अक्षर आकार:

श्रीशरभसहस्रनामस्तोत्रम्

Shri Sharabha Sahasranama Stotram

श्रीशरभसहस्रनामस्तोत्रम्

श्रीगणेशाय नमः । श्रीदेव्युवाच । देवदेव महादेव भक्तानुग्रहकारक । दुर्लभा शारभीविद्या गुह्याद्गुह्यतरा परा ॥ १॥ गुटिका पादुका सिद्धिस्तथा सिद्धिश्च खेचरी । शापानुग्रहसामर्थ्या परकायाप्रवेशने ॥ २॥ सद्यः प्रत्यक्षकामार्थं कैर्न सेव्या सुरासुरैः । श्रीशिव उवाच । (श्रीमहादेव उवाच) लक्षवारसहस्राणि वारितासि पुनः पुनः ॥ ३॥ स्त्रीस्वभावान्महादेवि पुनस्त्वं परिपृच्छसि । महागुह्यं महागोप्यं वाञ्छाचिन्तामणिः स्मृतम् ॥ ४॥ न वक्तव्यं त्वया देवि शापितासि ममोपरि । सर्वसिद्धिप्रदः साक्षात् शरभः परमेश्वरः ॥ ५॥ तस्य नामसहस्राणि तव स्नेहाद्वदामि ते । श‍ृणु चैकमना भूत्वा सावधानावधारय ॥ ६॥ ब्रह्मा विष्णुश्च रुद्रश्च ईशः कर्ताहमव्ययः । मोहनस्तम्भनाकर्षमारणोच्चाटनक्षमः ॥७॥ सिद्धिप्रदमसिद्धानां ज्ञानिनां ज्ञानसिद्धिदम् । मोक्षप्रदं मुमुक्षुणां नान्यथा श‍ृणु सादरम् ॥ ८॥ वन्ध्या वा काकवन्ध्या वा सद्यः पुत्रप्रदः स्त्रियाम् । सर्वशक्तियुतो दाता दयावान् शरभेश्वरः ॥ ९॥ तस्य नामसहस्राणि कथयामि तव प्रिये । ॐ अस्य श्रीशरभसहस्रनामस्तोत्रमहामन्त्रस्य, श्रीभगवान्कालाग्निरुद्रऋषिः, विराट्छन्दः, श्रीशरभेश्वरपक्षिराजो देवता, ॐ खं बीजं, स्वाहा शक्तिः, फट् इति कीलकं, मम धर्मार्थकाममोक्षार्थे जपे विनियोगः । तत्र खां इत्यादिना कराङ्गन्यासौ कुर्यात् । तत्र मन्त्रः - ॐ खां खां खं फट् सर्वशत्रुसंहारणाय शरभसालुवाय, पक्षिराजाय हुं फट् स्वाहा इति मन्त्रः । ॐ भूर्भुवःस्वरोमिति दिग्बन्धः ॥ अथ ध्यानम् । चन्द्रार्कौ वह्निदृष्टिः कुलिशवरनखश्चञ्चलात्युग्रजिह्वः काली दुर्गा च पक्षौ हृदयजठरगो भैरवो वाडवाग्निः । ऊरूस्थौ व्याधिमृत्यू शरभवरखगश्चण्डवातातिवेगः संहर्ता सर्वशत्रून्स जयति शरभः सालुवःपक्षिराजः ॥ इति ध्यानम् । मृगस्त्वर्द्धशरीरेण पक्षाभ्यां चञ्चुना द्विजः । अधोवक्त्रश्चतुःपाद ऊर्ध्ववक्त्रश्चतुर्भुजः ॥ कालान्तदहनोपम्यो नीलजीमूतनिःस्वनः । अरिस्तद्दर्शनादेव विनष्टबलविक्रमः ॥ सटाछटोग्रतुण्डाय पक्षविक्षिप्तभूभृते (नमः पक्षविक्षिप्तमूर्तये) । अष्टपादाय रुद्राय नमः शरभमूर्तये ॥ इति ध्यात्वा नमस्कृत्य सहस्रनाम पठेदिति सहस्रनामपाठसम्प्रदायः ॥ अथ सहस्रनामानि - ॐ श्रीं श्रीं सिद्धीश्वरः साक्षात् खें खें (खँ खँ) गर्वापहारकः । ह्रीं ह्रीं स्प्रें स्फ्रें ह्सौं ह्सौं ज्लूं ज्लूं पक्षिराजः प्रतापवान् ॥ १॥ ह्रौं शिवाय गिरीशाय तारः संसारपारगः । गतिदो मतिदः श्रीशः क्लीं क्लीं कामकलाधरः ॥ २॥ सिद्धिदः शरभो योगी स्फ्रौं शिवः सिद्धिदायकः । सर्वकल्मषहर्त्ता च क्रीं क्रीं कालकलाधरः ॥ ३॥ प्रीं प्रीं पीताम्बरधरो भस्मोद्धूलितविग्रहः । व्रीं व्रीं विष्णुसमाराध्यः सालुवः शक्तिमान्प्रभुः ॥ ४॥ वीरवीराङ्गणाराध्यो (वीरवीरो गणाराध्यो) ह्रूं ह्रूं सङ्कष्टखण्डनः । शङ्करः शङ्कराराध्यो श्रां श्रीं श्रूं शरभेश्वरः ॥ ५॥ ग्रीं ग्रीं गणपतिः सेव्यः पक्षिराजो महाभुजः । ऐं श्रीं ह्रां ह्रीं ह्सौं ह्रीं क्लीं परमात्मा सुरेश्वरः ॥ ६॥ स्वाहा श्रीदो महावीरो सर्वः सर्वैनमस्कृतः । ऐं क्लीं सौं ह्रौं (ह्रीं) ह्स्फ्रें (ह्व्यैं) ह्रैं खैं श्रैं ह्रैं परमेश्वरः ॥ ७॥ स्वाहा विद्या निधानः श्रीवामदेवः प्रतापवान् । ऐं ऐं वागीश्वरो देवो ह्रैं क्रैं त्रैं रक्षकः शिवः ॥ ८॥ ह्रीं (ह्रैं) फट् स्वाहा व्याघ्रचौरनाशनः सिद्धिसंयुतः । ब्रह्माविष्णुशिवाराध्यः ह्रीं शिवाप्राणवल्लभः ॥ ९॥ भ्रैं भ्रीं भस्मेश्वरीयुक्तो मृं मृं मृत्युजयङ्करः । विश्वम्भरो विश्वकर्ता विश्वभर्ता गुरोर्गुरुः ॥ १०॥ क्लैं (क्लीं) ह्रीं स्वाहा कीर्तियुक्तो ईश्वरः सकलार्थदः । गौरी गिरा महालक्ष्मी ह्रीं ऐं श्रीं नित्यमर्चिता ॥ ११॥ ह्लीं ह्लीं स्वाहा शिवः शम्भो वाचं वाचामगोचरः । ब्रह्मण्यो ब्रह्मकृद्ब्रह्म ज्रौं ज्रौं जाग्रन्महेश्वरः ॥ १२॥ ह्रौं ह्रौं स्वाहा धौतपापः शान्तात्मा शङ्करः (शाङ्करः)खगः । पक्षीन्द्रो पक्षिराजश्च भक्तपक्षकरः परः ॥ १३॥ उत्कृष्टोत्कृष्टकर्ताऽऽत्मा श्रीं विश्वात्मा विभावसुः । क्रीं खीं खीं सुमुखानन्दो घ्रौं ख्रौं म्रौं प्रौं सनातनः ॥१४॥ ऐं स्वाहा श्रीमहादेवः सृष्टिस्थितिलयङ्करः । उग्रतारो महातारो वीरतारो ज्वलोज्ज्वलः ॥ १५॥ कालतारो धरो लोलजिह्वाज्वालो ज्वलोज्ज्वलः । श्रीं ह्रीं क्रैं ज्लूं ह्सौं स्वाहा पार्वतीशः परात्परः ॥ १६॥ वरदः साधकानाञ्च राजवश्यं प्रजावशी (ती) । रैं रैं ध्रैं ध्रैं धराभारो हर्ता कर्ता धुरोधसः ॥ १७॥ वेदमन्त्रार्थगूढात्मा शास्त्रमन्त्रार्थसम्मतः । क्रीं स्वाहा परमो दाता ॐ ॐ निर्वाणसम्पदः ॥ १८॥ क्लौं प्लौं हूं हूं शिवा स्वाहा राज्य (ज)भोगसुखप्रदः । सर्वसौभाग्यसंयुक्तः रां रीं रूं रक्तलोचनः ॥ १९॥ सम्पन्नाक्षो विपन्नाक्षः य्रां (प्रां) य्रीं (प्रीं) ज्रूं ज्वरमर्दनः । क्रीं ह्रीं हूं (ह्रूं) फट् पुनः स्वाहा देवदानवसेवितः ॥ २०॥ काली क्रीं ह्रीं शिवा दुर्गा पक्षद्वयलसच्छुभः । स्वाहामन्त्रान्वितः सत्यः सत्यः सत्यपराक्रमः ॥ २१॥ भीमो भयानको दक्षो द्रीं द्रूं दक्षमखापहः । रोगदोषहरः सिद्धः सिद्धिसाधनतत्परः ॥ २२॥ ह्रौं ह्रीं कालकालज्ञानी मानी दानी सुखावहः । ह्रीं फट् स्वाहा कविस्तर्कः तर्कविद्याचरः पुमान् ॥ २३॥ खर्याङ्गः खेचरीविद्या खां खीं खूं खगतेश्वरः । श्रीं ह्रीं स्वाहायुतो देवो राजराजो सुरेश्वरः ॥ २४॥ इच्छासिद्धीश्वरो देवो क्रियाशक्तिसमन्वितः । आं ईं ऊं ज्ञानसंयुक्तो भगवान्सर्वसर्वजित् ॥ २५॥ ऐं फट् स्वाहा पञ्चतत्त्वात्पञ्चतन्मात्रसायकः । पञ्चकूटाष्टकूटेशो शङ्करश्चन्द्रशेखरः ॥ २६॥ वां वीं वूं (व्रं) वैष्णवीविद्या श्रीं श्रीं स्वाहा धरणीधरः । अव्ययः सर्वकर्ताऽऽत्मा शिवः कालान्तको हरः ॥ २७॥ भूतवेतालजा बाधा शत्रुबाधा रणोद्भवा । ख्रैं ख्रैं (खैं खैं) ह्रूं (हूं) फट् पूर्ण घे घे (घें घें) सालुवाय प्रतापवान् ॥ २८॥ शीघ्रमारणदेवेशः स्वाहा चण्डपराक्रमः । तीक्ष्णनखं तीक्ष्णदण्ष्ट्रं तीक्ष्णरूपभयङ्करः (रम्) ॥ २९॥ तीव्रभक्तप्रतापोग्रं क्रैं ख्रौं (ख्रैं) स्वाहा स्वरूपकम् । सभाजितः सभामान्यः सभासंक्षोभकारकः ॥ ३०॥ क्ष्म्रौं ह्रौ (ह्रौं) क्ष्म्रौ (क्ष्म्रौं) ह्रौं ह्सौं ख्रौं ख्रौं सिद्धि (द्ध)मन्त्रनिवेशितः । श्रीं ह्रीं स्वाहा महादेवो आदिदेवो जगन्मयः ॥ ३१॥ सत्कर्ता सत्कृतावर्तो ख्रें ख्रे (ख्रै)ङ्कारो चिदम्बरः । दिगम्बरो धराधीशो छ्रीं छ्रीं स्वाहा स्वरूपधृक् ॥ ३२॥ आदिविद्या जगद्विद्या क्लूं प्लूं म्लूं ह्रूं (हूं) सुरोन्नतः । वामदक्षिणतोरूपं ह्रीं श्रीं क्लीं शङ्करोऽव्ययः ॥ ३३॥ ख्रौं (ख्रैं) ख्रौं हुं (हूं) हुं (हूं) पुनः श्रीं श्रीं गिरिजाप्रियदर्शनः । स्वाहा विघ्नान्तकः (विद्यान्तकः) सेव्यः सेवाफलप्रदायकः ॥ ३४॥ च्रीं च्रीं छ्रीं क्लीं महाछद्म (द्र्य) छलहर्ता छलापहः । श्रीं ह्रीं स्वाहा शिवः शम्भुर्देवासुरनमस्कृतः ॥ ३५॥ कनकाङ्गदको धीरो मन्त्रतन्त्रवरप्रदः । मन्त्रतन्त्रपराधीनो मन्त्रतन्त्रविहारकः ॥ ३६॥ ऐं ह्रीं क्लीं मन्त्रसन्तुष्टो प्रें (फ्रें) स्वाहा परमेश्वरः । विश्वव्यापी चाव्ययात्मा सिद्धाचारः सुरार्चितः ॥ ३७॥ (विश्वव्याप्यप्रमेयात्मा सिद्धाचौरैः सुरार्चितः) ह्रीं श्रीं क्लीं कमलानन्दो कालकालो निरामयः । हौं (ह्रौं) शिवायनमः स्वाहा भवानीशो भयापहः ॥ ३८॥ ज्रीं क्लीं ज्लूं ज्लूं ह्स्प्रें (ह्स्फ्रौं) ह्रौं ह्रां ह्रां हंसः स्वरूपकः । विकारहर्ता सर्वज्ञो सर्वशत्रुक्षयङ्करः ॥ ३९॥ हूं हूं (ह्रूं ह्रूं) स्वाहा महादेवो मुनीनां प्राणदायकः । स्त्रौः ह्रौं विरागी क्रोधात्मा भ्रूं भ्रूं भस्मेश्वरो हरः ॥ ४०॥ लोकपूज्यो विलोमात्मा मातृकापरि (वर्ण)चारकः । क्लीं त्रीं फट् श्रीं जगद्ध (द्भ)र्ता स्वाहा विश्वम्भरो हरः ॥ ४१॥ सिद्धिदातातिरक्ताक्षो रक्तजिह्वः सहस्रपात् । चण्डवातादिवेगात्मा ह्रीं ह्रीं क्लीं चण्डिकार्चितः ॥ ४२॥ रुण्डमालाधरः श्रीमान् ह्रौं ह्रौं स्वाहाखिलेश्वरः । धनधान्यागमः कर्ता कालहर्ता महेश्वरः ॥ ४३॥ खें खें हूं फट् पुनः सौं ह्रौं क्लीं स्वाहा भूतपालकः । भूतात्मा परात्मा च दुःखदुष्टदुरासदः (दुःखो दुष्टो दुरासदः) ॥ ४४॥ सत्यसङ्कल्पकर्ताऽऽत्मा भूतनाथोऽव्ययः शुचिः । ह्रीं क्रीं ह्रीं क्रीं (क्रीं क्रीं) शिवानन्दो मदिरानन्दक (न)न्दनः ॥ ४५॥ वामविद्याविहारी च क्रीं स्वाहा यक्षतर्पितः । ह्रीं स्वाहा खा (खां)तनुः खा (स्वा)त्मा खैं खैं हूं फट् स्वाहा तृषापहः ॥ ४६॥ क्षुधातृषा पहारी च क्षुधातृष्णा (घ्मा)विवर्धनः । निरञ्जनो निराकारो निर्विकारो धराधरः ॥ ४७॥ यन्त्रमन्त्रप्रतापोग्रपरकृत्याविनाशनः । ह्रीं ह्रीं कृत्यकरः शम्भुः परकृत्याविषापहः ॥ ४८॥ आत्मविद्याविहारी च क्षुद्रविद्याविनाशकः । श्रीं ग्लीं खैं (स्वैं) फट् पुनः स्वाहा शङ्खासुरविनाशनः (कः) ॥ ४९॥ त्रां त्रृं (न्रां नृं) नृसिंहतेजोग्रान् ज्वलो (ल)ज्ज्वलनवर्चसः । खौं खौं खां खां (खैं खां खां) पुनः प्रें प्रें (फ्रें फ्रें) हूं फट् स्वाहा मदापहः ॥ ५०॥ गर्वगाम्भीर्यसिंहस्य नृसिंहस्य (सर्वदुष्ट)विनाशकृत् । गुणोदारो गुणाधारो ह्रीं फ्रें (फ्रैं) शब्दपरायणः ॥ ५१॥ ऋषीणां सिद्धिकर्ताऽऽत्मा श्रीं स्वाहा धनदार्चितः । तेजोमयः सहस्राक्षो ह्रीं स्वाहा हव्यभुक् स्वराट् ॥ ५२॥ क्लीं क्लीं क्लूं क्रैं (ख्रें) ह्स्प्रें (ह्स्फ्रौं) ह्सौं ऐश्वर्यनिलोऽनलः । एकपादो द्विपादश्च बहुपादश्चतुष्पदः ॥ ५३॥ क्रीं स्वाहा श्री (श्रीं)हयग्रीवो वीराराधितपादुकः । मारीभूतमहाप्रेतवासुदेवमयो हरः ॥ ५४॥ भूतक्रीडा सुरक्रीडा क्रीडागन्धर्वकिन्नरः । दिव्यभोगी सुरापक्षो ह्रीं ह्रीं खां फट् परं पदः ॥ ५५॥ व्याधिहारी व्याधिहर्ता व्याधिनाशनतत्परः । वामी वाममार्गनिरतो सिद्धसाध्यसुसिद्धिदः ॥ ५६॥ पुष्टिदस्तुष्टिदः स्वामी समर्थः सर्ववीर्यवान् । ग्लौं ग्लौं ह्रीं क्लीं ह्सौं श्रीं श्रीं हूं हूं (हुं हुं) स्वाहा महेश्वरः ॥ ५७॥ एहि एहि महावीर एहि पक्षीन्द्र पक्षिराट् । ऐं पा (घा)ण्डुवेषो भगवान्कालरूपी कलाव (क)रः ॥ ५८॥ वरिष्ठो धनदो शिष्टा (ष्टो)विशिष्टः कुलरक्षकः । धर्माधिपो धर्ममूर्तिः ब्रह्म ब्रह्मविवर्द्धनः ॥ ५९॥ घां घां घों घों शनिरतो शरभः सर्वकामदः । फ्रैं फ्रैं श्रीं ह्रीं ह्सौं ह्रीं फट् पक्षीन्द्रो भगवान्हरः ॥ ६०॥ क्रौं क्रौं ह्रौं ह्रौं ह्सौं श्रीं ह्रीं हूं (हुं) फट् शिवङ्करः । शरभः कमलानन्दो उग्रोग्रः परमेश्वरः ॥ ६१॥ भू भुजङ्गमगस्तिञ्च पत्रपूजापरिग्रहः । मन्दारकुसुमामोदो मालतीकुसुमप्रियः ॥ ६२॥ म्लीं म्लीं श्रीं श्रीं ह्सौं ह्सौं ह्रीं ह्रीं क्लीं क्लीं इष्टार्थसिद्धिदः । असिताङ्गो सिताङ्गश्च पीताङ्गः परकृत्यहा ॥ ६३॥ खैं खैं स्वाहा सुरश्रेष्ठो विश्वात्मा विश्वजीवनः । रुरुचर्मपरीधानो रुरुभैरववन्दितः ॥ ६४॥ चण्डश्चण्डाङ्गचण्डात्मा चञ्चच्चामरवीजितः । हौं हौं हौं (हौ हौ) पक्षिराजाय पक्षिराजाय क्रीं स्वराट् ॥ ६५॥ श्रीं श्रीं क्लीं ह्रीं ह्सौं स्वाहा योगीशो योगिनीप्रियः । कर्त्ता हर्ता कालातीतो काल (कालः)सङ्कर्षणो घनः ॥ ६६॥ उन्मत्तोन्मत्तमर्दश्च (मर्द्दी च) भैरवोन्मत्तसंयुतः । मधुपानी मदाहारी आधारी सर्वदेहिनाम् ॥ ६७॥ मांसभक्षणकर्ताऽऽत्मा विश्वरूपी महोज्ज्वलः । ऐश्वर्यदाता भगवान्श्री (श्रीं) श्रीं लक्ष्म्या प्रपूजितः ॥ ६८॥ कामदेवकलारामी अभिरामी (कृतान्तः) शिवनर्तकी । महापापहरोदर्क (र्की)वितर्क (र्की)राज्यकृद्वशी ॥ ६९॥ श्रीं ह्रीं स्वाहेश्वरो देवो कालीदुर्गावरप्रदः । कौतुकी कौतुकायुक्तो कां कीं स्वाहा भयापहः ॥ ७०॥ महादेवो विरूपाक्षो शूलपाणिः पिनाकधृक् । शम्भुः पशुपतिर्दक्षो दीक्षितानाञ्जयङ्करः ॥ ७१॥ दां दां दीं दीं द हौं डीं डीं डिण्डिभा वानरः (वारणः) परः । ह्रीं स्वाहा पारगोस्वामी ढ (ठ)णड्ढणितपातकः ॥ ७२॥ ईश्वरो ईप्सितार्थाङ्गो ईं ईं एवतमातृकः । ह्स्प्रें (ह्स्फ्रौं) ख्फ्रें ह्सौं ह्रीं ह्रीं क्ष्म्रीं त्रीं श्रीं कमल (मलक)द्वयलाञ्छितः ॥ ७३॥ श्रीचक्ररक्षणोद्युक्तो त्रां त्रीं (त्रीं त्री) शत्रुविमर्दनः । गङ्गाधरो गाधमूर्तिः श्लूं स्वाहा सर्वसम्पदः ॥ ७४॥ हरो मृत्युहरः कर्ता विधाता विश्वतोमुखः । एकवक्त्रो द्विवक्त्रश्च त्रिवक्त्रः पञ्चवक्त्रकः ॥ ७५॥ चतुर्वक्त्रः सप्तवक्त्रो षष्टवक्त्रोऽष्टवक्त्रगः । (तथैवश्चाष्टवक्त्रगः) नववक्त्रो महाधीरो ह्रीं श्रीं खें खः सहस्रकः (गः) ॥ ७६॥ दशवक्त्रो महातेजो कामिनीमदभञ्जनः । ज्येष्ठो श्रेष्ठो महाश्रेष्ठो तथैकादशवक्त्रमि? ॥ ७७॥ सर्वेश्वरी पराकाली सुन्दरी सुरसुन्दरः । श्यामचञ्चुपुटो दीप्तो रक्तनेत्रो भयङ्करः ॥ ७८॥ श्मशानवासी सर्वात्मा सैन्यस्तम्भनकारकः । सेनानीपूजितपदो सेनापतिजयङ्करः ॥ ७९॥ फ्रों च्रीं क्लीं त्रूं (भ्रूं) तथा आं ह्रीं क्रों हूं (ह्रूं) फट् (फट्कार) स्वरूपकः । कार्यकर्ता कार्यवक्ता कार्यसाधनतत्परः ॥ ८०॥ श्रीं ह्रीं श्रीं क्लीं पुनः क्रीं क्रीं स्वाहा दुष्टार्थखण्डनः । परब्रह्मस्वरूपात्मा आत्मतत्त्वमयः पुमान् (स्वयं हरः)॥ ८१॥ विद्यातत्त्वमयो देवो शिवतत्त्वस्वयंहरः । सर्वतत्त्वार्थतत्त्वात्मा कामिन्याकर्षणो हरः ॥ ८२॥ क्लैं क्लैं क्लूं म्लूं (ह्रीं) ह्सूं ह्लीं । श्रीं श्रीं श्रीं क्रीं क्रीं फट् परमं पदः । व्याधिहारी विहारी च क्रोधाद्राज्यविनाशनः ॥ ८३॥ रुधि (चि)राहारसन्तुष्टो रक्तपः (ररूपः) परमोऽव्ययः । पुण्यात्मा पापनष्टात्मा कालभैरवभैरवः ॥ ८४॥ द्विजिह्वः पञ्चजिह्वाख्यः सप्तजिह्वः सनातनः । हूं हूं हूङ्कारचेतात्मा (हूं हूं हूं वेगात्मा) खें खें खण्डायुधान्वितः ॥ ८५॥ भ्क्लीं भ्क्लीं श्रीं ह्रीं ह्सौं क्लीं क्लीं ह्रीं हूं स्वाहा महाबली । कपाली कपिलाधारी क्रूं क्रूं क्रूं भगवान्भवः ॥ ८६॥ सिद्ध्या (द्धा)दिसेवितः श्रीं श्रीं ह्रौं ह्रौं स्वाहा जगन्मयः । चिन्मयश्चित्कलाकान्तः चैतन्यात्मा प्रतापयुक् ॥ ८७॥ कूं व्रूं ह्रूं (हूं) श्रूं ह्सौं हौं हौं (ह्रौं ह्रौं) ॐ शिवाय नमः पदम् । त्रिनेत्रः परमानन्दो ह्रीं फट् स्वाहा सुरवरः (स्वरोवरः) ॥ ८८॥ वरदो वरदाधीशो वायुवाहनवाहकः । वृषभारूढसर्वात्मा हूं हूं हूं परमेश्वरः ॥ ८९॥ श्रीं ह्रीं ह्रीं ह्रीं ह्लौं क्रीं ह्रीं श्रीं श्रीं स्वाहामयो गुरुः । बृहस्पतिस्वरूपात्मा इन्द्रात्मा चन्द्रशेखरः ॥ ९०॥ चन्द्रचूडश्चन्द्रधारी (चन्द्रश्चन्द्रार्धधारी च) चन्द्रार्धकृतशेखरः । ताम्बू (ङ्का)लचर्वणीधाता रक्तदन्तः सुरोहितः ॥ ९१॥ कङ्कालधारी मुण्डात्मा रुण्डमालाधरः शिवः । व्याघ्राम्बरधरो धाता हर्ता संसारसागरः ॥ ९२॥ यमराजभयत्रासनाशनः सर्वकामुकः । भ्र (भृ)ष्टकर्ता असुरद्वेष्टा देवानामभयङ्करः ॥ ९३॥ सङ्ग्रामवा (चा)री धर्मात्मा सङ्ग्रामे जयवर्धनः । राजद्वारे सभामध्ये राजराजेश्वरः शिवः ॥ ९४॥ ह्रीं क्लैं (क्लीं) क्लीं क्लूं ह्स्प्रें (ह्स्फ्रें) ऐं मोहनः सर्वभूभुजाम् । विश्वरूपो विशाम्भोक्ता योगोऽष्टाङ्ग (योगाष्टाङ्ग)निषेवितः ॥ ९५॥ जयरुद्रृ (रूप) महाभाग वीरवीराधिपोज्ज्वल । ऐं फट् ह्रीं फट् शिवः त्रीं फट् क्रीं फट् हूं फट् करः परः ॥ ९६॥ भस्मासुरेन्द्रवरदो भस्मासुरविनाशकः । पञ्चावा (पञ्चांवी)नवनाथात्मा षडाधारमयो हरः ॥ ९७॥ षड्दर्शनसमः पुण्यः श्रीं ह्रीं क्लीं पुण्यदर्शकः । अकारादिक्षाकारान्तो वर्णमात्रार्थमात्रकः ॥ ९८॥ आं आं ईं ईं ह्लौं ह्रीं श्रीं सौः (सौं) शिवः पापखण्डनः । ज्रां क्लीं ज्लूं क्लीं ह्सौं सौं हौं श्रीं स्वाहा ईशः परात्परः ॥ ९९॥ एकाहिको द्व्याहिकश्च तृतीयश्च चतुर्थकः । सर्वज्वरहरोदर्को ज्वरबाधानिवारणः ॥ १००॥ राजचौराग्निबाधा च ह्रीं (कीं) ह्रूं शमनकारकः । च्रीं ह्स्फ्रैं ह्रौं ह्रीं ह्सौं (ह्रौं) ह्रीं फट् स्वाहा शङ्करशङ्करः ॥ १०१॥ महाराजाधिराजश्च राजराजोऽखिलेश्वरः । क्रीं छ्रौं ह्रीं फट् शिवायेति शरभाय नमो नमः ॥ १०२॥ भीषणाय त्रिशाशाखाय आदिमध्यान्तवर्जितः । आदिविद्या महाविद्या क्लीं छ्रीं ह्रीं खैं ह्स्प्रें (ह्सौं) हरः ॥ १०३॥ हूं हूं स्वाहा अमेयात्मा वरदो वरदेश्वरः । निष्कलङ्को वेद (यदा)वक्ता वक्ता शास्त्रस्य बुद्धिमान् ॥ १०४॥ कर्ता कारणमीशानो भूर्भुवःस्वः स्वरूपकः । कुल (कल)मार्गरतः कौलः कौलिकानां धनप्रदः ॥ १०५॥ सुखराशिनिधानात्मा विज्ञानघनसाधनः । कालौ कल्मषहर्ताऽऽत्मा दुष्टम्लेच्छविनाशनः ॥ १०६॥ हूं खें खें खें ह्रीं ह्सौं हौं श्रीं क्लीं च्रीं ह्रीं ह्रीं नमो नमः । स्वाहा सर्वागमाचारी (रो) विचारी परमेश्वरः ॥ १०७॥ काशी माया तथाऽयोध्या मथुरा कान्त्यवन्तिका । निवासी सर्वतीर्थात्मा कोटितीर्थप (प्र)दाश्रयः ॥ १०८॥ गङ्गासागरसिन्धुश्च प्रयागो पुष्करप्रियः । नैमिषी नैमिषारण्यी नैमिषारण्यवासिनः ॥ १०९॥ पुष्करी पुष्कराध्यक्षो कुरुक्षेत्री च कौरवः । गोदावरी गया चैव श्रीगिरिः पर्वताश्रयः ॥ ११०॥ गुहानिवासी भगवान् शरभः कमलेक्षणः । नृसिंहगर्वहर्ताऽऽत्मा शुद्धाचाररतः सदा ॥ १११॥ सर्वधर्ममयो धीरो सर्वदेव (वेद)मयः शिवः । ह्रीं फट् क्रीं फट् नमः खें फट् मन्त्रानां सिद्धिसम्पदः ॥ ११२॥ इति नाम्नां सहस्राख्यां शरभस्य महात्मनः । पूजाकाले निशिथे च मध्याह्ने प्रपठेत्प्रिये ॥ ११३॥ प्रातःकाले च सन्ध्यायां स भवेत्सम्पदां पदम् । भौमावस्यां चतुर्दश्यां संक्रान्तौ रविभौमयोः ॥ ११४॥ यः पठेद्भक्तिसंयुक्तो तस्य सिद्धिर्नसंशयः । शनिमङ्गलवारे च उर्ध्वदृष्टिः पठेन्नरः ॥ ११५॥ स भवेत्पार्वतीपुत्रो सर्वशास्त्रविशारदः । राजानो दासतां यान्ति भवेत्सर्वजनप्रियः ॥ ११६॥ असिताङ्गो रुरुश्चण्डो क्रोधश्चोन्मत्तभैरवः । कपाली भीषणश्चैव स्वयम्भैवभैरवः ॥ ११७॥ ये ये प्रयोगास्तन्त्रेषु तैस्तैसाधय यत्फलम् (तेषु तैस्साधयेत्फलम्) । तत्फलं लभते क्षिप्रं नामसाहस्रपाठतः ॥ ११८॥ भूतप्रेतपिशाचश्च वेताला सिद्धिचेटकाः (सिद्धचेष्टकाः । ते सर्वे विलयं यान्ति साधकस्यास्य दर्शनात् ॥ ११९॥ सिंहा ऋक्षा वानराश्च व्याघ्रास्सर्पा वराहकाः । गजोष्ट्राक्रूरसत्त्वाश्रयेचान्येविषधारिणः ॥ १२०॥ ते सर्वे विलयं यान्ति साधकास्यास्य दर्शनात् । अष्टम्यां वा चतुर्दश्यां नवम्यां गुरुसंयुतम् (तः) ॥ १२१॥ पूजयेत्परया भक्त्या स भवेत्सम्पदापदम् (भवेयुस्सर्वसम्पदाः) । यो निन्दां कुरुते नित्यं नामसाहस्रपाठके ॥ १२२॥ ते दुष्टा नाशमायान्ति स्वकर्मस्या (स्वकर्मणोऽ)पराधतः । मोहनस्तम्भनाकर्षमारणोच्चाटनादिकम् ॥ १२३॥ पाठमात्रेण सिद्ध्यन्ति एतत्सत्यं न संशयः । श्मशानाङ्गारमाहृत्य (नाङ्गारमादाय) सपर्यां कुजवासरे ॥ १२४॥ साध्य (ध्व)नामलिखेन्मध्ये पीतसूत्रेणवेष्टयेत् । निःक्षिपेच्छत्रुभवने तस्य नश्यन्ति सम्पदः ॥ १२५॥ पुत्रनाशं कीर्तिनाशं धननाशं गृहक्षयम् । क्षयः सर्वकुटुम्बानां भूयात्सत्यं न संशयः ॥ १२६॥ गोपनीयमिदं तन्त्रं सद्यः प्रत्ययकारकम् । न देयं यस्य कस्यापि दत्वा सिद्धिक्षयो भवेत् ॥ १२७॥ स्वमातृयोनिवद्गोप्या विद्यैषेत्यागमा जगुः । पठनीयमिदं नित्यं आत्मनः श्रेय इच्छता । न मुञ्चति गृहं तस्माल्लक्ष्मी वाणी सदैव हि ॥ १२८॥ ॥ इति श्रीआकाशभैरवकल्पे उमामहेश्वरसंवादे शरभेश्वरसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Words between parentheses are variations found in different manuscript.