अक्षर आकार:

श्रीशरभ निग्रहदारुण सप्तकम्

Shri Sharabha Nigrahadaruna Saptakam

श्रीशरभ निग्रहदारुण सप्तकम्

ॐ श्रीगणेशाय नमः । ध्यानम् - चन्द्रार्काग्निस्त्रिदृष्टिः कुलिशवरनखश्चञ्चलोऽत्युग्रजिह्वः काली दुर्गा च पक्षौ हृदयजठरगो भैरवो वाडवाग्निः । ऊरूस्थौ व्याधिमृत्यू शरभवरखगश्चण्डवातातिवेगः संहर्ता सर्वशत्रून् स जयति शरभः शालुवः पक्षिराजः ॥ कोपोद्रेकातिनिर्यन्निखिलपरिचरत्ताम्रभारप्रभूतं ज्वालामालाग्रदग्धस्मरतनुसकलं त्वामहं शालुवेश । याचे त्वत्पादपद्मप्रणिहितमनसं द्वेष्टि मां यः क्रियाभिः तस्य प्राणप्रयाणं परशिव भवतः शूलभिन्नस्य तूर्णम् ॥ १॥ शम्भो त्वद्धस्तकुन्तक्षतरिपुहृदयान्निःस्रवल्लोहितौघं पीत्वा पीत्वाऽतिदिर्घा दिशि दिशि विचरास्त्वदगणाश्चण्डमुख्याः । गर्जन्तु क्षिप्रवेगा निखिलजयकरा भीकराः खेललोलाः सन्त्रस्ताब्रह्मदेवाः शरभ खगपते त्राहि नः शालुवेश ॥ २॥ सर्वाद्यं सर्वनिष्ठं सकलभयकरं त्वत्स्वरूपं हिरण्यं याचेऽहं त्वाममोघं परिकरसहितं द्वेष्टि मां यः क्रियाभिः । श्रीशम्भो त्वत्कराब्जस्थितकुलिशकराघातवक्षःस्थलस्य प्राणाः प्रेतेशदूतग्रहगणपरिखाः क्रोशपूर्वं प्रयान्तु ॥ ३॥ द्विष्मः क्षोण्यां वयं हि तव पदकमलध्याननिर्धूतपापाः कृत्याकृत्यैर्विमुक्ता विहगकुलपते खेलया बद्धमूर्ते । तूर्णं त्वत्पादपद्मप्रधृतपरशुना तुण्डखण्डीकृताङ्गः सद्द्वेषी यातु याम्यं पुरमतिकलुषं कालपाशाग्रबद्धः ॥ ४॥ भीम श्रीशालुवेश प्रणतभयहर प्राणजिद्दुर्मदानां याचेऽहं चास्य वर्गप्रशमनमिह ते स्वेच्छया बद्धमूर्ते । त्वामेवाशु त्वदङ्घ्र्यष्टकनखविलसद्ग्रीवजिह्वोदरस्य प्राणा यान्तु प्रयाणं प्रकटितहृदयस्यायुरल्पायतेश ॥ ५॥ श्रीशूलं ते कराग्रस्थितमुसलगदावृत्तवात्याभिघातात् यातायातारियूथं त्रिदशविघटनोद्धूतरक्तच्छटार्द्रम् । सद्दृष्ट्वाऽऽयोधने ज्यामखिलसुरगणाश्चाशु नन्दन्तु नाना भूता वेतालपूगः पिबतु तदखिलं प्रीतचित्तः प्रमत्तः ॥ ६॥ अल्पं दोर्दण्डबाहुप्रकटितविनमच्चण्डकोदण्डमुक्तै- र्बाणैर्दिव्यैरनेकैः शिथिलितवपुषः क्षीणकोलाहलस्य । तस्य प्राणावसानं पर शरभ विभोऽहं त्वदिज्याप्रभावैः तूर्णं पश्यामि यो मां परिहसति सदा त्वादिमध्यान्तहेतो ॥ ७॥ इति निशि प्रयतस्तु निरासनो यममुखः शिवभावमनुस्मरन् । प्रतिदिनं दशवारदिनत्रयं जपति निग्रहदारुणसप्तकम् ॥ ८॥ इति गुह्यं महाबीजं परमं रिपुनाशनम् । भानुवारं समारभ्य मङ्गलान्तं जपेत्सुधीः ॥ ९॥ इति श्री आकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे नरसिंहकृता शरभस्तुतिः समाप्ता ॥