अक्षर आकार:

शम्भुस्तवः

shambhustavaH

शम्भुस्तवः

श्रीगणेशाय नमः ॥ कैलासशैलनिलयात्कलिकल्मषघ्नाच्चन्द्रार्धभूषितजटाद्वटमूलवासात् । नम्रोत्तमाङ्गविनिवेशितहस्तपद्माच्छम्भोः परं किमपि दैवमहं न जाने ॥ १॥ नाकाधिनाथकरपल्लवसेविताङ्घ्रेर्नागास्यषण्मुखविभासितपार्श्वभागात् । निर्व्याजपूर्णकरुणान्निखिलामरेड्याच्छम्भोः परं किमपि दैवमहं न जाने ॥ २॥ मौइनीन्द्ररक्षणकृते जितकालगर्वात्पापाब्धिशोषणविधौ जितवाडवाग्नेः । माराङ्गभस्मपरिलेपनशुक्लगात्राच्छम्भोः परं किमपि देवमहं न जाने ॥ ३॥ विज्ञानमुद्रितकराच्छरदिन्दुशुभ्राद्विज्ञानदाननिरताज्जडपङ्क्तयेऽपि । वेदान्तगेयचरणाद्विधिविष्णुसेव्याच्छम्भोः परं किमपि दैवमहं न जाने ॥ ४॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः श्रीशम्भुस्तवः सम्पूर्णः ॥