अक्षर आकार:

लिङ्गपुराणोक्तं श्रीनृसिंहकृत शरभस्तोत्रम्

Sharabhastotram by Shri Nrisimha from Lingapurana

लिङ्गपुराणोक्तं श्रीनृसिंहकृत शरभस्तोत्रम्

ॐ श्रीगणेशाय नमः । श्रीनृसिंह उवाच - नमो रुद्राय शर्वाय महाग्रासाय विष्णवे । नम उग्राय भीमाय नमः क्रोधाय मन्यवे । नमो भवाय शर्वाय शङ्कराय शिवाय ते ॥ १॥ कालकालाय कालाय महाकालाआय मृत्यवे । वीराय वीरभद्राय क्षयद्वीराय शूलिने ॥ २॥ महादेवाय महते पशूनाम्पतये नमः । एकाय नीलकण्ठाय श्रीकण्ठाय पिनाकिने ॥ ३॥ नमोऽनन्ताय सूक्ष्माय नमस्ते मृत्युमन्यवे । पराय परमेशाय परात्परतराय ते ॥ ४॥ परात्पराय विश्वाय नमस्ते विश्वमूर्तये । नमो विष्णुकलत्राय विष्णुक्षेत्राय भानवे ॥ ५॥ कैवर्ताय किराताय महाव्याधाय शाश्वते । भौरवाय शरण्याय महाभैरवरूपिणे ॥ ६॥ नमो नृसिंहसंहर्त्रे नमः कालपुरारये । महापाशौघसंहर्त्रे विष्णुमायान्तकारिणे ॥ ७॥ त्र्यम्बकाय त्र्यक्षाय शिपिविष्टाय मीढुषे । मृत्युञ्जयाय शर्वाय सर्वज्ञाय मखारये ॥ ८॥ मखेशाय वरेण्याय नमस्ते वह्निरूपिणे । महाघ्राणाय जिह्वाय प्राणापानप्रवर्तिने ॥ ९॥ त्रिगुणाय त्रिशूलाय गुणातीताय योगिने । संसाराय प्रवाहाय महायन्त्र प्रवर्तिने ॥ १०॥ नमश्चन्द्राग्निसूर्याय मुक्तिवैचित्र्यहेतवे । वरदायावताराय सर्वकारणहेतवे ॥ ११॥ कपालिने करालाय पतये पुण्यकीर्त्तये । अमोघायाग्निनेत्राय नकुलीशाय शम्भवे ॥ १२॥ भिषक्तमाय मुण्डाय दण्डिने योगरूपिणे । मेघवाहाय देवाय पार्वतीपतये नमः ॥ १३॥ अव्यक्ताय विशोकाय स्थिराय स्थिरधन्विने । स्थाणवे कृत्तिवासाय नमः पञ्चार्थहेतवे ॥ १४॥ वरदाय कपर्दाय नमश्चन्द्रार्द्धमौलिने । नमस्तेऽवरराजाय वयसां पतये नमः ॥ १५॥ योगीश्वराय नित्याय सत्याय परमेष्ठिने । सर्वात्मने नमस्तुभ्यं नमः सर्वेश्वराय ते ॥ १६॥ एकद्वित्रिचतुःपञ्च कृत्वास्तेऽस्तु नमो नमः । दशकृत्वस्तु साहस्रकृत्वस्ते च नमो नमः ॥ १७॥ नमोऽपरिमितिं कृत्वाऽनन्तकृत्वो नमो नमः । नमो नमो नमो भूयः पुनर्भूयो नमो नमः ॥ १८॥ सूत उवाच नाम्नामष्टशतेनैव स्तुत्वाऽमृतये न तु । पुनस्तु प्रार्थयामास नृसिंहं शरभेश्वरम् ॥ १९॥ यदा यदा ममाज्ञानमत्यहङ्कारदूषितम् । तदा तदाऽपनेतव्यं त्वयैव परमेश्वरः ॥ २०॥ एवं विज्ञापयन्प्रीतः शंङ्करं नरकेसरी । नन्वशक्तो भवान्विष्णो! जीवितान्तं पराजितः ॥ २१॥ तद्वक्त्रशेषमात्रान्तं कृत्वा शर्वस्य विग्रहम् । शुक्तिशित्यं तदामङ्गं वीरभद्रः क्षणात्ततः ॥ २२॥ इति लिङ्गपुराणोक्तं श्रीनृसिंहकृतं शरभस्तोत्रं सम्पूर्णम् ॥