अक्षर आकार:

शरभशान्तिस्तोत्रम्

Sharabha Shanti Stotram

शरभशान्तिस्तोत्रम्

रुद्रः शङ्कर ईश्वरः पशुपतिः स्थाणुः कपर्दी शिवो वागीशो वृषभध्वजः स्मरहरो भक्तप्रियस्त्र्यम्बकः । भूतेशो जगदीश्वरश्च वृषभो मृत्युञ्जयः श्रीपतिः योऽस्मान् कालगलोऽवतात्पुरहरः शम्भुः पिनाकी हरः ॥ १॥ यतो नृसिंहं हरसि हर इत्युच्यते बुधैः । यतो बिभर्षि सकलं विभज्य तनुमष्टधा ॥ २॥ अतोऽस्मान् पाहि भगवन्प्रसीद च पुनः पुनः । इति स्तुतो महादेवः प्रसन्नो भक्तवत्सलः ॥ ३॥ सुरानाह्लादयामास वरदानैरभीप्सितैः । प्रसन्नोऽस्मि स्तवेनाहमनेन विबुधेश्वराः ॥ ४॥ मयि रुद्रे महादेवे भयत्वं भक्तिमूर्जितम् । ममांशोऽयं नृसिंहोऽयं मयि भक्ततमस्त्विह ॥ ५॥ इमं स्तवं जपेद्यस्तु शरभेशाष्टकं नरः । तस्य नश्यन्ति पापानि रिपवश्च सुरोत्तमाः ॥ ६॥ नश्यन्ति सर्वरोगाणि क्षयरोगादिकानि च । अशेषग्रहभूतानि कृत्रिमाणि ज्वराणि च ॥ ७॥ सर्पचोराग्निशार्दूलगजपोत्रिमुखानि च । अन्यानि च वनस्थानि नास्ति भीतिर्न संशयः ॥ ८॥ इत्युक्त्वान्तर्दधे देवि देवान् शरभसालुवः । ततस्ते स्व-स्वधामानि ययुराह्लादपूर्वकम् ॥ ९॥ एतच्छरभकं स्तोत्रं मन्त्रभूतं जपेन्नरः । सर्वान्कामानवाप्नोति शिवलोकं च गच्छति ॥ १०॥ इति श्रीआकाशभैरवकल्पोक्तं प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसंवादे शरभशान्तिस्तोत्रं सम्पूर्णम् ।