अक्षर आकार:

श्रीशरभसहस्रनामस्तोत्रम् ३

ShrI Sharabha Sahasranamastotra 3

श्रीशरभसहस्रनामस्तोत्रम् ३

श्रीशिव उवाच ॥ विनियोगः- ॐ अस्य श्री शरभसहस्रनामस्तोत्रमन्त्रस्य, कालाग्निरुद्रो वामदेव ऋषिः, अनुष्टुप् छन्दः, श्रीशरभ-सालुवो देवता, हस्रां बीजं, स्वाहा शक्तिः, फट् कीलकं, श्रीशरभ-सालुव प्रसादसिद्ध्यर्थे जपे विनियोगः ॥ करन्यास एवं हृदयादिन्यासः । ॐ हस्रां अङ्गुष्ठाभ्यां नमः । हृदयाय नमः । ॐ हस्रीं तर्जनीभ्यां नमः । शिरसे स्वाहा । ॐ हस्रूं मध्यमाभ्यां नमः । शिखायै वषट् । ॐ हस्रैं अनामिकाभ्यां नमः । कवचाय हुं । ॐ हस्रौं कनिष्ठिकाभ्यां नमः । नेत्रत्रयाय वौषट् । ॐ हस्रः करतलकरपृष्ठाभ्यां नमः । अस्त्राय फट् । ॐ भुर्भुवः स्वरोम् इति दिग्बन्धः ॥ ध्यानम् ॥ क्वाकाशः क्व समीरणः क्व दहनः क्वापः क्व विश्वम्भरः क्व ब्रह्मा क्व जनार्दनः क्व तरणिः क्वेन्दुः क्व देवासुराः । कल्पान्ते शरभेश्वरः प्रमुदितः श्रीसिद्धयोगीश्वरः क्रीडानाटकनायको विजयते देवो महासालुवः ॥ लं पृथिव्यादि पञ्चोपचारैः सम्पूजयेत् । ॥ अथ सहस्रनामः ॥ श्रीभैरव उवाच । श्रीनाथो रेणुकानाथो जगन्नाथो जगाश्रयः । श्रीगुरुर्गुरुगम्यश्च गुरुरूपः कृपानिधिः ॥ १॥ हिरण्यबाहुः सेनानीर्दिक्पतिस्तरुराट् हरः । हरिकेशः पशुपतिर्महान्सस्पिञ्जरो मृडः ॥ २॥ गणेशो गणनाथश्च गणपूज्यो गणाश्रयः । विव्याधी बम्लशः श्रेष्ठः परमात्मा सनातनः ॥ ३॥ पीठेशः पीठरूपश्च पीठपूज्यः सुखावहः । सर्वाधिको जगत्कर्ता पुष्टेशो नन्दिकेश्वरः ॥ ४॥ भैरवो भैरवश्रेष्ठो भैरवायुधधारकः । आततायी महारुद्रः संसारार्कसुरेश्वरः ॥ ५॥ सिद्धः सिद्धिप्रदः साध्यः सिद्धमण्डलपूजितः । उपवीती महानात्मा क्षेत्रेशो वननायकः ॥ ६॥ बहुरूपो बहुस्वामी बहुपालनकारणः । रोहितः स्थपतिः सूतो वाणिजो मन्त्रिरुन्नतः ॥ ७॥ पदरूपः पदप्राप्तः पदेशः पदनायकः । कक्षेशो हुतभूग् देवो भुवन्तिर्वारिवस्कृतः ॥ ८॥ दूतिक्रमो दूतिनाथः शाम्भवः शङ्करः प्रभुः । उच्चैर्घोषो घोषरूपः पत्तीशः पापमोचकः ॥ ९॥ वीरो वीर्यप्रदः शूरो वीरेशवरदायकः । var वीरेशो वरदायकः ओषधीशः पञ्चवक्त्रः कृत्स्नवीतो भयानकः ॥ १०॥ वीरनाथो वीररूपो वीरहाऽऽयुधधारकः । सहमानः स्वर्णरेता निव्र्याधी निरूपप्लवः ॥ ११॥ चतुराश्रमनिष्ठश्च चतुर्मूर्तिश्चतुर्भुजः । आव्याधिनीशः ककुभो निषङ्गी स्तेनरक्षकः ॥ १२॥ षष्टीशो घटिकारूपः फलसङ्केतवर्धकः । मन्त्रात्मा तस्कराध्यक्षो वञ्चकः परिवञ्चकः ॥ १३॥ नवनाथो नवाङ्कस्थो नवचक्रेश्वरो विभुः । अरण्येशः परिचरो निचेरुः स्तायुरक्षकः ॥ १४॥ वीरावलीप्रियः शान्तो युद्धविक्रमदर्शकः । प्रकृतेशो गिरिचरः कुलुञ्चेशो गुहेष्टदः ॥ १५॥ पञ्चपञ्चकतत्त्वस्थस्तत्त्वातीतस्वरूपकः । भवः शर्वो नीलकण्ठः कपर्दी त्रिपुरान्तकः ॥ १६॥ श्रीमन्त्रः श्रीकलानाथः श्रेयदः श्रेयवारिधिः । मुक्तकेशो गिरिशयः सहस्राक्षः सहस्रपात् ॥ १७॥ मालाधरो मनःश्रेष्ठो मुनिमानसहंसकः । शिपिविष्टश्चन्द्रमौलिर्हंसो मीढुष्टमोऽनघः ॥ १८॥ मन्त्रराजो मन्त्ररूपो मन्त्रपुण्यफलप्रदः । ऊर्व्यः सूर्व्योघ्रियः शीभ्यः प्रथमः पावकाकृतिः ॥ १९॥ गुरुमण्डलरूपस्थो गुरुमण्डलकारणः । अचरस्तारकस्तारोऽवस्वन्योऽनन्तविग्रहः ॥ २०॥ तिथिमण्डलरूपश्च वृद्धिक्षयविवर्जितः । द्वीप्यः स्त्रोतस्य ईशानो धुर्यो गव्यगतोदयः ॥ २१॥ var भव्यकथोदयः प्रथमः प्रथमाकारो द्वितीयः शक्तिसंयुतः । गुणत्रय तृतीयोऽसौ युगरूपश्चतुर्थकः ॥ २२॥ पूर्वजोऽवरजो ज्येष्ठः कनिष्ठो विश्वलोचनः । पञ्चभूतात्मसाक्षीशो ऋतुः षड्गुणभावनः ॥ २३॥ अप्रगल्भो मध्यमोर्म्यो जघन्योऽजघन्यः शुभः । सप्तधातुस्वरूपश्चाष्टमहासिद्धिसिद्धिदः ॥ २४॥ प्रतिसर्पोऽनन्तरूपो सोभ्यो याम्यः सुराश्रयः । var प्रतिसूर्यो नवनाथनवमीस्थो दशदिग्रूपधारकः ॥ २५। var नवनाथो नवार्थस्थः रुद्र एकादशाकारो द्वादशादित्यरूपकः । वन्योऽवसान्यः पूतात्मा श्रवः कक्षः प्रतिश्रवाः ॥ २६॥ व्यञ्जनो व्यञ्जनातीतो विसर्गः स्वरभूषणः । var वञ्जनो वञ्जनातीतः आशुषेणो महासेनो महावीरो महारथः ॥ २७॥ अनन्त अव्यय आद्य आदिशक्तिवरप्रदः । var अनन्तो अव्ययो आद्यो श्रुतसेनः श्रुतसाक्षी कवची वशकृद्वशः ॥ २८॥ आनन्दश्चाद्यसंस्थान आद्याकारणलक्षणः । आहनन्योऽनन्यनाथो दुन्दुम्यो दुष्टनाशनः ॥ २९॥ कर्ता कारयिता कार्यः कार्यकारणभावगः । धृष्णः प्रमृश ईड्यात्मा वदान्यो वेदसम्मतः ॥ ३०॥ var वेदवित्तमः कलनाथः कलालीतः काव्यनाटकबोधकः । तीक्ष्णेषुपाणिः प्रहितः स्वायुधः शस्त्रविक्रमः ॥ ३१॥ var तीक्ष्णेषुर्वाणीविधृतः कालहन्ता कालसाध्यः कालचक्रप्रवर्तकः । सुधन्वा सुप्रसन्नात्मा प्रविविक्तः सदागतिः ॥ ३२॥ कालाग्निरुद्रसन्दीप्तः कालान्तकभयङ्करः । खङ्गीशः खङ्गनाथश्च खङ्गशक्ति परायणः ॥ ३३॥ गर्वघ्नः शत्रुसंहर्ता गमागमविवर्जितः । यज्ञकर्मफलाध्यक्षो यज्ञमूर्तिरनातुरः ॥ ३४॥ घनश्यामो घनानन्दी घनाधारप्रवर्तकः । घनकर्ता घनत्राता घनबीजसमुत्थितः ॥ ३५॥ लोप्यो लप्यः पर्णसद्यः पर्ण्यः पूर्णः पुरातनः । डकारसन्धिसाध्यान्तो वेदवर्णनसाङ्गकः ॥ ३६॥ भूतो भूतपतिर्भूपो भूधरो भूधरायुधः । छन्दःसारः छन्दकर्ता छन्द अन्वयधारकः ॥ ३७॥ भूतसङ्गो भूतमूर्तिर्भूतिहा भूतिभूषणः । छत्रसिंहासनाधीशो भक्तच्छत्रसमृद्धिमान् ॥ ३८॥ मदनो मादको माद्यो मधुहा मधुरप्रियः । जपो जपप्रियो जप्यो जपसिद्धिप्रदायकः ॥ ३९॥ जपसङ्ख्यो जपाकारः सर्वमन्त्रजपप्रियः । मधुर्मधुकरः शूरो मधुरो मदनान्तकः ॥ ४०॥ झषरूपधरो देवो झषवृद्धिविवर्धकः । यमशासनकर्ता च समपूज्यो यमाधिपः ॥ ४१॥ निरञ्जनो निराधारो निर्लिप्तो निरुपाधिकः । टङ्कायुधः शिवप्रीतष्टङ्कारो लाङ्गलाश्रयः ॥ ४२॥ निष्प्रपञ्चो निराकारो निरीहो निरुपद्रवः । सपर्याप्रतिडामर्यो मन्त्रडामरस्थापकः ॥ ४३॥ सत्त्वं सत्त्वगुणोपेतः सत्त्ववित्सत्त्ववित्प्रियः । सदाशिवोह्युग्ररूपः पक्षविक्षिप्तभूधरः॥ ४४॥ धनदो धननाथश्च धनधान्यप्रदायकः । ``(ॐ) नमो रुद्राय रौद्राय महोग्राय च मीढुषे'' ॥ ४५॥ नादज्ञानरतो नित्यो नादान्तपददायकः । फलरूपः फलातीतः फलं अक्षरलक्षणः ॥ ४६॥ (ॐ) श्रीं ह्रीं क्लीं सर्वभूताद्यो भूतिहा भूतिभूषणः । रुद्राक्षमालाभरणो रुद्राक्षप्रियवत्सलः ॥ ४७॥ रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षभूषणः । फलदः फलदाता च फलकर्ता फलप्रियः ॥ ४८॥ फलाश्रयः फलालीतः फलमूर्तिर्निरञ्जनः । बलानन्दो बलग्रामो बलीशो बलनायकः ॥ ४९॥ (ॐ) खें खां घ्रां ह्रां वीरभद्रः सम्राट् दक्षमखान्तकः । भविष्यज्ञो भयत्राता भयकर्ता भयारिहा ॥ ५०॥ विघ्नेश्वरो विघ्नहर्ता गुरुर्देवशिखामणिः । भावनारूपध्यानस्थो भावार्थफलदायकः ॥ ५१॥ (ॐ) श्रां ह्रां कल्पितकल्पस्थः कल्पनापूरणालयः । भुजङ्गविलसत्कण्ठो भुजङ्गाभरणप्रियः ॥ ५२॥ (ॐ) ह्रीं ह्रूं मोहनकृत्कर्ता छन्दमानसतोषकः । मानातीतः स्वयं मान्यो भक्तमानससंश्रयः ॥ ५३॥ नागेन्द्रचर्मवसनो नारसिंहनिपातनः । रकारः अग्निबीजस्थः अपमृत्युविनाशनः ॥ ५४॥ (ॐ) प्रें प्रें प्रें पेरं ह्रां दुष्टेष्टो मृत्युहा मृत्युपूजितः । var प्रें प्रैं प्रों प्रहृष्टेष्टदः व्यक्तो व्यक्ततमोऽव्यक्तो रतिलावण्यसुन्दरः ॥ ५५॥ रतिनाथो रतिप्रीतो निधनेशो धनाधिपः । रमाप्रियकरो रम्यो लिङ्गो लिङ्गात्मविग्रहः ॥ ५६॥ (ॐ) क्ष्रों क्ष्रों क्ष्रों क्ष्रों ग्रहाकरो रत्नविक्रयविग्रहः । ग्रहकृद् ग्रहभृद् ग्राही गृहाद् गृहविलक्षणः ॥ ५७॥ ``ॐ नमः पक्षिराजाय दावाग्निरूपरूपकाय । घोरपातकनाशाय सूर्यमण्डलसुप्रभुः'' ॥ ५८॥ var शरभशाल्वाय हुं फट् पवनः पावको वामो महाकालो महापहः । वर्धमानो वृद्धिरूपो विश्वभक्तिप्रियोत्तमः ॥ ५९॥ ॐ ह्रूं ह्रूं सर्वगः सर्वः सर्वजित्सर्वनायकः । जगदेकप्रभुः स्वामी जगद्वन्द्यो जगन्मयः ॥ ६०॥ सर्वान्तरः सर्वव्यापी सर्वकर्मप्रवर्तकः । जगदानन्ददो जन्मजरामरणवर्जितः ॥ ६१॥ सर्वार्थसाधकः साध्यसिद्धिः साधकसाधकः । खट्वाङ्गी नीतिमान्सत्यो देवतात्मात्मसम्भवः ॥ ६२॥ हविर्भोक्ता हविः प्रीतो हव्यवाहनहव्यकृत् । कपालमालाभरणः कपाली विष्णुवल्लभः ॥ ६३॥ ॐ ह्रीं प्रवेश रोगाय स्थूलास्थूलविशारदः । var प्रों वं शं शरण्यः कलाधीशस्त्रिकालज्ञो दुष्टावग्रहकारकः ॥ ६४॥ (ॐ) हुं हुं हुं हुं नटवरो महानाट्यविशारदः । क्षमाकरः क्षमानाथः क्षमापूरितलोचनः ॥ ६५॥ वृषाङ्को वृषभाधीशः क्षमासाधनसाधकः । क्षमाचिन्तनसुप्रीतो वृषात्मा वृषभध्वजः ॥ ६६॥ (ॐ) क्रों क्रों क्रों क्रों महाकायो महावक्षो महाभुजः । मूलाधारनिवासश्च गणेशः सिद्धिदायकः ॥ ६७॥ महास्कन्धो महाग्रीवो महद्वक्त्रो महच्छिरः । महदोष्ठो महौदर्यो महादंष्ट्रो महाहनुः ॥ ६८॥ सुन्दरभ्रूः सुनयनः षट् चक्रो वर्णलक्षणः । var सर्वलक्षणः मणिपूरो महाविष्णुः सुललाटः सुकन्धरः ॥ ६९॥ सत्यवाक्यो धर्मवेत्ता प्रजासर्जनकारणः । var प्रजासृजनकारणः स्वाधिष्ठाने रुद्ररूपः सत्यज्ञः सत्यविक्रमः ॥ ७०॥ (ॐ) ग्लों ग्लों ग्लों ग्लों महादेव द्रव्यशक्तिसमाहितः । कृतज्ञ कृतकृत्यात्मा कृतकृत्यः कृतागमः ॥ ७१॥ (ॐ) हं हं हं हं गुरुरूपो हंसमन्त्रार्थमन्त्रकः । व्रतकृद् व्रतविच्छ्रेष्ठो व्रतविद्वान्महाव्रती ॥ ७२॥ सहस्रारेसहस्राक्षः व्रताधारो वृतेश्वरः । व्रतप्रीतो व्रताकारो व्रतनिर्वाणदर्शकः ॥ ७३॥ ``ॐ ह्रीं ह्रूं क्लीं श्रीं क्लीं ह्रीं फट् स्वाहा'' । अतिरागी वीतरागः कैलासेऽनाहतध्वनिः । मायापूरकयन्त्रस्थो रोगहेतुर्विरागवित् ॥ ७४॥ रागघ्नो रागशमनो लम्बकाश्यभिषिञ्चिनः । var रञ्जको रगवर्जितः सहस्रदलगर्भस्थः चन्द्रिकाद्रवसंयुतः ॥ ७५॥ अन्तनिष्ठो महाबुद्धिप्रदाता नीतिवित्प्रियः । var नीतिसंश्रयः नीतिकृन्नीतिविन्नीतिरन्तर्यागस्वयंसुखी ॥ ७६॥ विनीतवत्सलो नीतिस्वरूपो नीतिसंश्रयः । स्वभावो यन्त्रसञ्चारस्तन्तुरूपोऽमलच्छविः ॥ ७७॥ क्षेत्रकर्मप्रवीणश्च क्षेत्रकीर्तनवर्धनः । var क्षेत्रकर्तन क्रोधजित्क्रोधनः क्रोधिजनवित् क्रोधरूपधृत् ॥ ७८॥ विश्वरूपो विश्वकर्ता चैतन्यो यन्त्रमालिकः । मुनिध्येयो मुनित्राता शिवधर्मधुरन्धरः ॥ ७९॥ धर्मज्ञो धर्मसम्बन्धि ध्वान्तघ्नो ध्वान्तसंशयः । इच्छाज्ञानक्रियातीतप्रभावः पार्वतीपतिः ॥ ८०॥ हं हं हं हं लतारूपः कल्पनावाञ्छितप्रदः । कल्पवृक्षः कल्पनस्थः पुण्यश्लोकप्रयोजकः ॥ ८१॥ प्रदीपनिर्मलप्रौढः परमः परमागमः । (ॐ) ज्रं ज्रं ज्रं सर्वसङ्क्षोभ सर्वसंहारकारकः ॥ ८२॥ क्रोधदः क्रोधहा क्रोधी जनहा क्रोधकारणः । गुणवान् गुणविच्छ्रेष्ठो वीर्यविद्वीर्यसंश्रयः ॥ ८३॥ गुणाधारो गुणाकारः सत्त्वकल्याणदेशिकः । सत्वरः सत्त्वविद्भावः सत्यविज्ञानलोचनः ॥ ८४॥ ``ॐ ह्रां ह्रीं ह्रूं क्लीं श्रीं ब्लूं प्रों ॐ ह्रीं क्रों हुं फट् स्वाहा''। वीर्याकारो वीर्यकरश्छन्नमूलो महाजयः । अविच्छिन्नप्रभावश्री वीर्यहा वीर्यवर्धकः ॥ ८५॥ कालवित्कालकृत्कालो बलप्रमथनो बली । छिन्नपापश्छिन्नपाशो विच्छिन्नभययातनः ॥ ८६॥ मनोन्मनो मनोरूपो विच्छिन्नभयनाशनः । विच्छिन्नसङ्गसङ्कल्पो बलप्रमथनो बलः ॥ ८७॥ विद्याप्रदाता विद्येंशः शुद्धबोधसदोदितः ॥ var शुद्धबोधसुबोधितः शुद्धबोधविशुद्धात्मा विद्यामन्त्रैकसंश्रयः ॥ ८८॥ शुद्धसत्वो विशुद्धान्तविद्यावेद्यो विशारदः । Extra verse in text with variation गुणाधारो गुणाकारः सत्त्वकल्याणदेशिकाः ॥ ८९॥ सत्त्वरः सत्त्वसकृआवः सत्त्वविज्ञानलोचनः । वीर्यवान्वीर्यविच्छ्रेष्ठः सत्त्वविद्यावबोधकः॥ ८९॥ var वीर्यविद्वीर्यसंश्रयः अविनाशो निराभासो विशुद्धज्ञानगोचरः । ॐ ह्रीं श्रीं ऐं सौं शिव कुरु कुरु स्वाहा । संसारयन्त्रवाहाय महायन्त्रपप्रतिने ॥ ९०॥ ``नमः श्रीव्योमसूर्याय मूर्ति वैचित्र्यहेतवे'' । जगज्जीवो जगत्प्राणो जगदात्मा जगद्गुरुः ॥ ९१॥ आनन्दरूपनित्यस्थः प्रकाशानन्दरूपकः । योगज्ञानमहाराजो योगज्ञानमहाशिवः ॥ ९२॥ अखण्डानन्ददाता च पूर्णानन्दस्वरूपवान् । ``वरदायाविकाराय सर्वकारणहेतवे ॥ ९३॥ कपालिने करालाय पतये पुण्यकीर्तये । अघोरायाग्निनेत्राय दण्डिने घोररूपिणे ॥ ९४॥ भिषग्गण्याय चण्डाय अकुलीशाय शम्भवे । ह्रूं क्षुं रूं क्लीं सिद्धाय् नमः'' । घण्डारवः सिद्धगण्डो गजघण्टाध्वनिप्रियः ॥ ९५॥ गगनाख्यो गजावासो गरलांशो गणेश्वरः । सर्वपक्षिमृगाकारः सर्वपक्षिमृगाधिपः ॥ ९६॥ चित्रो विचित्रसङ्कल्पो विचित्रो विशदोदयः । निर्भवो भवनाशश्च निर्विकल्पो विकल्पकृत् ॥ ९७॥ कक्षाविसलकः कर्त्ता कोविदः काश्मशासनः । var अक्शवित्पुलकः Extra verses in text with variation शुद्धबोधो विशुद्धात्मा विद्यामात्रैकसंश्रयः ॥ ९८॥ शुद्धसत्त्वो विशुद्धान्तविद्यावैद्यौ विशारदः । निन्दाद्वेषाइकर्ता च निन्दद्वेषापहारकः ॥ ९८॥ कालाग्निरुद्रः सर्वेशः शमरूपः शमेश्वरः । प्रलयानलकृद्धव्यः प्रलयानलशासनः ॥ ९९॥ त्रियम्बकोऽरिषड्वर्गनाशको धनदः प्रियः । अक्षोभ्यः क्षोभरहितः क्षोभदः क्षोभनाशकः ॥ १००॥ ``ॐ प्रां प्रीं प्रूं प्रैं प्रौं प्रः मणिमन्त्रौषधादीनां शक्तिरूपाय शम्भवे । अप्रेमयाय देवाय वषट् स्वाहा स्वधात्मने'' । द्युमूर्धा दशदिग्बाहुश्चन्द्रसूर्याग्निलोचनः । पातालाङ्घ्रिरिलाकुक्षिः खंमुखो गगनोदरः ॥ १०१॥ कलानादः कलाबिन्दुः कलाज्योतिः सनातनः । अलौकिककनोदारः कैवल्यपददायकः ॥ १०२॥ कौल्यः कुलेशः कुलजः कविः कर्पूरभास्वरः । कामेश्वरः कृपासिन्धुः कुशलः कुलभूषणः ॥ १०३॥ कौपीनवसनः कान्तः केवलः कल्पपादपः । कुन्देन्दुशङ्खधवलो भस्मोद्धूलितविग्रहः ॥ १०४॥। भस्माभरणहृष्टात्मा दुष्टपुष्टारिसूदनः । var षड्भिरावृतः स्थाणुर्दिगम्बरो भर्गो भगनेत्रभिदुज्जवलः ॥ १०५॥ त्रिकाग्निकालः कालाग्निरद्वितीयो महायशाः । सामप्रियः सामकर्ता सामगः सामगप्रियः ॥ १०६॥ धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः । लावण्यराशिः सर्वज्ञः सुबुद्धिर्बुद्धिमद्वरः ॥ १०७॥ तारणाश्रयरूपस्थस्तारणाश्रयदायकः । तारकस्तारकस्वामी तारणस्तारणप्रियः ॥ १०८॥ एकतारो द्वितारश्च तृतीयो मातृकाश्रयः । एकरूपश्चैकनाथो बहुरूपस्वरूपवान् ॥ १०९॥ लोकसाक्षी त्रिलोकेशस्त्रिगुणातीतमूर्तिमान् । बालस्तारुण्यरूपस्थो वृद्धरूपप्रदर्शकः ॥ ११०॥ अवस्थात्रयभूतस्थो अवस्थात्रयवर्जितः । वाच्यवाचकभावार्थो वाक्यार्थप्रियमानसः ॥ १११॥ सोहं वाक्यप्रमाणस्थो महावाक्यार्थबोधकः । परमाणुः प्रमाणस्थः कोटिब्रह्माण्डनायकः ॥ ११२॥ ``ॐ हं हं हं हं ह्रीं वामदेवाय नमः'' । कक्षवित्पालकः कर्ता कोविद कामशासनः । कपर्दी केसरी कालः कल्पनारहिताकृतिः ॥ ११३॥ खखेलः खेचरः ख्यातः खन्यवादी खमुद्गतः । खाम्बरः खण्डपरशुः खचक्षुः खङ्ग्लोचनः ॥ ११४॥ अखण्डब्रह्मखण्डश्रीरखण्डज्योतिरव्ययः । षट् चक्रखेलनः स्रष्टा षट्ज्योतिषट्गिरार्चितः ॥ ११५॥ var षड्भिरावृतः गरिष्ठो गोपतिर्गोप्ता गम्भीरो ब्रह्मगोलकः । गोवर्धनगतिर्गोविद् गवावीतो गुणाकरः ॥ ११६॥ गङ्गधरोऽङ्गसङ्गम्यो गैङ्कारो गट्करागमः । var गह्वरागमः कर्पूरगौरो गौरीशो गौरीगुरुगुहाशयः ॥ ११७॥ धूर्जटिः पिङ्गलजटो जटामण्डलमण्डितः । मनोजवो जीवहेतुरन्धकासुरसूदनः ॥ ११८॥ लोकबन्धुः कलाधारः पाण्डुरः प्रमथाधिपः । var लोकधरः अव्यक्तलक्षणो योगी योगीशो योगिपङ्गवः ॥ ११९॥ भूतावासो जनावासः सुरावासः सुमङ्गलः । भववैद्यो योगिवैद्यौ योगीसिंहहृदासनः ॥ १२०॥ युगावासो युगाधीशो युगकृद्युगवन्दितः । किरीटालेढबालेन्दुः मणिङ्ककणभूषितः ॥ १२१॥ रत्नाङ्गरागो रत्नेशो रत्नरञ्जितपादुकः । नवरत्नगुणोपेतकिरीटो रत्नकञ्चुकः ॥ १२२॥ नानाविधानेकरत्नलसत्कुण्डलमण्डितः । दिव्यरत्नगणोत्कीर्णकण्ठाभरणभूषितः ॥ १२३॥ नवफालामणिर्नासापुटभ्राजितमौक्तिकः । रत्नाङ्गुलीयविलसत्करशाखानखप्रभः ॥ १२४॥। रत्नभ्राजद्धेमसूत्रलसत्कटितटः पटुः । वामाङ्गभागविलसत्पार्वतीवीक्षणप्रियः ॥ १२५॥ लीलाविड्लम्बितवपुर्भक्तमानसमन्दिरः । मन्दमन्दार-पुष्पौघलसद्वायुनिषेवितः ॥ १२६॥ कस्तूरीविलसत्फालोदिव्यवेषविराजितः । दिव्यदेहप्रभाकूटसन्दीपितदिगन्तरः ॥ १२७॥ देवासुरगुरुस्तव्यो देवासुरनमस्कृतः । हंसराजः प्रभाकूटपुण्डरीकनिभेक्षणः ॥ १२८॥ सर्वाशास्त्रगणोपेतः सर्वलोकेष्टभूषणः । सर्वेष्टदाता सर्वेष्टस्फुरन्मङ्गलविग्रहः ॥ १२९॥ अविद्यालेशरहितो नानाविद्यैकसंश्रयः । मूर्तीभावत्कृपापूरो भक्तेष्टफलपूरकः ॥ १३०॥ सम्पूर्णकामः सौभाग्यनिधिः सौभाग्यदायकः । हितैषी हितकृत्सौम्यः परार्थैकप्रयोजकः ॥ १३१॥ शरणागतदीनार्तपरित्राणपरायणः । विष्वञ्चिता वषट् कारो भ्राजिष्णुर्भोजनं हविः ॥ १३२॥ भोक्ता भोजयिता जेता जितारिर्जितमानसः । अक्षरः कारणो रुद्धः शमदः शारदाप्लवः ॥ १३३॥ आज्ञापकश्च गम्भीरः कविर्दुःस्वप्ननाशनः । var कलिर्दुःस्वप्ननाशनः पञ्चब्रह्मसमुत्पत्तिः श्रेत्रज्ञः क्षेत्रपालकः ॥ १३४॥ व्योमकेशो भीमवेषो गौरीपतिरनामयः । भवाब्धितरणोपायो भगवान्भक्तवत्सलः ॥ १३५॥ वरो वरिष्ठस्तेजिष्ठः प्रियाप्रियवधः सुधीः । यन्ताऽयविष्ठः क्षोदिष्ठो यविष्ठो यमशासनः ॥ १३६॥ var रविक्रोधतिरस्कृतः हिरण्यगर्भो हेमाङ्गो हेमरूपो हिरण्यदः । ब्रह्मज्योतिरनावेक्ष्यश्चामुण्डाजनको रवि ॥ १३७॥ मोक्षार्थिजनसंसेव्यो मोक्षदो मोक्षनायकः । महाश्मशाननिलयो वेदाश्वो भूरथस्थिरः ॥ १३८॥ मृगव्याधो धर्मधाम प्रभिन्नस्फटिकः प्रभः । सर्वज्ञः परमात्मा च ब्रह्मानन्दाश्रयो विभुः ॥ १३९॥ शरभेशो महादेवः परब्रह्म सदाशिवः । स्वराविकृतिकर्ता च स्वरातीतः स्वयंविभुः ॥ १४०॥ स्वर्गतः स्वर्गतिर्दाता नियन्ता नियताश्रयः । भूमिरूपो भूमिकर्ता भूधरो भूधराश्रयः ॥ १४१॥ भूतनाथो भूतकर्ता भूतसंहारकारकः । भविष्यज्ञो भवत्राता भवदो भवहारकः ॥ १४२॥ वरदो वरदाता च वरप्रीतो वरप्रदः । कूटस्थः कूटरूपश्च त्रिकूटो मन्त्रविग्रहः ॥ १४३॥ मन्त्रार्थो मन्त्रगम्यश्च मन्त्रेंशो मन्त्रभागकः । सिद्धिमन्त्रः सिद्धिदाता जपसिद्धिस्वभावकः ॥ १४४॥ नामातिगो नामरूपो नामरूपगुणाश्रयः । गुणकर्ता गुणत्राता गुणातीता गुणरिहा ॥ १४५॥ गुणग्रामो गुणाधीशः गुणनिर्गुणकारकः । अकारमातृकारूपः अकारातीतभावनः ॥ १४६॥ परमैश्वर्यदाता च परमप्रीतिदायकः । परमः परमानन्दः परानन्दः परात्परः ॥ १४७॥ वैकुण्ठपीठमध्यस्थो वैकुण्ठो विष्णुविग्रहः । कैलासवासी कैलासे शिवरूपः शिवप्रदः ॥ १४८॥ जटाजूटोद्भूषिताङ्गो भस्मधूसरभूषणः । दिग्वासाः दिग्विभागश्च दिङ्गतरनिवासकः ॥ १४९॥ ध्यानकर्ता ध्यानमूर्तिर्धारणाधारणप्रियः । जीवन्मुक्तिपुरीनाथो द्वादशान्तस्थितप्रभुः ॥ १५०॥ तत्त्वस्थस्तत्त्वरूपस्थस्तत्त्वातीतोऽतितत्त्वगः । तत्त्वासाम्यस्तत्त्वगम्यस्तत्त्वार्थसर्वदर्शकः ॥ १५१॥ तत्त्वासनस्तत्त्वमार्गस्तत्त्वान्तस्तत्त्वविग्रहः । दर्शनादतिगो दृश्यो दृश्यातीतातिदर्शकः ॥ १५२॥ दर्शनो दर्शनातीतो भावनाकाररूपधृत् । मणिपर्वतसंस्थानो मणिभूषणभूषितः ॥ १५३॥ मणिप्रीतो मणिश्रेष्ठो मणिस्थो मणिरूपकः । चिन्तामणिगृहान्तस्थः सर्वचिन्ताविवर्जितः ॥ १५४॥ चिन्ताक्रान्तभक्तचिन्त्यो चिन्तनाकारचिन्तकः । अचिन्त्यश्चिन्त्यरूपश्च निश्चिन्त्यो निश्चयात्मकः ॥ १५५॥ निश्चयो निश्चयाधीशो निश्चयात्मकदर्शकः । त्रिविक्रमस्त्रिकालज्ञस्त्रिमूर्तिस्त्रिपुरान्तकः ॥ १५६॥ ब्रह्मचारी व्रतप्रीतो गृहस्थो गृहवासकः । परम्धाम परंब्रह्म परमात्मा परात्परः ॥ १५७॥ सर्वेश्वरः सर्वमयः सर्वसाक्षी विलक्षणः । मणिद्वीपो द्वीपनाथो द्वीपान्तो द्वीपलक्षणः ॥ १५८॥ सप्तसागरकर्ता च सप्तसागरनायकः । महीधरो महीभर्ता महीपालो महास्वनः ॥ १५९॥ महीव्याप्तोऽव्यक्तरूपः सुव्यक्तो व्यक्तभावनः । सुवेषाढ्यः सुखप्रीतः सुगमः सुगमाश्रयः ॥ १६०॥ तापत्रयाग्निसन्तप्तसमाह्लादनचन्द्रमाः । तारणस्तापसाराध्यस्तनुमध्यस्तमोमहः ॥ १६१॥ पररूपः परध्येयः परदैवतदैवतः । ब्रह्मपूज्यो जगत्पूज्यो भक्तपूज्यो वरप्रदः ॥ १६२॥ अद्वैतो द्वैतचित्तश्च द्वैताद्वैतविवर्जितः । अभेद्यः सर्वभेद्यश्च भेद्यभेदकबोधकः ॥ १६३॥ लाक्षारससवर्णाभः प्लवङ्गमप्रियोत्तमः । शत्रूसम्हारकर्ता च अवतारपरो हरः ॥ १६४॥ संविदीशः संविदात्मा संविज्ज्ञानप्रदायकः । संवित्कर्ता च भक्तश्च संविदानन्दरूपवान् ॥ १६५॥ संशयातीतसंहार्यः सर्वसंशयहारकः । निःसंशयमनोध्येयः संशयात्मातिदूरगः ॥ १६६॥ शैवमन्त्र शिवप्रीतदीक्षाशैवस्वभावकः । भूपतिः क्ष्माकृतो भूपो भूपभूपत्वदायकः ॥ १६७॥ सर्वधर्मसमायुक्तः सर्वधर्मविवर्धकः । सर्वशास्ता सर्ववेदः सर्ववेत्ता सतृप्तिमान् ॥ १६८॥ भक्तभावावतारश्च भुक्तिमुक्तिफलप्रदः । भक्तसिद्धार्थसिद्धिश्च सिद्धिबुद्धिप्रदायकः ॥ १६९॥ वाराणसीवासदाता वाराणसीवरप्रदः । वाराणसीनाथरूपो गङ्गामस्तकधारकः ॥ १७०॥ पर्वताश्रयकर्ता च लिङ्गं त्र्यम्बकपर्वतः । लिङ्गदेहो लिङ्गपतिर्लिङ्गपूज्योऽतिदुर्लभः ॥ १७१॥ रुद्रप्रियो रुद्रसेव्य उग्ररूप विराट् स्तुतः । मालारुद्राक्षभूषाङ्गो जपरुद्राक्षतोषितः ॥ १७२॥ सत्यसत्यः सत्यदाता सत्यकर्ता सदाश्रयः । सत्यसाक्षी सत्यलक्ष्मी लक्ष्म्यातीतमनोहरः ॥ १७३॥ जनको जगतामीशो जनिता जननिश्चयः । सृष्टिस्थितः सृष्टिरूपी सृष्टिरूपस्थितिप्रदः ॥ १७४॥ संहाररूपः कालाग्निः कालसंहाररूपकः । सप्तपातालपादस्थो महदाकाशशीर्षवान् ॥ १७५॥ अमृतश्चामृताकारः अमृतामृतरूपकः । अमृताकारचित्तिस्थः अमृतोकृवकारणः ॥ १७६॥ अमृताहारनित्यस्थस्त्वमृतोद्भवरूपवान् । अमृतांशोऽमृताधीशोऽमृतप्रीतिविवर्धनः ॥ १७७॥ अनिर्देश्यो अनिर्वाच्यो अनङ्गोऽनङ्गसंश्रयः । श्रयेदः श्रेयो रूपश्च श्रेयोऽतीतफलोत्तमः ॥ १७८॥ सारः संसारसाक्षी च सारासारविचक्षणः । धारणातीतभावस्थो धारणान्वयगोचरः ॥ १७९॥ गोचरो गोचरातीतः अतीव प्रियगोचरः । प्रियप्रियः तथा स्वार्थी स्वार्थः स्वार्थफलप्रदः ॥ १८०॥ अर्थार्थसाक्षी लक्षांशो लक्ष्यलक्षणविग्रहः । जगदीशो जगत्त्राता जगन्मयो जगद्गुरुः ॥ १८१॥ गुरुमूर्तिः स्वयंवेद्यो वेद्यवेदकरूपकः । रूपापीतो रूपकर्ता सर्वरूपार्थदायकः ॥ १८२॥ अर्थदस्त्वर्थमान्यच अर्थार्थी अर्थदायकः । विभवो वैभवः श्रेष्ठः सर्ववैभवादायकः ॥ १८३॥ चतुःषष्टिकलासूत्रः चतुःषष्टिकलामयः । पुराणश्रवणाकारः पुराणपुरुषोत्तमः ॥ १८४॥ पुरातनपुराख्यातः पूर्वजः पूर्वपूर्वकः । मन्त्रतन्त्रार्थसर्वज्ञः सर्वतन्त्रप्रकाशकः ॥ १८५॥ तन्त्रवेता तन्त्रकर्ता तन्त्रातरनिवासकः । तन्त्रगम्यस्तन्त्रमान्यस्तन्त्रयन्त्रफलप्रदः ॥ १८६॥ सर्वतन्त्रार्थतत्त्वज्ञस्तन्त्रराजः स्वतन्त्रकः । ब्रह्माण्डकोटिकर्ता च ब्रह्माण्डोदरपूरकः ॥ १८७॥ ब्रह्माण्डदेशदाता च ब्रह्मज्ञानपरायणः । स्वयम्भूः शम्भुरूपश्च हंसविग्रहनिस्पृहः ॥ १८८॥ श्वासिनिः श्वास उच्छ्वासः सर्वसंशयहारकः । सोऽहंरूपस्वभावश्च सोऽहंरूपप्रदर्शकः ॥ १८९॥ सोऽहमस्मीति नित्यस्थः सोऽहं हंसः स्वरूपवान् । हंसोहंसः स्वरूपश्च हंसविग्रहनिःस्पृहः । श्वासनिःश्वासौच्छ्वासः पक्षिराजो निरञ्जनः ॥ १९०॥ ॥ फलश्रुति ॥ अष्टाधिकसहस्रं तु नाम साहस्रमुत्तमम् । नित्यं सङ्कीर्तनासक्तः कीर्तयेत्पुण्यवासरे ॥ १९१॥ सङ्क्रातौ विषुवे चैव पौर्णमास्यां विशेषतः । अमावस्यां रविवारे त्रिःसप्तवारपाठकः ॥ १९२॥ स्वप्ने दर्शनमाप्नोति कार्याकार्येऽपि दृश्यते । रविवारे दशावृत्या रोगनाशो भविष्यति ॥ १९३॥ सर्वदा सर्वकामार्थी जपेदेतत्तु सर्वदा । यस्य स्मरण मात्रेण वैरिणां कुलनाशनम् ॥ १९४॥ भोगमोक्षप्रदं श्रेष्ठं भुक्तिमुक्तिफलप्रदम् । सर्वपापप्रशमनं सर्वापस्मारनाशनम् ॥ १९५॥ राजचैरारि मृत्युनां नाशनं जयवर्धनम् । मारणे सप्तरात्रं तु दक्षिणाभिमुखो जपेत् ॥ १९६॥ उदङ् मुखः सहस्रं तु रक्षाणाय जपेन्नैशि । पठतां श‍ृण्वतां चैव सर्वदुःखविनाशकृत् ॥ १९७॥ धन्यं यशस्यमायुष्यमारोग्यं पुत्रवर्धनम् । योगसिद्धिप्रदं सम्यक् शिवं ज्ञानप्रकाशितम् ॥ १९८॥ शिवलोकैकसोपानं वाञ्छितार्थैकसाधनम् । विषग्रहक्षयकरं पुत्रपौत्राभिवर्धनम् ॥ १९९॥ सदा दुःस्वप्नशमनं सर्वोत्पातनिवारणम् । यावन्न दृश्यते देवि शरभो भयनाशकः ॥ २००॥ तावन्न दृश्यते जाप्यं बृहदारण्यको भवेत् । सहस्रनाम नाम्न्यस्मिन्नेकैकोच्चारणात्पृथक् ॥ २०१॥ स्नातो भवति जाह्नव्यां दिव्या दृष्टिः स्थिरो भुवि । सहस्रनाम सद्विद्यां शिवस्य परमात्मनः ॥ २०२॥ योऽनुष्ठास्यति कल्पान्ते शिवकल्पो भविष्यति । हिताय सर्वलोकानां शरभेश्वर भाषितम् ॥ २०३॥ स ब्रह्मा स हरिः सोऽर्कः स शक्रो वरुणो यमः । धनाध्यक्षः स भगवान् सचैकः सकलं जगत् ॥ २०४॥ सुखाराध्यो महादेवस्तपसा येन तोषितः । सर्वदा सर्वकामार्थं जपेत्सिध्यति सर्वदा ॥ २०५॥ धनार्थी धनमाप्नोति यशोर्थी यश आप्नुयात् । निष्कामः कीर्तयेन्नैत्यं ब्रह्मज्ञानमयो भवेत् ॥ २०६॥ बिल्वैर्वा तुलसीपुष्पैश्चम्पकैर्बकुलादिभिः । कल्हारैर्जातिकुसुमैरम्बुजैर्वा तिलाक्षतैः ॥ २०७॥ एभिर्नाम सहस्रैस्तु पूजयेद् भक्तिमान्नरः । कुलं तारयते तेषां कल्पे कोटिशतैरपि ॥ २०८॥ ॥ इति श्रीशरभसहस्रनामस्तोत्रम् (३) सम्पूर्णम् ॥