अक्षर आकार:

शरभेशाष्टकम्

sharabheshAShTakam

शरभेशाष्टकम्

श्रीशिव उवाच - श‍ृणु देवि महागुह्यं परं पुण्यविवर्धनम् । शरभेशाष्टकं मन्त्रं वक्ष्यामि तव तत्त्वतः ॥ १॥ ऋषिन्यासादिकं यत्तत्सर्वपूर्ववदाचरेत् । ध्यानभेदं विशेषेण वक्ष्याम्यहमतः शिवे ॥ २॥ ध्यानम् - ज्वलनकुटिलकेशं सूर्यचन्द्राग्निनेत्रं निशिततरनखाग्रोद्धूतहेमाभदेहम् । शरभमथ मुनीन्द्रैः सेव्यमानं सिताङ्गं प्रणतभयविनाशं भावयेत्पक्षिराजम् ॥ ३॥ अथ स्तोत्रम् - देवादिदेवाय जगन्मयाय शिवाय नालीकनिभाननाय । शर्वाय भीमाय शराधिपाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ ४॥ हराय भीमाय हरिप्रियाय भवाय शान्ताय परात्पराय । मृडाय रुद्राय विलोचनाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ ५॥ शीतांशुचूडाय दिगम्बराय सृष्टिस्थितिध्वंसनकारणाय । जटाकलापाय जितेन्द्रियाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ ६॥ कलङ्ककण्ठाय भवान्तकाय कपालशूलात्तकराम्बुजाय । भुजङ्गभूषाय पुरान्तकाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ ७॥ शमादिषट्काय यमान्तकाय यमादियोगाष्टकसिद्धिदाय । उमाधिनाथाय पुरातनाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ ८॥ घृणादिपाशाष्टकवर्जिताय खिलीकृतास्मत्पथि पूर्वगाय । गुणादिहीनाय गुणत्रयाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ ९॥ कालाय वेदामृतकन्दलाय कल्याणकौतूहलकारणाय । स्थूलाय सूक्ष्माय स्वरूपगाय नमोऽस्तु तुस्तु तुभ्यं शरभेश्वराय ॥ १०॥ पञ्चाननायानिलभास्कराय पञ्चाशदर्णाद्यपराक्षयाय । पञ्चाक्षरेशाय जगद्धिताय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ ११॥ नीलकण्ठाय रुद्राय शिवाय शशिमौलिने । भवाय भवनाशाय पक्षिराजाय ते नमः ॥ १२॥ परात्पराय घोराय शम्भवे परमात्मने । शर्वाय निर्मलाङ्गाय सालुवाय नमो नमः ॥ १३॥ गङ्गाधराय साम्बाय परमानन्दतेजसे । सर्वेश्वराय शान्ताय शरभाय नमो नमः ॥ १४॥ वरदाय वराङ्गाय वामदेवाय शूलिने । गिरिशाय गिरीशाय गिरिजापतये नमः ॥ १५॥ कनकजठरकोद्यद्रक्तपानोन्मदेन प्रथितनिखिलपीडानारसिंहेन जाता । शरभ हर शिवेश त्राहि नः सर्वपापा- दनिशमिह कृपाब्धे सालुवेश प्रभो त्वम् ॥ १६॥ सर्वेश सर्वाधिकशान्तमूर्ते कृतापराधानमरानथान्यान् । विनीय विश्वविधायि नीते नमोऽस्तु तुभ्यं शरभेश्वराय ॥ १७॥ दंष्ट्रानखोग्रः शरभः सपक्षश्चतुर्भुजश्चाष्टपदः सहेतिः । कोटीरगङ्गेन्दुधरो नृसिंहक्षोभापहोऽस्मद्रिपुहास्तु शम्भुः ॥ १८॥ हुङ्कारी शरभेश्वरोऽष्टचरणः पक्षी चतुर्बाहुकः । पादाकृष्टनृसिंहविग्रहधरः कालाग्निकोटिद्युतिः । विश्वक्षोभहरः सहेतिरनिशं ब्रह्मेन्द्रमुख्यैः स्तुतो गङ्गाचन्द्रधरः पुरत्रयहरः सद्यो रिपुघ्नोऽस्तु नः ॥ १९॥ मृगाङ्कलाङ्गूलसचञ्चुपक्षो दंष्ट्राननाङ्घ्रिश्च भुजासहस्रः । त्रिनेत्रगङ्गेन्दुधरः प्रभाढ्यः पायादपायाच्छरभेश्वरो नः ॥ २०॥ नृसिंहमत्युग्रमतीवतेजःप्रकाशितं दानवभङ्गदक्षम् । प्रशान्तिमन्तं विदधाति यो मां सोऽस्मानपायाच्छरभेश्वरोऽवतु नः ॥ २१॥ योऽभूत् सहस्रांशुशतप्रकाशः स पक्षिसिंहाकृतिरष्टपादः । नृसिंहसङ्क्षोभशमात्तरूपः पायादपायाच्छरभेश्वरो नः ॥ २२॥ त्वां मन्युमन्तं प्रवदन्ति वेदास्त्वां शान्तिमन्तं मुनयो गृणन्ति । दृष्टे नृसिंहे जगदीश्वरे ते सर्वापराधं शरभ क्षमस्व ॥ २३॥ करचरणकृतं वाक्कर्मजं कायजं वा श्रवणनयनजं वा मानसं वापराधम् । विहितमविहितं वा सर्वमेतत्क्षमस्व शिव शिव करुणाब्धे श्रीमहादेव शम्भो ॥ २४॥ रुद्रः शङ्कर ईश्वरः पशुपतिः स्थाणुः कपर्दी शिवो वागीशो वृषभध्वजः स्मरहरो भक्तप्रियस्त्र्यम्बकः । भूतेशो जगदीश्वरश्च वृषभो मृत्युञ्जयः श्रीपतिः योऽस्मान् कालगलोऽवतात्पुरहरः शम्भुः पिनाकी हरः ॥ २५॥ यतो नृसिंहं हरसि हर इत्युच्यते बुधैः । यतो बिभर्षि सकलं विभज्य तनुमष्टधा ॥ २६॥ अतोऽस्मान् पाहि भगवन्प्रसीद च पुनः पुनः । इति स्तुतो महादेवः प्रसन्नो भक्तवत्सलः । २७॥ सुरानाह्लादयामास वरदानैरभीप्सितैः । प्रसन्नोऽस्मि स्तवेनाहमनेन विबुधेश्वराः ॥ २८॥ मयि रुद्रे महादेवे भयत्वं भक्तिमूर्जितम् । ममांशोऽयं नृसिंहोऽयं मयि भक्ततमस्त्विह ॥ २९॥ इमं स्तवं जपेद्यस्तु शरभेशाष्टकं नरः । तस्य नश्यन्ति पापानि रिपवश्च सुरोत्तमाः ॥ ३० ॥ नश्यन्ति सर्वरोगाणि क्षयरोगादिकानि च । अशेषग्रहभूतानि कृत्रिमाणि ज्वराणि च ॥ ३१॥ सर्पचोराग्निशार्दूलगजपोत्रिमुखानि च । अन्यानि च वनस्थानि नास्ति भीतिर्न संशयः ॥ ३२॥ इत्युक्त्वान्तर्दधे देवि देवान् शरभसालुवः । ततस्ते स्व-स्वधामानि ययुराह्लादपूर्वकम् ॥ ३३॥ एतच्छरभकं स्तोत्रं मन्त्रभूतं जपेन्नरः । सर्वान्कामानवाप्नोति शिवलोकं च गच्छति ॥ ३४॥ इति श्रीआकाशभैरवकल्पोक्तं प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसंवादे शरभेशाष्टकस्तोत्रमन्त्रं सम्पूर्णम् । श्लोकानि २५-३४ शरभशान्तिस्तोत्रम् Verses 25-34 are marked as sharabhashAntistotram