अक्षर आकार:

शङ्कराष्टकम्

Shankarashtakam

शङ्कराष्टकम्

श्रीगणेशाय नमः । शीर्षजटागणभारं गरलाहारं समस्तसंहारम् । कैलासाद्रिविहारं पारं भववारिधेरहं वन्दे ॥ १॥ चन्द्रकलोज्ज्वलभालं कण्ठव्यालं जगत्त्रयीपालम् । कृतनरमस्तकमालं कालं कालस्य कोमलं वन्दे ॥ २॥ कोपेक्षणहतकामं स्वात्मारामं नगेन्द्रजावामम् । संसृतिशोकविरामं श्यामं कण्ठेन कारणं वन्दे ॥ ३॥ कटितटविलसितनागं खण्डितयागं महाद्भुतत्यागम् । विगतविषयरसरागं भागं यज्ञेषु बिभ्रतं वन्दे ॥ ४॥ त्रिपुरादिकदनुजान्तं गिरिजाकान्तं सदैव संशान्तम् । लीलाविजितकृतान्तं भान्तं स्वान्तेपु देहिनां वन्दे ॥ ५॥ सुरसरिदाप्लुतकेशं त्रिदशकुलेशं हृदालयावेशम् । विगताशेषक्लेशं देशं सर्वेष्टसम्पदां वन्दे ॥ ६॥ करतलकलितपिनाकं विगतजराकं सुकर्मणां पाकम् । परपदवीतवराकं नाकङ्गमपूगवन्दितं वन्दे ॥ ७॥ भूतिविभूषितकायं दुस्तरमायं विवर्जितापायम् । प्रमथसमूहसहायं सायं प्रातर्निरन्तरं वन्दे ॥ ८॥ यस्तुपदाष्टकमेतद्ब्रह्मानन्देन निर्मितं नित्यम् । पठति समाहितचेताः प्राप्नोत्यन्ते स शैवमेव पदम् ॥ ९॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीशङ्कराष्टकं सम्पूर्णम् ।