अक्षर आकार:

शान्ति स्तोत्रम्

Shanti Stotram

शान्ति स्तोत्रम्

नश्यन्तु प्रेतकूष्माण्डा नश्यन्तु दूषका नराः । साधकानां शिवाः सन्तु स्वाम्नायपरिपालनम् ॥ १॥ नन्दन्तु मातरः सर्वा जयन्तु योगिनीगणाः । जयन्तु सिद्धा डाकिन्यो जयन्तु गुरूशक्तयः ॥ २॥ नन्दन्तु ह्यणिमाद्याश्च नन्दन्तु गुह्यकादयः । नन्दन्तु भैरवाः सर्वे सिद्धविद्याधरादयः ॥ ३॥ ये चाम्नायविशुद्धाश्च मन्त्रिणः शुद्धबुद्धयः । सर्वदा नन्दयानन्दं नन्दन्तु कुलपालकाः ॥ ४॥ इन्द्राद्यास्तर्पिताः सन्तु तृप्यन्तु वास्तुदेवताः । चन्द्रसूर्यादयो देवास्तृप्यन्तु गुरूभक्तितः ॥ ५॥ नक्षत्राणि ग्रहा योगाः करणाद्यास्तथापरे । ते सर्वे सुखिनो यान्तु मासाश्च तिथयस्तथा ॥ ६॥ तृप्यन्तु पितरः सर्वे ऋतवो संवत्सरादयः । खेचरा भूचराश्चैव तृप्यन्तु मम भक्तितः ॥ ७॥ अन्तरिक्षचरा घोरा ये चान्ये देवयोनयः । सर्वे तु सुखिनो यान्तु सर्वा नद्यश्च पक्षिणः ॥ ८॥ पर्वताः सुखिनः सन्तु तथा तत्कन्दरा गुहाः । ऋषयो ब्राह्मणाः सर्वे शान्तिं कुर्वन्तु मे सदा ॥ ९॥ तीर्थानि पशवो गावो याश्चान्याः पुण्यभूमयः । वृद्धाः पतिव्रता नार्यः शिवं कुर्वन्तु मे सदा ॥ १०॥ शिवं सर्वत्र मे चास्तु पुत्रदारधनादिषु । राजानः सुखिनः सन्तु क्षेममार्गे तु मे सदा ॥ ११॥ शुभा मे दिवसा यान्तु शिवास्तिष्ठन्तु मे शिवाः । द्वेष्टारः साधकानां च सदैवाम्नायदूषकाः ॥ १२॥ डाकिनीनां मुखे यान्तु तृप्तातृप्ताश्च तेषु ताः । शत्रवो नाशमायान्तु मम निन्दाकराः सदा ॥ १३॥ ये निन्दका ते विपदं प्रयान्तु ये साधकास्ते प्रभवन्तु सिद्धाः । ये सर्ववीराः करुणावलोकात्पुनः पुरात्मन्मम सन्निधत्स्व ॥ १४॥ इति श्रीरुद्रयामले शान्तिस्तोत्रं सम्पूर्णम् । From Mantra Maharnava part - 4