अक्षर आकार:

श्रीशरभसहस्रनामस्तोत्रम् २

Sharabhasahasranamastotram 2

श्रीशरभसहस्रनामस्तोत्रम् २

हरिहरविरचितम् - आकशभैरव तन्त्रे श्री गणेशाय नमः ॥ ॐ खें खां खं फट् प्राण ग्रहासि प्राण ग्रहासि हुं फट् सर्व शत्रु संहारणाय शरभ सालुवाय पक्षिराजाय हु फट् स्वाहा ॥ द्विचत्वारिंशद्वर्णः ॐ अस्य श्री शरभ मन्त्रस्य कालाग्नि रुद्र ऋषिर्जगती छन्दः श्री शरभेश्वरो देवता ऊं बीजं स्वाहा शक्ति फट् कीलकं श्री शरभेश्वर प्रीत्यर्थे जपे विनियोगः । शिरसि कालाग्नि रुद्राय ऋषये नमः । मुखे जगती छन्दसे नमः ॥ हृदि शरभेश्वराय देवतायै नमः गुह्ये ऊँ बीजाय नमः । पादयो स्वाहा शक्तये नमः ॥ सर्वाङ्गं हुं फट् कीलकाय नमः ॥ ऊँ खें खां अङ्गुष्ठाभ्यां नमः ॥ खं फट् तर्जनीभ्यां स्वाहा ॥ प्राणग्रहासि प्राणग्रहासि हुं फट् मध्यमाभ्यां वषट् । सर्वशत्रु संहारणाय अनामिकाभ्यां हुम् ॥ शरभ-सालुवाय कनिष्ठिकाभ्यां वौषद् ॥ पक्षिराजाय हुं फट् स्वाहा करतलकर पृष्ठाभ्यां फट्त्र ॥ अथ हृदयादि न्यास ॥ ॐ खें खां हृदयाय नमः ॥ ॐ खं फट् शिरसे स्वाहा ॥ प्राणग्रहासि प्राणग्रहासि हुं फट् शिखायै वषट् ॥ सर्वशत्रु संहारणाय कवचाय हुम् ॥ शरभ सालुवाय नेत्रत्रयाय वौषट् ॥ पक्षिराजाय हुं फट् स्वाहा अस्त्राय फट् ॥ ॥ ध्यानम् ॥ चन्द्रार्कौवह्निदृष्टिः कुलिशवरनखश्चञ्चंलोत्युग्रजिह्वः । काली दुर्गा च पक्षौ हृदयजठरगौभैरवो वाडवाग्निः ॥ ऊरुस्थौ व्याधिमृत्यु शरभवर खगश्चण्ड वातातिवेगः । संहर्ता सर्वशत्रून् स जयति शरभः शालुवः पक्षिराजः ॥ १॥ वर्णसहस्रं जपः ॥ पायसेन घृताक्तेन होमः ॥ अथ सङ्कल्पः । गौरीवल्लभ कामारे कालकूटविषादन । मामुद्धरापदाम्माधेस्त्रिपुरध्नान्त कान्तक ॥ अथ श्रीशरभसहस्रनामस्तोत्रम् ॥ ॐ सर्वभूतात्मभूतस्य रहस्यमित तेजस । अष्टोत्तरसहस्रं तु नाम्नां सर्वस्य मे श‍ृणु ॥ १॥ यच्छ्रुत्वा मनुज व्याघ्र सर्वान्तामानवाप्यसि । स्थिरः स्थाणुः प्रभुर्भीमः प्रभवो वरदो वरः ॥ २॥ जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः । हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥ ३॥ प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः । श्मशानवासी भगवान् वचसोऽगोचरो धनः ॥ ४॥ अतिवाधो महाकर्मा तपस्वी भूतभावनः । उन्मत्तवृषोथ प्रच्छन्नः सर्वलोकप्रजापतिः ॥ ५॥ महारूपो महाकायो वृषरूपो महायशाः । महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः ॥ ६॥ लोकपालोऽतर्हितात्मा प्रसादो हयगर्दभी । पवित्रश्च महांश्चैव नियमो निगमप्रिय ॥ ७॥ सर्वकर्मा स्वयम्भूश्च आदिसृष्टिकरो निधि । सहस्राक्षो विरूपाक्षः सोमो नक्षत्रसाधकः ॥ ८॥ सूर्यचन्द्रगतिः केतुर्ग्रहो ग्रहपतिर्वरः । अदारिद्रघ्नालय कर्ता मृगबाणार्पणोनघः ॥ ९॥ महातपा दीर्घतपा अदीनो दीनसाधनः । संवत्सरकरो मन्त्री प्रमाणं परमं तपः ॥ १०॥ योगी योग्यो महाबीजो महारेता महातपाः । सुवर्णरेताः सर्वज्ञः सुवीजो वृषवाहनः ॥ ११॥ दशबाहुश्च निमिषो नीलकण्ठ उमापतिः । बहुरूपः स्वयंश्रेष्ठो बलिर्वैरोचनो गणः ॥ १२॥ गणकर्त्ता गणपतिर्दिग्वासाः काम एव च । मन्त्रवित्परमोमन्त्रः सर्वभावकरो हरः ॥ १३॥ कमण्डलुधरो धन्वी वाणहस्तः कपालवान् । अशिनी शतघ्नी खण्डी पट्टिशश्चायुधी महान् ॥ १४॥ श्रुतिहस्तः सरूपश्च तेजस्तेजस्करो विभुः । उश्नीषी च सुवक्त्रश्च उदग्रो विनयस्तथा ॥ १५॥ दीर्घश्च हरिनेत्रश्च सुतीर्थः कृष्ण एव च । श‍ृगालरूपः सर्वार्थो मुण्डः सर्वकमण्डलुः ॥ १६॥ अजश्च मृगरूपश्च गन्धचारी कपर्दिनः । ऊर्ध्वरेता उर्ध्वलिङ्ग उर्ध्वशायी नभस्तलः ॥ १७॥ त्रिजटश्चौरवासी च रुद्रसेनापतिर्विभुः । नक्तञ्चरोतितिग्मश्च अहश्चारी सुवर्चसः ॥ १८॥ गजहा दैत्यहा चैव लोकभ्राता गुणाकरः । सिंहशार्दूलरूपश्च आर्द्रचर्मांवरो वरः ॥ १९॥ कालयोगी महाकालः सर्ववासाश्चतुष्पथ । निशाचर प्रेतचारी भूतचारी महेश्वरः ॥ २०॥ बहुरूपो बहुधन सर्वाधारा मनोगतिः । नृत्यप्रियो नृत्यतृप्तो नृत्यकः सर्वमालयः ॥ २१॥ धोषो महातपा ईशो नित्यो गिरिचरो नभः । सहस्रहस्तो विजयो व्यवसायोह्यनिन्दितः ॥ २२॥ अमर्षणो महामर्षी ई यशकामो मनोमयः । दक्षयज्ञापहारी च सुखदो मध्यमस्तथा ॥ २३॥ तेजोपहारी बलहा मुदितोप्यजितो भवः । दम्भी द्वेषी गम्भीरो गम्भीरबलवाहनः ॥ २४॥ न्यग्रोधरूपो न्यग्रोधो वृक्षकर्त्तास्गवृद्विभुः । तीक्ष्णव्वाहुश्च हर्षश्च सहायः सर्वकालवित् ॥ २५॥ विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः । हुताशन सहायश्च प्रशान्तात्मा हुताशनः ॥ २६॥ उग्रतेजा महातेजा जयो (जयो) विजय कालवित् । ज्योतिषामयनः सिद्धिः सन्धिविग्रह एव च ॥ २७॥ शिखी दण्डी जटी ज्वाली मृत्युजिद्दुर्धरो वली । वैष्णवी पणवीताली कालः काटकटङ्करः ॥ २८॥ नक्षत्रविग्रहविधिर्गुणवृद्धिलयोगमः । प्रजापति दिशा वाहु विभागः सर्वतोमुखः ॥ २९॥ वैरोचनो सुरगणो हिरण्यकवचोद्धवः । अप्रज्यो वालचारी च महाचारी स्तुतस्तथा ॥ ३०॥ सर्वतूर्य निनादी च सर्वनाथ परिग्रहः । व्यालरूपो विलावासी हेममाली तरङ्गवित् ॥ ३१॥ त्रिदिशस्त्रिदिशावासी सर्वबन्धविमोचनः । बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः ॥ ३२॥ साक्षात्प्रसादो दुर्वासा सर्वसाधुनिषेवितः । पुस्कन्दनो विभावश्च अतुल्यो यज्ञभागवित् ॥ ३३॥ सर्वचारी सर्ववासो दुर्वासा वाङ्मनोभवः । हेमो हेमकरो यज्ञः सर्ववीरो नरोत्तमः ॥ ३४॥ लोहिताक्षो महोक्षश्च विजयाख्यो विशारदः । सद्ग्रहो विग्रहो कर्मा मोक्षः सर्वनिवासनः ॥ ३५॥ मुख्यो मुक्तश्च देहश्च देहार्थः सर्वकामदः । सर्वकालप्रसादश्च सुवलो वलरूपधृक् ॥ ३६॥ आकाशनिधिरूपश्च निषादी उरगः खगः । रौद्ररूपी पांसुरादीः वसुरग्निः सुवर्चसी ॥ ३७॥ वसुवेगो महावेगो महायक्षो निशाकरः । सर्वभावप्रियावासी उपदेशकरो हरः ॥ ३८॥ मनुरात्मा पतिर्लोकी सम्भोज्यश्च सहस्रशः । पक्षी च पक्षिरूपी च अतिदीप्तो विशाम्पतिः ॥ ३९॥ उन्मादो मदनः कामोह्यास्योर्थकरोयशः । वामदेवश्च रामश्च प्राग्दक्षिणश्च वामनः ॥ ४०॥ सिद्धयोगो महर्षिश्च सिद्धार्थः सिद्धिसाधकः । विष्णुश्च भिक्षुरूपश्च विषध्नो मृदुरव्ययः ॥ ४१॥ महासेनो विशाखश्च वृष्टिभोगो गवां पति । वज्रहस्तश्च विष्कुम्भी च भूस्तम्भन एव च ॥ ४२॥ वृत्तो वृत्तकरः स्थणुर्मधुमधुकरो धनः । वाचस्पत्यो वाजसेनो नित्यमाश्रमपूजितः ॥ ४३॥ ब्रह्मचारी लोकचारी सर्वचारी विचारवित् । ईशान ईश्वरः कालो निशाचारी पिनाकधृक् ॥ ४४॥ निमित्तज्ञो (स्थो) निमत्तश्च नन्दिर्नादकरो हरिः । नदीश्वरश्च नन्दी च नन्दिनो नन्दिवर्द्धनः ॥ ४५॥ भगहारी निहन्ता च कालो ब्रह्मा पितामहः । चतुर्मुखो महालिङ्गश्चतुर्लिङ्गस्थैव च ॥ ४६॥ लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः । बीजाध्यक्षो बीजकर्त्ता अध्यात्मानुगतो बलः ॥ ४७॥ इतिहासः सकल्पश्च गौतमोथ निशाकरः । दभोह्यदभो वैदम्भो वश्यो वश्यकरः कलिः ॥ ४८॥ लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः । अक्षरं परमं ब्रह्म वलटाच्छन्न एव च ॥ ४९॥ नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतिः । बहुप्रसाद सुस्वप्नो दर्पणोथत्वमित्रजित् ॥ ५०। वेदकारो मन्त्रकारो विद्वान्समरमर्दनः । महामोघनिवासी च महाघोरो वशीकरः ॥ ५१॥ अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः । वृषलः शङ्करो नित्यो वर्चसी धूम्रलोचनः ॥ ५२॥ नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः । स्वस्तिदः स्वस्तिभावश्च भोगी भोगकरो लघुः ॥ ५३॥ उत्सङ्गश्च महाङ्गश्च महाभोगो परायणः । कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम् ॥ ५४॥ महापादो महाहस्तो महाकायो महायशाः । महामूर्द्धा महामात्रो महानेत्रो निशालयः ॥ ५५॥ महान्तको महाकर्णो महोक्षश्च महाहनुः । महाननो महाकंवुर्महाग्रीवः श्मशानभाक् ॥ ५६॥ महावक्षा महोरस्को ह्यन्तरामा मृगालयः । लम्बितो लम्बितोष्टश्च महामाया पयोनिधि ॥ ५७॥ महादन्तो महादंष्ट्रो महाजिह्वो महामुखः । महानखो महारोमा महाकेशो महाजरः ॥ ५८॥ प्रसन्नश्च प्रसादश्च प्रतयो योगिसाधनः । स्नेहनोतिशुभस्नेहः अजितश्च महामुनिः ॥ ५९॥ वृक्षकारो वृक्षकेतुः अनलो वायुवाहनः । मण्डली धामश्च देवाधिपतिरेव च ॥ ६०॥ अथर्वशीर्षः सामास्यः ऋक् साहस्र मितेक्षणः । यजुः पादभुजागुह्यः प्रकाशो जङ्गमस्तथा ॥ ६१॥ अमोधार्थप्रसादश्च अतिगम्यः सुदर्शनः । उपकारप्रियः सर्वः कनकः काञ्चनस्थितः ॥ ६२॥ नाभिर्नदिकरो भावः पुष्करस्य पतिस्थिरः । द्वादशास्त्रमसश्वाघो यज्ञो यज्ञसमाहितः ॥ ६३॥ नक्तं कलिश्च कालश्च ककारः कालपूजितः । सवाणो गणकारश्च भूतवाहनसारथिः ॥ ६४॥ भस्मशायी भस्मगोप्ता भस्मभूतस्तमोगुणः । लोकपालस्तथा लोको महात्मा सर्वपूजितः ॥ ६५॥ शुक्लस्त्रिशुक्लसम्पन्नः शुचिर्भूतनिषेवितः । आश्रमस्थः क्रियावस्थो विश्वकर्मा मतिर्वरः ॥ ६६॥ विशालशाखस्ताम्रोष्टोह्यम्बुजालः सुनिश्चलः । कपिलः कपिलः शुक्ल आयुश्चैव परोवरः ॥ ६७॥ गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः । परश्वधायुधो देव अन्धकारिः सुवान्धवः ॥ ६८॥ तुम्बवीणो महाक्रोध ऊर्ध्वंरेता जलेशयः । उग्रो वंशकरो द्वंशो वंशनादोह्यनिन्दितः ॥ ६९॥ सर्वाङ्गरूपो मायावी सुह्यदोह्यनिलोनलः । बन्धनो बन्धकर्ता च सुबधुरविमोचनः ॥ ७०॥ मेषजारिः सुकर्मारिर्महादंष्ट्रसमो युधि । बहुस्वनिर्मितः सर्वः शङ्करः शङ्करो वरः ॥ ७१॥ अमरेशो महादेवो विश्वदेवः सुरारिहा । निसङ्गश्चाहिर्बुध्य्नश्चाकिताक्षो हरिस्तथा ॥ ७२॥ अजैकपालपालीच त्रिशङ्कुरजितः शिवः । धन्वतरिर्धूम्रकेतुः स्कन्दो वैश्रवणस्तथा ॥ ७३॥ धाता शक्रश्च विश्वश्च मित्रस्त्वष्ठाध्रुवो वसुः । प्रभावः सर्वगो वायुरर्यमासवितारथिः ॥ ७४॥ उग्रदंष्ट्रो विधाता च मान्धाता भूतभावनः । रतिस्तीर्थश्च वाग्मी च सर्वकर्मगुणावह ॥ ७५॥। पद्मवक्रो महावक्रश्चन्द्रवक्रो मनोरमः । वलयान्यश्च शान्तश्च पुराणः पुण्यवर्चसः ॥ ७६॥ कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः । शर्वो सर्वो दर्भशायी सर्वेषां प्राणिनां पतिः ॥ ७७॥ देवदेव सुखाशक्तः सदसत्संवररत्नवित् । कैलासशिखिरावासी हिमवद्गिरिसंश्रयः ॥ ७८॥ कूलहारी कूलकर्त्ता बहुबीजो बहुप्रदः । वनिजो वर्द्धनो दक्षो नकुलश्चदनश्छदः ॥ ७९॥ सारग्रीवी महाजन्तुरत्नकश्च महौषधिः । सिद्धार्थकारी सिद्धार्थः छन्दो व्याकरणानि च ॥ ८०॥ सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः । प्रभावात्मा जरास्तालोल्लोकाहितान्तकः ॥ ८१॥ सारगोऽसुखवक्रान्त केतुमाली स्वभावतः । भूताश्रयो भूतपतिरहोरात्रमनिन्दकः ॥ ८२॥ आसनः सर्वभूतानां निलयः विभुभैरवः । अमोघसर्वभूषास्यो याजनः प्राणहारकः ॥ ८३॥ धृतिमान् ज्ञातिमान् दक्षः सत्कृतश्च युगाधिपः । गोपालो गोपतिर्गोप्ता गोश्चवसनो हरः ॥ ८४॥ हिरण्यबाहुश्च तथा गुहयकालः प्रवेशकः । प्रतिष्ठायां महाहर्षोञ्जितकामो जितेन्द्रियः ॥ ८५॥ गान्धारश्च सुशीलश्च तपः कर्मरतिर्धनः । महागीतो महाब्रह्मार्ह्मक्षरो गणसेवितः ॥ ८६॥ महाकेतुः कर्मधातनैकतानश्चराचरः । अवेदनीय आवेशः सर्वगन्धसुखावहः ॥ ८७॥ तोरणास्तरणो वायुः परिधावति चैतकः । संयोगो वर्द्धनो वृद्धो महावृद्धो गणाधिपः ॥ ८८॥ नित्यो धर्मसहायश्च देवासुरपतिः पतिः । अमुक्तो मुस्तबाहुश्च द्विविधश्च सुपर्वणः ॥ ८९॥ आषाढश्च सुखाढ्यश्च ध्रुवो हरिहयो हरिः । वसुरावर्त्तनो नित्यो वसुश्रेष्ठो महामदः ॥ ९०॥ शिरोहारी च वर्षी च सर्वलक्षणभूषितः । अक्षरश्चाक्षयो योगी सर्वयोगी महावलः ॥ ९१॥ समाम्नायोऽसमाम्नायस्तीर्थदेवो महाद्युतिः । निर्बीजो जीवनो मन्त्रो अनघो बहुकर्कशः ॥ ९२॥ रक्तप्रभूतो रक्ताङ्गो महार्णवनिनादकृत् । मूलो विशाखो यमृतोक्तयक्तोव्यः सनातनः ॥ ९३॥ आरोहणो निरंहश्च शैलहारी महातपाः । सेनाकल्पो महाकल्पो युगो युगङ्करो हरिः ॥ ९४॥ युगरूपो महारूपो पवनो गहनो नगः । न्यायनिर्वापणो नादः पण्डितोह्यचलोपमः ॥ ९५॥ बहुमालो महामालः सुमालो बहुलोचनः । विस्तारो लवणः क्रूरः ऋतुमासफलोदयः ॥ ९६॥ वृषभो वृषभागाङ्गो मणिबन्धुर्जटाधरः । इन्द्रो विसर्गः सुमुखः सुरः सर्वायुधः सहः ॥ ९७॥ निवेशनः सुधन्वा च पूगगन्धो महाहनुः । गन्धमाली च भगवान् सानन्दः सर्वकर्मणाम् ॥ ९८॥ मात्मनो बाहुलो बाहुः सकलः सर्वलोचनः । रुद्रस्तालीकरस्ताली ऊर्ध्वसंहतलोचनः ॥ ९९॥ छत्रपद्मः सुविख्यातः सर्वलोकाश्रयो महान् । मुण्डो विरूपो बहुलो दण्डी मुण्डो विकुण्डलः ॥ १००॥ हर्यक्षः ककुभोक वज्री दीप्तावर्चः सहस्रपात् । सहस्रमूर्द्धा देवेद्रः सर्वभूतमयो हरि ॥ १०१॥ सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वकर्मकृत् । पवित्रः स्निग्धयुर्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ॥ १०२॥ ब्रह्मदण्डविनिर्वातः शरघ्नः शरतापधृक् । पद्मगर्भो महागर्भो पद्मगर्भो जलोद्भव ॥ १०३॥ गभस्तिर्ब्रह्मकृत् ब्रह्म ब्रह्मकृद् ब्राह्मणो गति । अनन्तरूपो नैकात्मा तग्मतेजात्मसम्भवः ॥ १०४॥ ऊर्ध्वगात्मा पशुपतिः वीतुरङ्गा मनोजवः । वन्दनी पद्ममाली च गुणज्ञो स्वगुणोत्तरः ॥ १०५॥ कर्णिकारो महास्रग्वी नीलमौली पिनाकधृक् । उमापतिरुमाकान्तो जान्हवीहृदयङ्गमः ॥ १०६॥ वीरो वराहो वरदो वरेशश्च महामना । महाप्रभावस्त्वनघः शत्रुहा श्वेतपिङ्गलः ॥ १०७॥ प्रीतात्मा प्रयत्तात्मा च संयतात्मा प्रधानधृक् । सर्वपार्श्वस्तुतस्तार्क्ष्यो धर्मः साधारणो वरः ॥ १०८॥ चराचरात्मा सूक्ष्मात्मा गोवृषो गोवृषेश्चरः । साध्यर्षिर्वसुरादित्यो विवस्वान् सविता मृगः ॥ १०९॥ व्यासः सर्वस्य सङ्क्षेपो विस्तारः पर्ययोनयः । ऋतुः संवत्सरो मासः पक्षः सङ्ख्या परायणः ॥ ११०॥ कला काष्टा लयो मात्रा मुहूर्तः पक्षपाक्षणः । विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्त्वनिन्दितः ॥ १११॥ सद्व्यवतमव्यक्त पिता माता पितामहः । स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ ११२॥ निर्वाणं ज्ञानदं चैव ब्रह्मलोक परागतिः । देवासुरगुरुर्देवो देवासुरनमस्कृतः ॥ ११३॥ देवासुरमहामात्रो देवासुरसमाश्रय । देवासुरगणाध्यक्षो देवासुरगणाधिपः ॥ ११४॥ देवासुरेश्वरो देवो देवासुरमहेश्वरः । सर्वदेवमयो चिन्त्यो देवानामात्मसम्भवः ॥ ११५॥ उद्भिज्जस्त्रिक्रमो वैद्यो विराजो वरदो वरः । ईज्यो हस्तिमुखो व्याघ्री देवसिंहो नरर्षभः ॥ ११६॥ विबुधाग्रवरश्रेष्ठः सर्वदेवोत्तमोत्तमः । गुरुः कान्तो निजः सर्वः पवित्रः सर्ववाहनः ॥ ११७॥ प्रयुक्तः शोभनो वज्र ईशानः प्रभुरव्ययः । भृगी भृङ्गप्रियो बभ्रू राजराजो निरामयः ॥ ११८॥ अविरामः सुशरणो विरामः सर्वसाधनः । ललाटाक्षो विश्वदेहो हारिणो ब्रह्मवर्चसी ॥ ११९॥ स्थावराणां पतिश्चैव नियमेन्द्रियवर्द्धनः । सिद्धार्थः सर्वसिद्धार्थोनित्यः सत्यव्रतः शुचिः ॥ १२०॥ व्रतादिर्यत्परं ब्रह्म मुक्तानां परमागतिः । विमुक्तो दीर्घतेजाश्च श्रीमान् श्रीवर्द्धनो जगत् ॥ १२१॥ यथा प्रसादो भगवानिति भक्त्या स्तुतो मया । यन्न ब्रह्मादयो देवा विदुर्यन्न महर्षयः ॥ १२२॥ तंस्तवीम्यहमाद्यं च कस्तोष्यति जगत्प्रभुम् । भक्तिश्चैव पुरस्कृत्य मया यज्ञपतिर्वसुः ॥ १२३॥ ततोऽनुज्ञापयामासस्तुतो मतिमतां गतिः । शिव एवं स्तुतो देवैः नामभिः पुष्टिवर्द्धनैः ॥ १२४॥ नित्ययुक्तः शुचिर्भूत्वा प्राप्न्योत्यात्मानमात्मनः । एतद्धिपरमं ब्रह्मा स्वयङ्गीतं स्वयम्भुवा ॥ १२५॥ ऋषयश्चैव देवाश्च स्तुवन्त्येते नु तत्परम् । स्तूयमानो महादेवः प्रीयते चात्मनापतिः ॥ १२६॥ भक्तानुकम्पी भगवानात्मसंस्थान् करोति तान् । तथैव च मनुष्येषु यत्र कुत्र प्रधानतः ॥ १२७॥ आस्तिकः श्रद्दधानश्च बहुभिर्जन्मभिः स्तवैः । जाग्रतोथ स्वपतश्च व्रजन्तो गतिसंस्थिताः ॥ १२८॥ स्तुवन्ति स्तूयमाने च चतुष्पथि रमन्ति च । जन्मकोटिसहस्रेषु नानासंसारयोनिषु ॥ १२९॥ जन्तोर्विशुद्धपापस्य भवे भक्तिः प्रजायते । उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः ॥ १३०॥ एतद्देवेषु दुःप्रापो मानुषेषु न लभ्यते । निर्विघ्ना निश्चला भद्रे भक्तिरव्यभिचारिणी ॥ १३१॥ तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृप । यया याति परां सिद्धिं तद्भागवतमानसः ॥ १३२॥ ये सर्वभावोपहताः परत्वेनानुभाविताः । प्रपन्नवत्सला देवः संसारात्तान् समुद्धरेत् ॥ १३३॥ एवमन्येपि कुर्वन्ति देवाः संसारमोचनम् । मनुष्याणां महादेवादन्यत्रापि तपोबलात् ॥ १३४॥ इति तेनेदं कल्यायाय भगवान् सदसत् पतिः । कृत्तिवासा धुवं पूर्वं ताडिता शुद्धबुद्धयः ॥ १३५॥ स्तवमेनं भगवति ब्रह्मो स्वयमधारयत् । ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे ॥ १३६॥ मृत्युः प्रोवाच रुद्रेभ्यो रुद्रेभ्यस्तण्डिमागयत् । महता तपसा प्राप्तस्तण्डिना ब्रह्म सम्मतिः ॥ १३७॥ स्तण्डीः प्रोवाच शुक्राय गौतमायाह भार्गवः । वैवस्वताय भगवान् गौतमः प्राह साधवे ॥ १३८॥ नारायणाय साध्याय मनुरिष्टाय धीमते । यमाय प्राह भगवान् साध्यो नारायणोव्ययः ॥ १३९॥ नाचिकेताय भगवानाह वैवस्वतो यमः । मार्कण्डेयाय वार्ष्णेय नाचिकेताभ्यभाषत ॥ १४०॥ तथाप्यहममित्रघ्नस्तावन्द्धाद्य विश्रुतम् । स्वर्ग्यमारोगयमायुष्यं धन्यं वेदैश्च सम्मितम् ॥ १४१॥ नास्य विघ्नानि कुर्वन्ति दानवा यक्षराक्षसाः । पिशाचा यातुधान्ताश्च गुह्यका भुजगा अपि ॥ १४२॥ य पठेत्प्रयतः प्रातर्ब्रह्माचारी जितेन्द्रिय । अभिन्नयोगो वर्षन्तु अश्वमेधफलं लभेत् ॥ १४३॥ इयाकाश भैरवतन्त्रे हरिहरब्रह्मविरचिते । शरभसहस्रनामस्तोत्रं सम्पूर्णम् ॥ १४४॥ ॥ इति आकाशभैरवतन्त्रे हरिहरविरचितम् श्रीशरभसहस्रनामस्तोत्रं सम्पूर्णम् ॥