कनिष्ठिके ॥ १३॥ गङ्गाधरोऽङगुलीपर्वाण्यप्रमेयो नखानि मे । वक्षस्तत्पुरुषः पातु कक्षे दक्षाध्वरान्तकः ॥ १४॥ अघोरो हृदयं पातु वामदेवः स्तनद्वयम् । फालदृक् जठरं पातु नाभिं नारायणोऽव्ययः ॥ १५॥ गुह्यं प्रजाकरः पातु कुक्षिपार्श्वे महाबलः । सुद्योजातः कटिं पातु पृष्ठभागं तु भैरवः ॥ १६॥ मोहनो जघनं पातु गुदं मम जितेन्द्रियः । ऊरूयुगं हरः पातु जानुयुग्मं भवान्तकः ॥ १७॥ हुङ्कारः पातु मे जङ्घे फट्कारो मम गुल्फके । खट्कारः पादपृष्ठे मे वषट्कारोऽङ्घ्रिणोस्तले ॥ १८॥ स्वहाकारोऽङ्गुलीपार्श्वं स्वधाकारोऽङगुलीर्मम । त्वरितः सन्धिबन्धं मे रोमकूपाणि सिह्मजित् ॥ १९॥ त्वचः पातु मनोवेगः कालजित् रुधिरं मम । पुष्टिदः पातु मे मांसं मेदो मे स्वस्तिदोऽवतु ॥ २०॥ सर्वात्माऽस्थिचयं पातु मज्जां मम जगत्प्रभुः । शुक्लं बुद्धिकरः पातु बुद्धिं वाचामधीश्वरः ॥ २१॥ मूलाधाराम्बुजं पातु भगवान् शरभेश्वरः । स्वाधिष्ठानमजः पातु मणिपूरं हरिप्रियः ॥ २२॥ अनाहतं सालुवेशो विशुद्धिं जीवनायकः । सर्वज्ञानप्रदो देवो ललाटं मे सदाशिवः ॥ २३॥ ब्रह्मरन्ध्रं महादेवः पक्षिराजोऽखिलात्मवान् । सर्वलोकवशीकारः पातु मां परगर्वजित् ॥ २४॥ वज्रमुष्टठिवराभीतिहस्तः कालागिसन्निभः । विजयासहितः पातु चैन्द्रीं ककुभमग्निजित् ॥ २५॥ शक्तिशूलकपालासिहस्तः सौदामिनीप्रभः । जयायुतो महाभीमः पातु वैश्वानरीं दिशम् ॥ २६॥ दण्डासिमुसली सीरपाशाङ्कुशकराम्बुजः । कमान्तकोऽजितायुक्तः दिशं याम्यां सदाऽवतु ॥ २७॥ खड्गखेटाग्निपरशुहस्तः शत्रुविमर्दनः । अपराजितया युक्तः सदाव्यान्नैरृतीं दिशम् ॥ २८॥ पाशाङ्कुशधनुर्बाणपाणिर्घोणीयुतोऽग्रगः । हरिद्राभोऽनिशं पायाद्वारुणीं दिशमात्मजित् ॥ २९॥ ध्वजछत्रगदाकुन्तभुजो दुर्गायुतोऽव्ययः । चण्डवेगः शिवः पातु सततं मारुतीं दिशम् ॥ ३०॥ गदाक्षस्रग्वराभीतिकराम्भोजः श्रिया युतः । कनकाभो महातेजाः पातु कौबेरकीं दिशम् ॥ ३१॥ त्रिशूलाहिकपालाग्निदोस्तलो विद्यया युतः । भस्मोद्धूलितसर्वाङ्गो दिशं पातु शिवप्रियाम् ॥ ३२॥ जपस्रक्पुस्तकाम्भोजकमण्डलुकराम्बुजः । ऊर्ध्वं पातु गिरा युक्तः सर्वभूतहिते रतः ॥ ३३॥ शङ्खचक्रगदाऽभीतिहस्तः पद्मायुतोऽव्ययः । नीलाञ्जनसमो नीलः पातालं पात्वनारतम् ॥ ३४॥ अनुक्ता विदिशः पातु साळवो नारसिह्मजित् । शरभः पातु सङ्ग्रामे युद्धे वैरिकुलान्तकः ॥ ३५॥ सर्वसौभाग्यदः पातु जाग्रत्स्वप्नसुषुप्तिषु । सर्वसम्पत्प्रदः पातु धनधान्यादिकं मम ॥ ३६॥ सन्तानदः सुतान् पातु पुत्रानायुष्करोऽनिशम् । बन्धून् वृद्धिकरः पातु गृहं सर्ववशङ्करः ॥ ३७॥ ग्रामं ग्रामेश्वरः पातु राज्यं पातु दिगम्बरः । राष्ट्रं शान्तिकरः पातु राजानं धर्मशासकः ॥ ३८॥ मार्गं दुष्टहरः पातु धर्मं कर्माणि भैरवः । बटुकः पातु मे सर्वं व्यवस्थासु भयेषु च ॥ ३९॥ साधकः प्रणवं ध्यायन् ज्वलद्द्विः प्रज्ज्वलद्वयम् । प्रत्यावृत्ति चतुर्थ्यन्तं रक्ष रक्षेति चोच्चरेत् ॥ ४०॥ स्पर्शं स्पर्शं जपं कृत्वा प्रतिस्थानं समाहितः । प्रार्थयेदखिलं स्वेष्टं हृदिस्थं साळुवेश्वरम् ॥ ४१॥ ये ग्रामघातकाः क्रूराः कपटा दुर्मदा ग्रहाः । तस्कराः शत्रवः क्रुद्धा वधूसक्ताः पलाशनाः ॥ ४२॥ छयाचाराः विटा भ्रष्टाः दिवाचर-निशाचराः । ते सर्वे पक्षिराजस्य पक्षवातवराहतः ॥ ४३॥ स्त्रीबालसहिताः क्षिप्रं पितृमातृकुलान्विताः । भग्नचित्ता जगस्थाना यान्तु देशातरं स्वयम् ॥ ४४॥ ये तु दुष्टाहा यक्षाः पिशाचा देवयोनयः । चतुष्षष्टीगणा दुष्टाः सप्तत्युन्मत्तका ग्रहः ॥ ४५॥ अष्टाशीतिमहाभूताः सप्तकोटिमहाग्रहाः । नवतिज्वरभेदाश्च शतभेदाश्च कृत्रिमाः ॥ ४६॥ पञ्चाशद् गणनाथाश्च नियुता कृतिमा ग्रहाः । प्रेतारूढास्त्रयस्त्रिशत्पिण्डदानपरायणाः ॥ ४७॥ अयुताः क्षुद्रभेदाश्च चत्वारिंशच्छिवावयाः । द्वात्रिंशद्वह्निवक्त्राश्च विंशत्मार्जारवक्तकाः ॥ ४८॥ चतुष्षष्टयानुरूपाश्च ये चान्ये क्षुद्रयोनयः । ते सर्व साळवेशस्य शङ्खनिस्वानमोहिताः ॥ ४९॥ विषाणाः स्खलितस्वान्ताः प्राणताणपरायणाः । गच्छन्त्वसत्प्रयोक्तारो देशान्तरमनिच्छाया ॥ ५०॥ ये च मूषिकमार्जारशुनका रोगवृश्चिकाः । आशीविषशितव्याला व्याघ्रऋक्षाहिसूकराः ॥ ५१॥ गृध्राः श्येनाः खगाः काकदंशका भृशका ग्रहाः । एते शरभहस्ताग्रनखक्षतविमोक्षकाः स्रवद्रक्तच्छटासिक्ताः शिलातलनिताडिताः ॥ ५४॥ सम्भिन्नतनवः शीघ्रं नश्यन्त्वखिलदुश्चरः । न दशन्तुरगाः क्वापि नातिवातोऽपि धातु च ॥ ५३॥ न दहत्वसहो वह्निर्नायान्त्वापोऽपि चाधिकम् । न वर्षत्वतिवृष्टिश्च न पतत्व शनिः क्वचित् ॥ ५४॥ नाक्रामत्वपमृत्युश्च नाप्युत्पातभयं क्वचित् । नापमृत्युर्भवेत्कुत्राप्यशुभं न क्वचिद्भवेत् ॥ ५५॥ न बदन्त्वसहं वाक्यं जन्तवो मम देशिक । नास्तु वैरं च जन्तूनां अन्योन्यं राज्यके मम ॥ ५६॥ भवन्तु सुखिनः सर्वे सर्वाः सन्तु पतिव्रताः । सर्वाः सूयन्तु सत्पुत्रान् पुत्रीश्च शुभलक्षणाः ॥ ५७॥ सर्वे देवाश्च नन्दन्तु सन्तु कल्याणकारणाः । राजन्वती मही चास्तु राजा भवतु धार्भिकः ॥ ५८॥ संस्त्रवन्तु पयो गावः फलन्त्वोषधयोऽधिकम् । भवन्तु फलदा वृक्षाः वृद्धिर्भवतु मेऽखिला ॥ ५९॥ ममास्तु तरसा नूनमात्मज्ञानमचञ्चलम् । कामक्रोधमहालोभसमदा मोहमत्सराः ॥ ६०॥ नाक्रामेयुश्च सर्वेश भगवन् करुणानिधे ॥ ६१॥ गौरीवल्लभ कामारे कालकूटविषाशन । मामुद्धरापदम्भोधेस्त्रिपुरघ्नान्तकान्तक ॥ ६२॥ साळवेश जगन्नाथ सर्वभूतहिते रत । त्राहि मां तरसा घोरान्दुष्टान्नाशय नाशय ॥ ६३॥ कालभैरव विश्वेश विश्वरक्षापरायण । रक्ष मूषिकचोरेभ्यो धान्यराशिं च मे विभो ॥ ६४॥ पक्षिराज महादेव प्रणतार्तिविनाशन । तस्करेण हृतं वस्तु द्रुतं दापय दापय ॥ ६५॥ ये मर्मघातिनः क्षुद्राः छिद्रोपद्रवकारकाः । सर्वाचारपरित्यक्ताः मानहीनाश्च रोधकाः ॥ ६६॥ ते सर्वे साळुवेशस्य मुसलायुधचूर्णिताः । नश्यन्तु निमिषार्धेन पावकावृततूलवत् ॥ ६७॥ ये जनद्रोहिणोऽल्पाश्च दुरालोचितभाषिणः ॥ ६८ ( one line in print)॥ सत्कर्मविघ्नकर्तारश्चासत्कर्मपरा नराः । ते साळुवेशहस्ताग्रहस्तनिर्मिभिन्नएहिनः ॥ ६९॥ पतन्तु भूतले याम्यां प्राणास्तेषां प्रयान्तु वै । त्वदङ्घ्रिध्याननिर्दग्धपापकोशाय मे शिव ॥ ७०॥ मह्यं द्रुह्यन्ति ये तेषां विभवानि क्षयन्त्वरम् ॥ ७१ ( one line in print)॥ त्वदाचारपरं भक्तं साधकं मां विवेकिनम् । आक्रामन्ति च सङ्ग्रामे ते गच्छन्तु पराहताः ॥ ७२॥ त्वदीयेनैव मार्गेण चरतां जपतां सदा । ये वदन्ति परीवादं भ्रान्ताः शीघ्रं भवन्तु ते ॥ ७३॥ त्वद्दासमुख्यं मां धीरं तर्जयन्ति बलाच्चा ये । मनसा येऽवमन्यन्ते तत्स्वान्तं क्षमतु क्षणात् ॥ ७४॥ मनसा कर्मणा वाचा ये कुर्वन्त्यतिदुःसहम् । ते महाशोकरोगाब्धौ पतन्त्वाशु शिवाज्ञाया ॥ ७५॥ मदीयानि पदार्थानि ग्रहीतुं योऽवलोकते । तत्क्षणादेव नष्टाक्षो भवत्वाशु शिवाज्ञया ॥ ७६॥ मदीयद्रव्यमादाय ये गच्छन्ति हि तस्कराः । सिह्मारिपाशसम्बन्धात् ते चरन्तु प्रदक्षिणम् ॥ ७७॥ सीमान्तरगताश्चोरा गृहीतद्रव्यसञ्चयाः । अवशावयवास्ते च गच्छन्तु शरभाज्ञया ॥ ७८॥ तस्करा येऽपगृह्णन्ति मम धान्यधनादिकम् । पक्षिराट् क्रोडिकाकृष्टाः समागच्छन्तु ते द्रुतम् ॥ ७९॥ समाहृतपदार्थाद्या देशातीताश्च तस्कराः । शरभेशहलाकृष्टास्त आगच्छन्तु सत्वरम् ॥ ८०॥ शान्तं विवेकिनं भक्तं त्वदङ्घ्रिध्यानतत्परम् । द्रुह्यन्ति य इह प्राणास्तेषां यान्तु यमं शिव ॥ ८१॥ षट्त्रिंशत्कोष्टके यन्त्रे रेखाशूलादिसाध्यके । स्वेच्छामन्त्रं लिखित्वा तु जपेदाराध्य साधकः ॥ ८२॥ उदङ्मुखः सहसं तु रक्षणाय जपेन्निशि । नष्टाहरणके पञ्चरात्रं पश्चिमदिङ्मुखः ॥ ८३॥ मरणे सप्तरात्रं तु दक्षिणाभिमुखो जपेत् । रोगनिग्रहणे चाष्टरात्रमाग्नेयदिङमुखः ॥ ८४॥ इति गुह्य महामन्त्रं परमं सर्वसिद्धिदम् । शरभेशाख्यकवचं, चतुर्वर्गफलप्रदम् ॥ ८५॥ प्रत्यहं प्रतिपक्षं वा प्रतिमासमथापि वा । यो जपेत् प्रतिवर्ष वा वरेण्यः स शिवो भवेत् ॥ ८६॥ एवं हि जपतः पुंसः पातकं चोपपातकम् । तत्सर्वं लयमाप्नोति रविणा तिमिरं यथा ॥ ८७॥ दशाब्दं यो जपेन्नित्यं प्रातरुत्थाय साधकः । सर्वसिद्धिं समाश्रित्य देहान्ते स शिवो भवेत् ॥ ८८॥ त्रिकालं ध्यानपूर्वं तु जपेद्द्वादशवार्षिकम् । स देवि कायेनानेन जीवन्मुक्तो भवेच्छिवे ॥ ८९॥ शतवारं जपेन्नित्यं मण्डलं यो वरानने । सोऽणिमादिगुणान् प्राप्य विचरेत्स्वेच्छया सदा ॥ ९०॥ अतलादिधरण्यन्तर्भुवनेषु तथोपरि । विचरेत्कामगः सर्वैः पूज्यमानो यथासुखम् ॥ ९१॥ त्रिमासं यो जपेन्नित्यमष्टोत्तरसहस्रकम् । सहसा शरभेशस्य सारूप्यं लभतेऽम्बिके ॥ ९२॥ षण्मासं यो जपेदेवं प्रयतस्तु दृढव्रतः । मद्रूपधारकैर्मत्यैः सहसिद्धिप्रदायकैः ॥ ९३॥ मम लोके तु सम्पूज्यो विष्णुलोके तथैव च । ब्रह्मालोके च रमते सर्वत्र न निवार्यते ॥ ९४॥ इन्द्राग्नियमरक्षेशजलेशपवनैः सदा । सोमेशानकलक्ष्मीशैर्दिशां पालैः स पूज्यते ॥ ९५॥ आदित्यसोमपृथ्वीशबुधश्रीगुरुभार्गवैः । पूज्यते स ग्रहैः सर्वैः शनिना राहुकेतुभिः ॥ ९६॥ भृग्वङगिरःपुलस्त्यैश्च पुलहादिमरीचिभिः । दक्षकाश्यपक्रत्वब्जयोनिभिः स च पूज्यते ॥ ९७॥ भैरवैर्वसुभी रुद्रैरादित्यैर्वालखिल्यकैः । दिग्गजैश्च महानागैर्त्दिव्यास्त्रैर्दिव्यवाहनैः ॥ ९८॥ माहेश्वरैर्महारत्नैः कामधेनुसुरद्रुमैः । सरिद्भिः सागरैः शैलेर्देवताभिस्तपोधनैः ॥ ९९॥ दानवै राक्षसैः क्रूरैः सिद्धगन्धर्वकिन्नरैः । यक्षविद्याधरैर्नागैरप्सरोभिः स पूज्यते ॥ १००॥ अपस्मारग्रहैर्भीमैरुन्मत्तैर्ब्रह्मराक्षसैः । वेतालैः खेचरैः क्रूरैः कूश्माण्डराक्षसग्रहैः ॥ १०१॥ ज्वालावक्त्रैस्तमोरूपैः स्त्रीग्रहैः पापविक्रमैः । भूतप्रेतपिशाचाद्यैर्ग्रहैः सर्वैः स पूज्यते ॥ १०२॥ ब्राह्मणैः क्षत्रियैर्वैश्यैः शुद्रैरन्यैश्च मानवैः । पशुपक्षिमृगव्यालैः पूज्यते सर्वजन्तुभिः ॥ १०३॥ किमत्र बहुना देवि तव वक्ष्ये यथातथम् । मया च विष्णुना चैव विश्वकर्त्रा च पाल्यते ॥ १०४॥ भवत्या च गिरा लक्ष्म्या ब्रह्माण्याद्यष्टमातृभिः । गणेश्वरादियोगीन्द्रैर्योगिनीभिश्च पाल्यते ॥ १०५॥ य इदं प्रजपेद्भक्त्या चासाध्यं नैव विद्यते । कवचेन्द्रं महामन्त्रं जपेत्तस्मादनुत्तमम् ॥ १०६॥ उच्चाटने मरुद्वक्त्रो विद्वेषे राक्षसाननः । प्रागाननोऽभिवृद्धौ च सर्वेष्वीशानदिङ्मुखः ॥ १०७॥ यो जपेत्कवचं नित्यं त्रिकालं ध्यानपूर्वकम् । सर्वसिद्धिमवाप्नोति सहसा साधकोत्तमः ॥ १०८॥ देव देव महादेव शिव कारुण्यवारिधे । पाहि मां प्रणतं स्वामिन् प्रसीद सततं प्रभो ॥ १०९॥ यत्कृत्यं तन्नकृतं यदकृत्यं कृत्यवदाचरितम् । उभयोः प्रायश्चित्तं शिव तव नामाक्षरद्वितयम् ॥ ११०॥ इति श्रीशरभेश्वरकवचं सम्पूर्णम् ।