अक्षर आकार:

श्रीशिवधर्माख्योक्त शान्तिकाध्यायः

ShantikadhyAya from Shivadharmakhya

श्रीशिवधर्माख्योक्त शान्तिकाध्यायः

श्रीगणेशाय नमः । श्रीभैरवाय नमः । श्रीनन्दीशाय नमः । श्रीउमामहेश्वराभ्यां नमः । अथ श्रीशिवधर्माख्योक्त शान्तिकाध्यायः प्रारभ्यते । श्री नन्दिकेश्वर उवाच - अतः परमिदं गुह्यं रुद्रोद्गीतं महोदयम् । महाविघ्नप्रशमनं महाशान्तिकरं शुभम् ॥ १॥ अकालमृत्युशमनं सर्वव्याधिनिवारणम् । परचक्रप्रमथनं सदा विजयवर्धनम् ॥ २॥ सर्वदेवग्रहानीकं समभीष्टफलप्रदम् । सर्वशान्ताधिकाराख्यं धर्मं वक्ष्यामि शाश्वतम् ॥ ३॥ शशाङ्कार्द्धधरस्त्र्यक्षो नागयज्ञोपवीतकः । चतुर्मुखश्चतुर्बाहुः सितभस्माऽवगुण्ठितः ॥ ४॥ वरो वरेण्यो वरदो देवदेवो महेश्वरः । त्रैलोक्यनमितः श्रीमाञ्छान्तिमाशु करोतु मे ॥ ५॥ सर्वावयवपूर्णेन गात्रेण तनुमध्यमा । पीतश्यामातिसौम्येन स्निग्धवर्णेन शोभना ॥ ६॥ ललाटे तिलकोपेता चन्द्ररेखार्धधारिणी । चित्राम्बरधरा देवी सर्वाऽऽभरणभूषिता ॥ ७॥ वरस्त्रीमयरूपेण शोभागुणमहास्पदा । भावनामात्रसन्तुष्टा उमादेवी वरप्रदा ॥ ८॥ साक्षादागत्य रूपेण शान्तेनाऽमिततेजसा । शान्तिं करोतु मे प्रीता भक्तानां भक्तवत्सला ॥ ९॥ पद्मरागद्युतिः सौम्यो रक्तमाल्याऽनुलेपनः । अबालो बालरूपेण षड्वक्त्रः शिखिवाहनः ॥ १०॥ पूर्णेन्दुवदनः सौम्यस्त्रिशिखः शक्तिसंयुतः । कृत्तिकोमाग्निरुद्रांशसमुद्भूतः सुरार्चितः ॥ ११॥ कार्तिकेयो महातेजा वरदानैकतत्परः । शान्तिं करोतु मे नित्यं वरं सौख्यं च मे सदा ॥ १२॥ श्वेतवस्त्रपरीधानस्त्र्यक्षः कनकसुप्रभः । रुद्रश्चैको महायोगी रुद्रैको हितमानसः ॥ १३॥ शूलपाणिर्महाप्राज्ञो नन्दीशः शिवभावितः । शिवार्चनपरो नित्यः शिवध्यानैकतत्परः ॥ १४॥ शान्तिं करोतु मे शान्तो धर्मं च मतिमुत्तमाम् । महादेव महाकायः स्निग्धाञ्जनचयच्छविः ॥ १५॥ एकदंष्ट्रोत्कटो देवो गजवक्त्रो महाबलः । नागयज्ञोपवीती च नागाऽऽभरणभूषितः ॥ १६॥ सर्वार्थसम्पदाधारो गणाध्यक्षो वरप्रदः । इन्द्रस्य तनयो देवो नायकोऽथ विनायकः ॥ १७॥ करोतु मे महाशान्तिं कर्मसिद्धिं च सर्वदा । इन्द्रनीलनिभस्त्र्यक्षो दीप्तशूलाऽऽयुधोद्यतः ॥ १८॥ रक्ताम्बरधरः श्रीमान् कृष्णाङ्गो नागभूषणः । पापाऽपनोदमतुलमलक्ष्मीमलनाशनः ॥ १९॥ करोतु मे महाशान्तिं महाकालो महाबलः । पीतवस्त्रपरीधाना कन्यारूपा स्वलङ्कृता ॥ २०॥ गणमाताऽम्बिका त्र्यक्षा पुण्या शान्ता सुरेश्वरी । सर्वसिद्धिकरी देवी प्रसादपरमा परा ॥ २१॥ शान्तिं करोतु मे माता सिद्धिं चाऽनुप्रयच्छतु । स्निग्धश्यामेन वर्णेन महामहिषमर्दिनी ॥ २२॥ धनुश्चक्रप्रहरणा खड्गपट्टिशधारिणी । आतर्जन्युद्यतकरा सर्वोपद्रवनाशिनी ॥ २३॥ सर्वमङ्गलदात्री मे शिवमाचरतु ध्रुवम् । निर्मांसेन शरीरेण स्नाय्वस्थिषु निबन्धनः ॥ २४॥ अतिसूक्ष्मोऽतिविक्रान्तस्त्र्यक्षो भृङ्गिरिटिर्महान् । रुद्रात्मको महावीरो रुद्रेकाहितमानसः ॥ २५॥ सोऽपि मे शान्तिभावेन शान्तिमाशु प्रयच्छतु । प्रचण्डगणसैन्येशो महाटङ्काक्षधारकः ॥ २६॥ अक्षमालार्पितकरस्त्र्यक्षश्चण्डेश्वरो वरः । चण्डपापापहरणो ब्रह्महत्यादिशोधकः ॥ २७॥ (चण्डस्तापापहरणो) करोतु मे महायोगी कल्याणानां परम्पराम् । शङ्खकुन्देन्दुतुल्याभः कण्ठे मरकतप्रभः ॥ २८॥ अक्षमाली शिखाग्रस्थः स्वयं ज्ञानव्यवस्थितः । चतुर्मुखश्चतुष्पादत्रिनेत्रः सर्वदोज्ज्वलः ॥ २९॥ क्षितेः पतिर्वृषो देवो धर्मो धर्मतमो मतः । ईशं वहति पृष्ठेन तस्माद्धर्मों जगत्प्रभुः ॥ ३०॥ वृषो वृषवरः श्रीमान् करोतु मम शान्तिकम् । पद्मासनः पद्मनिभश्चतुर्वदनपङ्कजः ॥ ३१॥ कमण्डलुधरः श्रीमान् देवगन्धर्वपूजितः । शिवध्यानैकपरमः शिवसद्भावभावितः ॥ ३२॥ ब्रह्मशब्देन दिव्येन ब्रह्मा शान्तिं करोतु मे । तार्क्ष्यासनश्चतुर्बाहुः शङ्खचक्रगदाधरः ॥ ३३॥ श्यामः पीताम्बरधरो महाबलपराक्रमः । यज्ञदेवोत्तमो देवो माधवो मधुसूदनः ॥ ३४॥ शिवप्रसादसम्पन्नः शिवध्यानपरायणः । सर्वपापप्रमथनः सर्वाऽसुरनिकृन्तनः ॥ ३५॥ सर्वदा शान्तभावेन विष्णुः शान्तिं करोतु मे । अर्हन्तः शान्तरूपी च पिच्छिस्कन्धैकपाणिकः ॥ ३६॥ दिग्वासा मत्तपङ्कश्च सौम्यचित्तः समाहितः । संवृत्तलोचनः शान्तः शिवज्ञानैकचिन्तकः ॥ ३७॥ शान्तिं करोतु मे शान्तः शिवयोगेन भावितः । जितेन्द्रियः समाधिस्थः पात्रचीवरभूषितः ॥ ३८॥ वरदाभयपाणिश्च ज्ञानध्यानरतः सदा । योगवृष्टिसमायुक्तः शिवभानेन भावितः ॥ ३९॥ शान्तिं करोतु मे देवः सर्वसत्त्वहिते रतः । पीतवर्णेन देहेन हारेण सुविचित्रितः ॥ ४०॥ सर्वाङ्गसुन्दरी देवी विजया जयकारिणी । शिवाऽर्चनरता नित्यं शिवजाप्यपरायणा ॥ ४१॥ धरित्री लोकमाता च नित्यं रक्षां करोतु मे । नन्दा भद्रा च सुरभिः सुशीला सुमनास्तथा ॥ ४२॥ क्षीरोदादुत्थिता गावो लोकानां हितकाम्यया । प्रीणयन्ति सदा देवान् विप्राँश्चैवाऽविशेषतः ॥ ४३॥ (विप्रां) नित्यं च देवतात्मानः कुर्वन्तु मम शान्तिकम् । पद्मरागप्रभा देवी चतुर्वदनपङ्कजा ॥ ४४॥ अक्षमालार्पितकरा कमण्डलुधरा शुभा । ब्रह्माणी सौम्यवदना शिवपूजापरायणा ॥ ४५॥ शान्तिं करोतु मे प्रीता ब्रह्मशब्देन सर्वदा । हिमशैलनिभा देवी महावृषभवाहिनी ॥ ४६॥ त्रिशूलहस्ता वरदा नानाऽऽभरणभूषिता । चतुर्भुजा चतुर्वक्त्रा त्रिनेत्रा पापहारिणी ॥ ४७॥ आर्तिं हरतु मे माता रुद्राणी नित्यमुज्ज्वला । मयूरवाहना देवी सिन्दूरारुणविग्रहा ॥ ४८॥ शक्तिहस्ता महारूपा सर्वाऽलङ्कारभूषिता । रुद्रभक्ता महावीर्या रुद्रार्चनरता सदा ॥ ४९॥ कौमारी वरदा देवी शान्तिमाशु करोतु मे । खङ्गचक्रगदाहस्ता श्यामा पीताम्बरप्रिया ॥ ५०॥ चतुर्भुजा तार्क्ष्ययाना वैष्णवी सुरपूजिता । शिवार्चनपरा नित्यं शिवैकाहितमानसा ॥ ५१॥ शान्तिं करोतु मे नित्यं सर्वाऽसुरविमर्दिनी । ऐरावतगजारूढा वज्रहस्ता महाबला ॥ ५२॥ नेत्राणां तु सहस्रेण भूषिता कनकप्रभा । सिद्धगन्धर्वनमिता सर्वालङ्कारभूषिता ॥ ५३॥ ऐन्द्री देवी सदाकालं शान्तिमाशु करोतु मे । वाराहघोरा विकटा वराहवरवाहना ॥ ५४॥ श्यामावदाता विपुला शङ्खचक्रगदायुधा । तर्जयन्ती सदा विघ्नान्नर्चयन्ती सदाशिवम् ॥ ५५॥ वाराही वरदा देवी क्षेमारोग्यं ददातु मेम् । ऊर्ध्वकेशा कोटराक्षी निर्मांसा स्नायुबन्धना ॥ ५६॥ करालवदना घोरा खङ्गकट्टारकोद्यता । कपालमालिनी क्रुद्धा खट्वाङ्गवरधारिणी ॥ ५७॥ आरक्तपिङ्गनयना गजचर्माऽवगुण्ठिता । नानानागोपवीताङ्गी प्रेतस्थाननिवासिनी ॥ ५८॥ शिवरूपेण घोरेण शिवरावभयङ्करी । चामुण्डा चण्डरूपेण महारक्षां करोतु मे ॥ ५९॥ अपीतेन शरीरेण सर्वाऽऽभरणभूषिता । आतर्जयन्ती विघ्नानि ज्वलत्खट्वाङ्गधारिणी ॥ ६०॥ ध्वाङ्क्षासना महावीरा सर्वपापप्रणाशिनी । लम्बोष्ठी वरदा देवी शान्तिमाशु करोतु मे ॥ ६१॥ आकाशमातरी दिव्यस्तथाऽन्यालोकमातरः । भूतानां मातरः सर्वास्तथाऽन्येषाञ्च मातरः ॥ ६२॥ सर्वमातृमहादेव्यः स्वायुधा व्यग्रपाणयः । जगद्व्याप्याऽवतिष्ठन्ते बलिकामा महोदयाः ॥ ६३॥ रुद्रभक्ता महावीर्या रुद्रार्चाऽहितमानसाः । शान्तिं कुर्वन्तु मे नित्यं मातरः सुरपूजिताः ॥ ६४॥ ये रुद्रा रौद्रकर्माणो रुद्रस्थाननिवासिनः । सौम्याश्चैव तु ये केचित् स्थाणुस्थाननिवासिनः ॥ ६५॥ मातरो रुद्ररूपाश्च गणानामधिपाश्च ये । विघ्नभूतास्तथा चाऽन्ये दिवि दिक्षु समाश्रिताः ॥ ६६॥ सर्वे सुप्रीतमनसः प्रतिगृह्णन्तु मे बलिम् । सिद्धिमाशु प्रयच्छन्तु भयेभ्यः पान्तु मां सदा ॥ ६७॥ ऐन्द्रयां दिशि गणा ये तु वज्रहस्ता महाबलाः । सुश्वेताक्षाः श्वेतनिभास्तथा वै श्वेतलोहिताः ॥ ६८॥ दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः । रुद्रार्चनरता हृष्टा शान्तिं कुर्वन्तु मे सदा ॥ ६९॥ आग्नेय्यां ये गणाः सर्वे शक्तिहस्ता निषङ्गिणः । आरक्ताक्षा रक्तनिभास्तथा वै रक्तलोहिताः ॥ ७०॥ दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः । रुद्रप्रणाममनसः शान्तिं कुर्वन्तु मे सदा ॥ ७१॥ याम्यां दिशि गणा ये तु सततं दण्डपाणयः । कृष्णाः कृष्णनिभाः क्रुद्धास्तथा वै कृष्णलोहिताः ॥ ७२॥ दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः । रुद्रका हितचेतस्काः शान्तिं कुर्वन्तु मे सदा ॥ ७३॥ नैऋत्यां तु गणाः क्रूरा राक्षसाः मृत्युरूपिणः । सुनीलाक्षा नीलनिभास्तथा वै नीललोहिताः ॥ ७४॥ दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः । रुद्रध्यानैक निरताः शान्तिं कुर्वन्तु मे सदा ॥ ७५॥ वारुण्यां वै गणा ये तु सततं पाशपाणयः । सुमुक्ताक्षाः मुक्तनिभाः वै मुक्तलोहिताः ॥ ७६॥ दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः । परमेशार्चनरताः कुर्वन्तु मम शान्तिकम् ॥ ७७॥ वायव्यां वै गणा ये तु सततं ध्वजपाणयः । सधूम्राक्षाः धूम्रनिभाः वै धूम्रलोहिताः ॥ ७८॥ दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः । शिवभक्तिपराः सर्वे क्षेमं कुर्वन्तु मे सदा ॥ ७९॥ उत्तरस्यां गणा ये तु सततं निधिपाणयः । सुपीताक्षाः पीतनिभाः तथा वै पीतलोहिताः ॥ ८०॥ दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः । शिवपूजासमुद्युक्ताः क्षेमं कुर्वन्तु सर्वदा ॥ ८१॥ ऐशान्यां वै गणा ये तु प्रशान्ताः शूलपाणयः । सुश्वेताक्षाः श्वेतनिभाः तथा वै श्वेतलोहिताः ॥ ८२॥ दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः । शिवपूजासमुद्युक्ताः क्षेमं कुर्वन्तु मे सदा ॥ ८३॥ अधोभागे गणा ये तु सततं चक्रपाणयः । धूम्रा धूम्रनिभाः सर्वे तथा वै धूम्रलोहिताः ॥ ८४॥ (var सुनीलाक्षाः नीलनिभाः तथा वै नीललोहिताः) दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः । शिवं कुर्वन्तु मे नित्यमलक्ष्मीमलनाशनम् ॥ ८५॥ ऊर्ध्वभागे गणा ये तु महाबलपराक्रमाः । (var तु सततं पाशपाणयः) सुसूक्ष्माक्षाः सूक्ष्मनिभाः तथा वै सूक्ष्मलोहिताः ॥ ८६॥ दिव्यान्तरिक्षभौमाश्च पातालतलवासिनः । शिवपूजासमुद्युक्ता अशुभान्नाशयन्तु मे ॥ ८७॥ एते गणा महात्मानो महाबलपराक्रमाः । शिवं सम्पूज्य यत्नेन बलिं तेषां विनिक्षिपेत् ॥ ८८॥ ततः सुप्रीतमनसः शान्तिं कुर्वन्तु सर्वदा । अमरावती नाम पुरी पूर्वभागे व्यवस्थिता ॥ ८९॥ विद्याधरसमाकीर्णा सिद्धगन्धर्वसेविता । रत्नप्रकाररुचिरा सर्वरत्नोपशोभिता ॥ ९०॥ तत्र देवपतिः श्रीमान् वज्रपाणिर्महाबलः । नेत्राणां तु सहस्रेण शोभनेन विराजते ॥ ९१॥ ऐरावतगजारूढो हेमवर्णो महाद्युतिः । देवेन्द्रः सततं हृष्टः परमेशार्चने रतः ॥ ९२॥ शिवध्यानेन सम्पन्नः शिवभक्तिसमन्वितः । शिवप्रणामपरमः करोतु मम शान्तिकम् ॥ ९३॥ आग्नेये दिग्विभागे तु पुरी तेजोवती शुभा । (var आग्नेय्यां) नानादेवगणाकीर्णा रत्नज्वालासमुज्ज्वला ॥ ९४॥ तत्र ज्वालापरीताङ्गी दीप्ताङ्गारसमद्युतिः । भूतिकृद् देहिनां देवो ज्वलनः पापनाशनः ॥ ९५॥ शिवपूजाजपोद्युक्तः शिवस्मरणभावितः । शान्तिङ्करोतु मे देवस्तथा पापपरिक्षयम् ॥ ९६॥ वैवस्वती नाम पुरी दक्षिणे वै व्यवस्थिता । लोहप्राकरसंयुक्ता प्रासादैर्गोपुरैः शुभैः ॥ ९७॥ सुरासुरशतानीकपितृरक्षोगणालया । तत्रेन्द्रो नीलसङ्काशो रक्तान्तायतलोचनः ॥ ९८॥ महामहिषमारूढः कृष्णस्रग्वस्त्रभूषणः । कालान्तकमहाकालः चण्डकोदण्ड संयुतः ॥ ९९॥ श्रीमान्यमो महातेजाः शिवधर्मपरायणः । (var अन्तकोऽथ महातेजाः) शिवपूजासमुद्युक्तः क्षेमारोग्यं ददातु मे ॥ १००॥ नैरृत्यास्तु दिशो भागे पुरी कृष्णेति विश्रुता । (var पुरी कृष्णावती शुभा) महारक्षोगणैः कीर्णा पिशाचभूतसङ्कुला ॥ १०१॥ तत्र जीमूतसङ्काशो रक्तस्रग्वस्त्रभूषणः । खड्गपाणिर्महातेजाः करालवदनोज्ज्वलः ॥ १०२॥ रक्षोगणेन्द्रो निऋतिः शिवार्चनरतः सदा । करोतु मे महाशान्तिं शिवभक्तिसमुत्सुकः ॥ १०३॥ पश्चिमे तु दिशो भागे पुरी शुद्धावती शुभा । नानारत्नसमाकीर्णा नानाकिन्नरशोभिता ॥ १०४॥ (var नानागणसमाकीर्णा) तत्र मौक्तिकसङ्काशः परिपिङ्गललोचनः । शुक्लवस्त्रपरीधानः पाशहस्तो महाबलः ॥ १०५॥ वरुणः परया भक्त्या शिवेकाहितमानसः । रोगशोकार्तिसन्तापं नित्यं नाशय मे ध्रुवम् ॥ १०६॥ वायव्ये दिग्विभागे तु पुरी गन्धवती शुभा । ऋषिसिद्धगणाऽऽकीर्णा हेमप्राकारतोरणा ॥ १०७॥ तत्र ताम्म्रेण देहेन कृष्णपिङ्गललोचनः । पटव्याप्तान्तरालीनो ध्वजयष्ट्यायुधोद्यतः ॥ १०८॥(var नभो व्याप्तान्तरालीनः) पवनः परमो देवः परमेश्वरभावितः । क्षेमारोग्यबलं शान्तिं करोतु सततं मम ॥ १०९॥ महोदया नाम पुरी उत्तरेण महोज्ज्वला । अनेकयक्षसङ्कीर्णा नानारत्नोपशोभिता ॥ ११०॥ तत्र देवो गदाहस्तः चित्रस्रग्वस्त्रभूषणः । (var शुचिस्रग्वस्त्रभूषणः) ह्रस्वबाहुर्महातेजाः परिपिङ्गललोचनः ॥ १११॥ कुबेरो वरदः श्रीमान् हरपादार्चने रतः । शान्तिं करोतु मे प्रीतः शान्तः शान्तेन तेजसा ॥ ११२॥ यशोवती पुरी रम्या ऐशान्यां दिशि संस्थिता । (var ऐशानीं दिशमाश्रिता) नानागणसमाकीर्णा नानासुरकृतालया ॥ ११३॥ तेजः प्राकारपर्यन्ता निरौपम्या महोदया । तत्र मौक्तिकसङ्काशः शशाङ्ककृतभूषणः ॥ ११४॥ त्रिनेत्रः शान्तरूपात्मा अक्षमालाधरः सदा । ईशानः परमो देवः सर्वदेवोत्तमोत्तमः । सोऽपि सर्वात्मभावेन शान्तिमाशु प्रयच्छतु ॥ ११५॥ भूर्लोकेऽथ भुवर्लोके स्वर्लोके निवसन्ति ये । (var स्वर्लोके ऽपि च संस्थितः) देवा दिव्यप्रभायुक्ताः शान्तिं कुर्वन्तु मे सदा ॥ ११६॥ जनलोके महर्लोके तपोलोके स्थिताश्च ये । तेऽपि प्रमुदिता देवाः शिवं कुर्वन्तु मे सदा ॥ ११७॥ सत्यलोके च ये देवाः प्रभावोज्ज्वलविग्रहाः । शिवभक्ताः सुमनसो भयं निर्णाशयन्तु मे ॥ ११८॥ गिरिकन्दरदुर्गेषु वनेषु निवसन्ति ये । रुद्रार्चनपरा देवा रक्षां कुर्वन्तु मे सदा ॥ ११९॥ महातले च ये सन्ति संस्थिताश्च रसातले । तलातले च ये सन्ति उत्तमाः सुतले जनाः ॥ १२०॥ वितले संस्थिताः भूता अतले निवसन्ति ये । तले च निलयो येषां रक्षां कुर्वन्तु सर्वदा ॥ १२१॥ शरच्चन्द्रांशुगौरेण देहेनाऽमलतेजसा । सरस्वती शिवेभक्ता शान्तिमाशु करोतु मे ॥ १२२॥ चारुचामीकरच्छाया सरोजकरपल्लवा । शिवभक्ता च श्रीर्देवी श्रीसद्भूतिं ददातु मे ॥ १२३॥ चारुणा मुखचन्द्रेण विचित्रकुसुमोज्ज्वला । जया देवी शिवे भक्ता सर्व कामं ददातु मे ॥ १२४॥ हारेण सुविचित्रेण भास्करोज्ज्वलतेजसा । (var भास्वत्कनक मेखला) अपराजिता शिवेभक्ता करोतु विजयं मम ॥ १२५॥ सिन्दूरारुण रक्ताङ्गः कर्णान्तायत लोचनः । सहस्रकिरणः श्रीमान् सप्ताश्वकृतवाहनः ॥ १२६॥ गभस्तिमाली भगवाशिवपूजापरायणः । करोतु मे महाशान्तिं ग्रहपीडां व्यपोहतु ॥ १२७॥ जगदाप्यायनकरो ह्यमृताधारशीतलः । सोमः सौम्येन भावेन ग्रहपीडां व्यपोहतु ॥ १२८॥ पद्मरागनिभा नेनाऽपि देहेनापिङ्गललोचनः । (var पद्मरागनिभाङ्गेन करिपिङ्गललोचनः ।) अङ्गारकः शिवेभक्तो रुद्रार्चन परायणः ॥ १२९॥ रुद्रसद्भावसम्पन्नो रुद्रध्यानैकमनसः । ग्रहपीडा भयं सर्वं विनाशयतु मे सदा ॥ १३०॥ कुंङ्कुमच्छविदेहेन चारुद्युत्करतः सदा । शिवभक्तो बुधः श्रीमान् ग्रहपीडां व्यपोहतु ॥ १३१॥ धातु चामीकरच्छायः सर्वज्ञानकृतालयः । (var तप्त चामीकरच्छायः) बृहस्पतिः सदाकालमीशानार्चनतत्परः ॥ १३२॥ सोऽपि मे शान्तचित्तेन परमेण समाहितः । ग्रहपीडां विनिर्जित्य करोतु विजयं सदा ॥ १३३॥ हिमकुन्देन्दुतुल्याभः सुरदैत्येन्द्रपूजितः । शुक्रः शिवार्चनरतो ग्रहपीडां व्यपोहतु ॥ १३४॥ भिन्नाञ्जनचयच्छायः सरक्तनयनद्युतिः । शनैश्चरः शिवेभक्तो ग्रहपीडां व्यपोहतु ॥ १३५॥ नीलाञ्जननिभः श्रीमान् सैंहिकेयो महाबलः । शिवपूजापरो राहुग्रहपीडा व्यपोहतु ॥ १३६॥ धूम्राकारो ग्रहः केतुरैशान्यां दिशि संस्थितः । वर्तुलोऽतीव विस्तीर्णलोचनैश्च विभीषणः ॥ १३७॥ पलाशधूम्रसङ्काशो ग्रहपीडाऽपकारकः । घोरदंष्ट्राकरालश्च करोतु विजयं मम ॥ १३८॥ खड्गखेटकहस्तश्च वरेण्यो वरदः शुभः । शिवभक्तश्चाऽग्रजन्मा ग्रहपीडां व्यपोहतु ॥ १३८॥ एते ग्रहा महात्मानो महेशार्चनभाविताः । शान्तिं कुर्वन्तु मे हृष्टाः सदाकालं हितैषिणः ॥ १३९॥ मुखे यस्याः स्थितो मृत्युर्विष्टिर्नाम महाबलः । सम्मुखे विघ्नकर्त्री च पुच्छे तु विजयङ्करी ॥ १४०॥ रुद्रप्रणामपरमा शान्तिमाशु करोतु मे । तृतीया सप्तमी चैव दशमी च चतुर्दशी ॥ १४१॥ चतुर्थी ह्यष्टमी चैव एकादशी च पूर्णिमा । एतेषु विघ्नपातेषु कृष्णशुक्लसमाह्वयाः ॥ १४२॥ नाशयन्तु भयं नित्यं कुर्वन्तु विजयं मम् । अमावस्या महापुण्या पितृदेवसमन्विता ॥ १४३॥ शान्ता ह्येषा महापुण्या शिवस्य च महाप्रिया । शिवतेजः समायुक्ता करोतु विजयं मम् ॥ १४४॥ प्रतिपद्वह्नि संयुक्ता द्वितीया च विधिदैवता । (var द्वितीयाकोधिदेवता) तृतीया च महापुण्या धनदेन समन्विता ॥ १४५॥ चतुर्थी च महापुण्या गजवक्त्राधिदैवतम् । पञ्चमी श्रीयुत नित्यं षष्ठी च स्कन्दाधिदैवतम् ॥ १४६॥ सप्तमी रवि संयुक्ता ह्यष्टमी रुद्रदैवता । तिथिः शूलभृतश्चैव पापहा परमा स्मृता ॥ १४७॥ नवमी तिथिरत्युग्रा दुर्गायाः परिकीर्तिता । दशमी यमसंयुक्ता चैन्द्रेणैकादशी युता ॥ १४८॥ द्वादशी विष्णुसंयुक्ता मदनेन त्रयोदशी । चतुर्दशी महावीर्या तिथिः शङ्करभाविता ॥ १४९॥ पूर्णिमा परिपूर्णात्मा तिथयः सततोज्ज्वलाः । (var चतुर्दशी महेशेन पौर्णमासी हिमांशुना ।) सततं च शुभात्मानस्तिथयश्च क्रमेण तु ॥ १५०॥ पक्षद्वये सदा ह्येताश्चन्द्रगत्याऽनुगामिनः । शान्तिं कुर्वन्तु मे नित्यं शिवज्ञानविधायिनः ॥ १५१॥ विष्कुम्भः प्रीतिरायुष्मान् सौभाग्यः शोभनस्तथा । अतिगण्डः सुकर्मा च धृतिः शूलस्तथैव च ॥ १५२॥ गण्डोवृद्धिः ध्रुवश्चैव व्याघातो हर्षणस्तथा । वज्रः सिद्धिर्व्यतीपातो वरीयान् परिघः शिवः ॥ १५३॥ सिद्धिः साध्यः शुभः शुक्लो ब्रह्मा ऐन्द्रश्च वैधृतिः । चन्द्राभानोश्च ह्युत्पन्ना योगाश्चैते महाबलाः ॥ १५४॥ शिवभक्तिपराः सर्वे शिवज्ञानविधायिनः । शान्ति कुर्वन्तु मे नित्यं तथा किल्विषनाशनम् ॥ १५५॥ कृत्तिका परमा देवी रोहिणी रुचिरानना । श्रीमान् मृगशिरा भद्रा आर्द्रा च परमोज्ज्वला ॥ १५६॥ पुनर्वसुस्तथा पुष्य आश्लेषाऽथ महाबला । नक्षत्रमातरो ह्येताः प्रभामालाविभूषिताः ॥ १५७॥ महादेवाऽर्चने शक्ता महादेवाऽनुभावितः । पूर्वभागे स्थिता ह्येताः शान्तिं कुर्वन्तु मे सदा ॥ १५७॥ मघा सर्वगुणोपेता पूर्वा चैव तु फाल्गुनी । उत्तरा फाल्गुनी श्रेष्ठा हस्ता चित्रा तथोत्तमा ॥ १५८॥ स्वाती विशाखा वरदा दक्षिणस्थानसंस्थिताः । अर्चयन्ति सदाकालं देवं त्रिभुवनेश्वरम् ॥ १५९॥ नक्षत्रमारो ह्येतास्तेजसापरिभूषिताः । ममाऽपि शान्तिकं नित्यं कुर्वन्तु शिवचोदिताः ॥ १६०॥ अनुराधा तथा ज्येष्ठा मूलमृद्धिबलान्वितम् । (var मूला ऋद्धिबलान्वितता ।) पूर्वाषाढा महावीर्या आषाढा चोत्तरा शुभा ॥ १६१॥ अभिजिन्नाम नक्षत्रं श्रवणः परमोज्ज्वलः । एताः पश्चिमतो दीप्ता राजन्ते राजमूर्तयः ॥ १६२॥ ईशानं पूजयन्त्येताः सर्वकालं शुभाऽन्विताः । मम शान्तिं प्रकुर्वन्तु विभूतिभिः समन्विताः ॥ १६३॥ धनिष्ठा शतभिषा च पूर्वाभाद्रपदा तथा । उत्तराभाद्ररेवत्यावश्विनी च महर्धिका ॥ १६४॥ भरणी च महावीर्या नित्यमुत्तरतः स्थिताः । शिवार्चनपरा नित्यं शिवध्यानैकमानसाः ॥ १६५॥ शान्तिं कुर्वन्तु मे नित्यं सर्वकालं शुभोदयाः । मेषो वृषाऽधिपः सिंहो धनुर्दीप्तिमतां वरः ॥ १६६॥ पूर्व भागे स्थिता येते शिवपूजापरायणाः । शान्तिं कुर्वन्तु मे नित्यं हर्पादब्जपूजकाः ॥ १६७॥ वृषश्च कन्या देवी च मकरश्चाऽपि ऋद्धिमान् । एते दक्षिणभागे तु पूजयन्ति सदा शिवम् ॥ १६८॥ भक्त्या परमया नित्यं शान्तिं कुर्वन्तु मे सदा । मिथुनश्च तुला कुम्भः पश्चिमेन व्यवस्थिताः ॥ १६९॥ शिवपादार्चनरताः क्षेमं कुर्वन्तु मे सदा । कर्कटो वृश्चिको मीन एते उत्तरमास्थिताः ॥ १७०॥ पूजयन्ति सदाकालं रुद्रम्भुवननायकम् । शान्तिं कुर्वन्तु मे नित्यं शिवाज्ञाऽनुविधायिनः ॥ १७१॥ बवश्च (बबश्च) बालवश्चैव कौलवस्तैतिलस्तथा । गरो वणिक् तथा विष्टिश्चतुष्पाच्छकुनिस्तथा ॥ १७२॥ नागः किंस्तुघ्न इत्येव करणाः शिवभाविताः । सर्वे सुप्रीतमनसः शान्तिं कुर्वन्तु मे सदा ॥ १७३॥ जन्म सम्पद्विपच्चैव क्षेपप्रत्यरिसाधकाः । वधो मैत्रोऽतिमैत्रश्च एते वै तारकागणाः ॥ १७४॥ शिवभक्ताः सुमनसः कुर्वन्तु मम शान्तिकम् । ऋषयः सप्तविख्याता ध्रुवान्ताः परमोज्ज्वलाः ॥ १७५॥ शिवप्रसादसम्पन्नाः शान्तिं कुर्वन्तु मे सदा । कश्यपो गालवो गार्ग्यो विश्वामित्रो महामुनिः ॥ १७६॥ मुनिर्दक्षोवसिष्ठोऽथ मृकण्डुः पुलहः क्रतुः । असितो बालखिल्याश्च दुर्वासाः पिप्पलादयः ॥ १७७॥ ऋचीको भरतोऽगस्त्यः पराशर्यो विभाण्डकः । मातङ्गो जैमिनिर्व्यासो देवलो दर्भरोमकः ॥ १७८॥ माण्डव्यश्च दधीचिश्च मार्कण्डेयोऽथ गौतमः । नारदो भृगुरात्रेयो भारद्वाजोऽङ्गिरा मुनिः ॥ १७९॥ वाल्मीकिः कौशिकः कण्वः शाकल्योऽथ(जाबाल्योऽथ) पुनर्वसुः । शालङ्कायन इत्याद्या ऋषयोऽथ महाव्रताः ॥ १८०॥ शिवध्यानार्चने युक्ताः शान्तिं कुर्वन्तु मे सदा । ऋषिपत्न्यो महापुण्यास्तथा ऋषिकुमारिकाः ॥ १८१॥ शिवार्चनपरा नित्यं शान्तिं कुर्वन्तु मे सदा सिद्धाः संसिद्धतपसो गणा विद्याधरा ग्रहाः ॥ १८२॥ महात्मानो महोत्साहा गरुडाश्च महर्द्धिकाः । महेश्वरपरा ह्येते महेशं पादपूजकाः ॥ १८३॥ सिद्धिमाशु प्रयच्छन्तु आशीर्वादपरायणाः । नमुचिर्दैत्यराजेन्द्रः शङ्कुकर्णो महाबलः ॥ १८४॥ महानादोऽथ विख्यातो दैत्यः परमवीर्यवान् । हाटकेश्वरदेवस्य नित्यं पूजापरायणाः ॥ १८५॥ बलं वीर्यञ्च मे क्षिप्रं प्रयच्छन्तु महर्द्धिकाः । महाजृम्भो(महाजम्भो) हयग्रीवः प्रह्लादाऽव्यक्तह्लादकः ॥ १८६॥ तारकोऽग्निमुखो दैत्यः कालनेमिर्मदोत्कटः । एते दैत्या महात्मानः शिवसद्भावभाविताः ॥ १८७॥ पुष्टि बलं तथा वीर्यं प्रयच्छन्तु सुखोदयम् । विरोचनो हिरण्याक्षः सुपर्वा च सुलोमकः ॥ १८८॥ मुचुकुन्दः सुकुन्दश्च दैत्यो रैवतकस्तथा । भावेन च परेणाऽऽशु यजन्ते सर्वदा शिवम् ॥ १८९॥ सततञ्च गुणात्मानं पुष्टिं कुर्वन्तु मे सदा । दैत्यपत्न्यो महाभागा दैत्यानां कन्यकाः शुभाः ॥ १९०॥ कुमाराश्चैव दैत्यानां शान्तिं कुर्वन्तु मे सदा आरक्तेन शरीरेण रक्तान्तायतलोचनः ॥ १९१॥ महाभोगकृताटोपः शङ्खाब्जकृतलाञ्छनः । अनन्तो नागराजेन्द्रः शिवपादार्चने रतः ॥ १९२॥ महापापविषं हत्वा शान्तिमाशु करोतु मे । सुश्वेतेन तु देहेन सुश्वेतोत्पलशेखरः ॥ १९३॥ चारुभोगकृताटोपो हारचारुविभूषणः । वासुकिर्नाम नागेन्द्रो रुद्रपूजापरो महान् ॥ १९४॥ महापापं विषं हत्वा शान्तिमाशु (शान्तिं आशु) करोतु मे । अतिपीतेन देहेन विस्फुरद्भोगसम्पदा ॥ १९५॥ तेजसाचाऽतिदीप्तेन कृतः स्वस्तिकलाञ्छनः । नागराट् तक्षकः श्रीमान्नागकोट्यासमन्वितः ॥ १९६॥ करोतु मे महाशान्तिं सर्वदोषविषावहः । अतिकृष्णेन वर्णेन स्फुटो विकटमस्तकः ॥ १९७॥ कण्ठे रेखात्रयोपेतो घोरदंष्ट्रायुधोद्यतः । कर्कोटको महानागो विषदर्पबलाऽन्वितः ॥ १९८॥ विषशस्त्राग्निसन्तापं हत्वा शान्तिं करोतु मे । पद्मवर्णेन देहेन चारुपद्मायतेक्षणः ॥ १९९॥ पञ्चबिन्दुकृताभासो ग्रीवायां शुभलक्षणः । ख्यातः पद्मो महानागो हरपादार्चने रतः ॥ २००॥ करोतु मे महाशान्तिं महापापं विषक्षयम् । पुण्डरीकनिभेनाऽपि देहेनाऽमिततेजसा ॥ २०१॥ शङ्खशूलाब्जरुचिरैर्भूषितो मूर्ध्नि सर्वदा । महापद्मो महानागो नित्यं पशुपतौ रतः ॥ २०२॥ विनिर्धूत(विनिहत्य) विषं घोरं शान्तिमाशु करोतु मे । श्यामेन देहभारेण श्रीमत्कमललोचनः ॥ २०३॥ विषदर्पबलोन्मत्तो ग्रीवायामेकरेखया । शङ्खपालः श्रिया दीप्तः शिवपादाब्जपूजकः ॥ २०४॥ महाविषं महापापं हत्वा शान्तिं करोतु मे । अतिगौरेण देहेन चन्द्रार्धकृतमस्तकः ॥ २०५॥ दीप्तभोगकृताटोपः शुभलक्षणलक्षितः । कुलिको नागराजेशो नित्यं हरपरायणः ॥ २०६॥ अपहृत्य विषं घोरं करोतु मम शान्तिकम् । अन्तरिक्षे च ये नागा ये नागाः स्वर्गसंस्थिताः ॥ २०७॥ गिरिकन्दरदुर्गेषु ये नागा भूमिसंस्थिताः । पाताले ये स्थिता नागाः सर्वेप्यन्ये समाहिताः ॥ २०८॥ रुद्रपादार्चने शान्ताः कुर्वन्तु मम शान्तिकम् । नागिन्यो नागपत्न्यश्च तथा कन्याः कुमारिकाः ॥ २०९॥ शिवभक्ताः सुमनसः शान्तिं कुर्वन्तु मे सदा । यदिदं नागसंस्थानं कीर्तनाच्छ्रवणादपि ॥ २१०॥ न तं सर्पा विहिंसन्ति न विषं क्रमते सदा । चिन्तितं सिध्यते(लभ्यते) नित्यं तथा पापपरिक्षयः ॥ २११॥ सिद्धिमाशु प्रयच्छन्ति सर्वविघ्न विवर्जिताः । गङ्गा पुण्या महादेवी यमुना नर्मदा नदी ॥ २१२॥ गोमती ताप्ती(तप्ती) कावेरी वरुणा देविका तथा । सर्वभूतपतिं देवं परमेशं महेश्वरम् ॥ २१३॥ पूजयन्ति महानद्यः शिवसद्भावभाविताः । शान्तिं कुर्वन्तु मे नित्यं तथा पापपरिक्षयम् ॥ २१४॥ सिद्धिमाशु प्रयच्छन्तु सर्वविघ्न विवर्जितम् । चन्द्रभागा महापुण्या नदी गोदावरी शुभा ॥ २१५॥ सरयूर्गण्डकी श्रेष्ठा कौशिकी च सरस्वती । इमा नद्यो महाभागाः शिवपादार्चने रताः ॥ २१६॥ शान्तिं कुर्वन्तु मे नित्यं शिवध्यानैकमानसाः । नैरञ्जना नाम नदी शोणश्चाऽपि महानदः ॥ २१७॥ मन्दाकिनी च परमा तथा सन्निहिताः शुभाः । इमाश्चाऽन्याश्च या नद्यः भुवि दिव्यन्तरिक्षगाः ॥ २१८॥ रुद्रार्चनपरा नद्यः कुर्वन्तु मम शान्तिकम् । गुह्यानि यानि तीर्थानि आसमुद्रात्सरंसि च ॥ २१९॥ कुर्वन्तु शान्तिकं तानि श्रीकण्ठाधिष्ठितानि तु । महावैश्रणो देवो यक्षराजो महर्द्धिकः ॥ २२०॥ यक्षकोटिपरीवारो यक्षसङ्घेन(यक्षासङ्ख्येन) संयुतः । महाविभवसम्पन्नो हरपादार्चने रतः ॥ २२१॥ हरध्यानैकपरमो हरपादनतोत्तमः । शान्तिं करोतु मे नित्यं पद्मपत्रायतेक्षणः ॥ २२२॥ मणिभद्रो महायक्षो मणिरत्नविभूषणः । मनोहरेण हारेण कण्ठलग्नेन राजते ॥ २२३॥ शिवध्यानरतो नित्यं शिवपदाब्ज पूजकः । शान्तिं करोतु मे नित्यं सर्वदोष निवारणम् ॥ २२४॥ यक्षिणीयक्षकन्याभिः परिवारितविग्रहः । रुद्रार्चनपरो युक्तः करोतु मम शान्तिकम् ॥ २२५॥ सुवीरो नाम यक्षेन्द्रो मणिकुण्डलभूषितः । भालेन हेमपट्टेन शोभनेन विराजतः ॥ २२६॥ बहुयक्षसमाकीर्णो यक्षैर्नमितविग्रहः । शिवपूजापरो युक्तः करोतु मम शान्तिकम् ॥ २२७॥ पञ्जिको नाम यक्षेन्द्रः कर्णिकाकटकोज्ज्वलः । हारेण(मुकुटेन) सुविचित्रेण केयूराभ्यां विराजितः ॥ २२८॥ यक्षसन्धैः समायुक्तो यक्षकोटिसमावृतः । हरार्चनपरः श्रीमान् करोतु मम शान्तिकम् ॥ २२९॥ श्रीमान्विभाण्डको यक्षो नानारत्नविभूषितः । चारुणा कुण्डलेन्द्रेण कर्णे नित्यं विराजितः ॥ २३०॥ यक्षो यक्षपतिर्देवो यक्षसेनापतिर्बुधः । हरपादार्चनरतः करोतु मम शान्तिकम् ॥ २३१॥ धृतराष्ट्रो महातेजा यक्षाधिपसमः प्रभुः । दिव्यपट्टांशुकच्छन्नो मणिकाञ्चनभूषितः ॥ २३२॥ शिवभक्तः शिवं ध्यात्वा शिवपूजापरायणः । शिवप्रसादसम्पन्नः करोतु मम शान्तिकम् ॥ २३३॥ पूर्णभद्रो महायक्षः सर्वालङ्कारभूषितः । रत्नप्रदीप्तपट्टेन हेमेनाऽतिपरिष्कृतः ॥ २३४॥ (var हैमेनातीव राजिते ।) यक्षकोटिसहस्रेण परिवारेण संस्कृतः । (var परिवारित विग्रहः ।) रुद्रप्रणामपरमो रुद्रभक्तिरतस्सदा ॥ २३५॥ रुद्रार्चनसमायुक्तः करोतु मम शान्तिकम् । विरूपाक्षश्च यक्षेन्द्रः श्वेतवासा महाद्युतिः ॥ २३६॥ चारुकाञ्चनमालाभिः किङ्किणीरवकान्वितः । भूषितश्च महाकायो वरदानैकतत्परः ॥ २३७॥ रुद्रपूजापरो नित्यं करोतु मम शान्तिकम् । अन्तरिक्षगता यक्षास्ते यक्षाः स्वर्गवासिनः ॥ २३८॥ गिरिकन्दरदुर्गेषु ये यक्षा भूमिवासिनः । पाताले ये स्थिता यक्षाः शिवेप्यन्तः समाहिताः ॥ २३९॥ नानारूपाऽऽयुधा यक्षा नानाभेषधरास्तथा । योगैश्वर्ययुताः सर्वे (शिवभक्ताः सुमनसः) शिवपूजासमुत्सुकाः ॥ २४०॥ शान्तिं कुर्वन्तु मे हृष्टाः शान्ताः शान्तिपरायणाः । यक्षिण्यो विविधाकारास्तथा यक्षकुमारिकाः ॥ २४१॥ यक्षकन्या महाभागाः शिवपूजार्चने रताः । शान्तिस्वस्त्ययनं क्षेमं बलं कल्याणमुत्तमम् ॥ २४२॥ सिद्धिञ्चाऽऽशु प्रयच्छन्तु नित्यमेव समाहिताः । मेरुर्मन्दरकैलासौ मलयो गन्धमादनः ॥ २४३॥ श्रीपर्वतो महेन्द्रश्च हेमकूटस्तथैव च । पर्वता सर्वतः सर्वे सर्वदा सुमहर्द्धिकाः ॥ २४४॥ शिवभक्ताः सदाकालं क्षेमं कुर्वन्तु मे सदा । जम्बूद्वीपः प्लक्षद्वीपः शाल्मलीकुशद्वीपकौ ॥ २४५॥ क्रौञ्चद्वीपः शाकद्वीपो गोमेदद्वीपको महान् । पुष्करस्तु महाद्वीप एते द्वीपा महारुचः ॥ २४६॥ रुद्रभक्तिरताः सर्वे शान्तिं कुर्वन्तु मे सदा । क्षारक्षीरोदकौ चैव दध्युदोऽथ घृतोदकः ॥ २४७॥ सुरोदः स्वादुदश्चैव इक्षुदकस्तथैव च । सप्तसमुद्रनामानः कुर्वन्तु मम शान्तिकम् ॥ २४८॥ सागराः सरितः सर्वाः सागराः सर्वतः स्थिताः । रुद्रपूजापरानित्यं कुर्वन्तु मम शान्तिकम् ॥ २४९॥ राक्षसाः सर्वतः सर्वे राक्षसा घोररूपिणः । राक्षसा ये महावीर्या राक्षसाश्च महाबलाः ॥ २५०॥ स्वर्गं जलस्थानस्था ये तु अन्तरिक्षे तु राक्षसाः । पाताले भूतले ये च नित्यं रुद्रपरायणाः ॥ २५१॥ शान्तिं कुर्वन्तु मे नित्यं सततं शिवभाविताः । भैरवं यस्य रूपं तु प्रेतभस्माऽवगुण्ठितम् ॥ २५२॥ (var प्रेमभस्माऽवगुण्ठितम्) तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा । नित्यमुज्ज्वलवेषेन योगिन्योऽथ महाबलाः ॥ २५३॥ रुद्राण्यो विविधाऽऽकारा डाकिन्यश्च महर्द्धिकाः । रुद्रप्रणामनिरता रुद्रपूजारताः सदा ॥ २५४॥ रुद्रेकाहितचेतस्काः कुर्वन्तु मम शान्तिकम् । अन्तरिक्षगतायाश्च डाकिन्यः स्वर्गसंस्थिताः ॥ २५५॥ पाताले भूतले याश्च गिरिदुर्गेषु याः स्थिताः । तृतीयं लोचनं यस्य त्रिशूलं भस्म भासुरम् ॥ २५६॥ तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा । सर्वे भूता महारूपाः सर्वे भूता महोज्ज्वलाः ॥ २५७॥ सर्वे भूताः स्थिताः सौम्याः सर्वे भूता मनोजवाः । अन्तरिक्षे च ये भूता ये भूता दिवि संस्थिताः ॥ २५८॥ पाताले भूतले ये तु भूता भूतविधायकाः(भूतिविधायिनः) । खट्वाङ्गं विमलं यस्य त्रिशूलं करपल्लवे ॥ २५९॥ तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा । प्रेताः प्रेतगणाः सर्वे ये प्रेताः सर्वतोमुखाः ॥ २६०॥ अतिदीप्ताश्च ये प्रेता ये प्रेता रुधिराशनाः । अन्तरिक्षे च ये प्रेताः ये प्रेताः स्वर्गवासिनः ॥ २६१॥ पाताले भूतले प्रेता ये प्रेताः कामरूपिणः । स्मशाने निलयो यस्य वृषभो यस्य वाहनम् (वाहनः) ॥ २६२॥ तेजसा तस्य देवस्य शान्ति कुर्वन्तु मे सदा । ये पिशाचा महावीर्या ऋद्धिमन्तो महाबलाः ॥ २६३॥ नानारूपधराः सर्वे सर्वे च गुणविस्तराः । अन्तरिक्षे पिशाचा ये स्वर्गे ये च पिशाचकाः ॥ २६४॥ भू-पाताले पिशाचाश्च बहुरूपाः महोज्ज्वलाः । चन्द्रार्धं मस्तके यस्य भस्मं यस्य विभूषणम् ॥ २६५॥ तेजसा तस्य देवस्य शान्ति कुर्वन्तु मे सदा । अपस्मारग्रहाः सर्वे सर्वे चाऽपि ज्वरग्रहाः ॥ २६६॥ गर्भबालग्रहा ये तु नानारोगग्रहाश्च ये । अन्तरिक्षे ग्रहा ये तु स्वर्गे ये तु ग्रहोत्तमाः ॥ २६७॥ पाताले भूतले ये च(तु) ये ग्रहाः सर्वतोदिशि । कण्ठे यस्य महानीलं भूषणं यस्य पन्नगाः ॥ २६८॥ तेजसा तस्य देवस्य शान्तिं कुर्वन्तु मे सदा । एते देवादयः सर्वे शिवाऽऽज्ञानुपधायिनः ॥ २६९॥ कुर्वन्तु जगतः शान्तिं शिवभक्ताश्च सर्वदा । जयात्मयोगसंस्थाय जय संशुद्धचेतसे ॥ २७०॥ जय दानैकशूराय जयेशाय नमोऽस्तु ते । जयोत्तमाय देवाय जय कल्याणदायिने(कल्याणकीर्तये) ॥ २७१॥ जय प्रकटदेहाय जय जाप्याय(जप्याय) ते नमः । जय लक्ष्मीनिवासाय जय कान्तिविधायिने ॥ २७२॥ (var लक्ष्मीविधानाय) जय वाक्यविशुद्धाय अजिताय नमो नमः । जय त्रिशूलहस्ताय जय खट्वाङ्गधारिणे ॥ २७३॥ जय निर्जितलोकाय जय रूपाय ते नमः । जय कान्तार्धदेहाय जय चन्द्रार्धधारिणे ॥ २७४॥ जय देवाधिवासाय(देवाधिदेवाय) जय रुद्राय ते नमः । जय त्रिभुवनेशाय जय विख्यातकीर्तये (कल्याणकीर्तये) ॥ २७५॥ जयाधाराय शर्वाय जय कर्त्रे नमो नमः । (var जय सर्वावधाराय) जय मोक्षप्रदात्रे च सृष्टिसंहारकारिणे ॥ २७६॥ जय निर्मल देहाय जय सर्वार्थकारिणे । जय मन्मथनाशाय ईशानाय नमो नमः ॥ २७७॥ ब्रह्मविष्ण्वीशवन्याय शिवशान्ताय ते नमः । जय जातविशुद्धाय सर्वव्यापिन्नमोऽस्तु ते ॥ २७८॥ इत्येवं शान्तिकाध्यायं यः पठेच्छृणुयादऽपि । सुधियः सुखतां यान्ति शिवलोके महीयते ॥ २७९॥ (var विधूय सर्वपापानि शिवलोके महीयते ॥) कन्यार्थी लभते कन्यां जयकामौ जयं लभेत् । अर्थकामो लभेदर्थं पुत्रकामस्तु तान् बहून् ॥ २८०॥ विद्यार्थी लभते विद्यां योगार्थी योगमाप्नुयात् । गर्भिणी लभते पुत्रं कन्या विन्दति सत्पतिम् ॥ २८१॥ यो यान प्रार्थयते कामान् मानवः श्रवणादिह । तत्सर्वं शीघ्रमाप्नोति देवानां च प्रियो भवेत् ॥ २८२॥ शान्त्यध्यायं पठेद्यस्तु सङ्ग्राम प्रविशेन्नरः । सुनिर्जित्याऽऽहवे शत्रून् कल्याणैः परिपूर्यते ॥ २८३॥ अक्षय्यं मोदते कालमतिरस्कृतशासनः । व्याधिभिर्नाभिभूयेत पुत्रपौत्रैः प्रतिष्ठितः ॥ २८४॥ पाठ्यमानमिदं पुण्यं यमुद्दिश्य च पठ्यते । न तस्य रोगा बाधन्ते वातपित्तादिसम्भवाः ॥ २८५॥ नाऽकाले मरणं तस्य न सर्पैश्चाऽपि दंश्यते । न विष क्रमते देहे न जडान्धत्वमूकता ॥ २८६॥ न च सर्पभयं तस्य न चोत्पातभयं भवेत् । नाऽभिचारकृतैर्दोषैः लिप्यते स कदाचन ॥ २८७॥ यत्पुण्यं सर्वतीर्थानां गङ्गादीनां विशेषतः । तत्पुण्यं कोटिगुणितं प्राप्नोति श्रवणादिह ॥ २८८॥ यज्ञानामश्वमेधानामग्निष्टोमशतस्य च । (var दशानां राजसूयानां अग्निष्टोमशतस्य च ।) श्रवणात् फलमाप्नोति कोटिकोटिगुणोत्तरम् ॥ २८९॥ अवध्यः सर्वदेवानां (सर्वभूतानां) अन्येषां च विशेषतः । जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः ॥ २९०॥ गोघ्नश्चैव कृतघ्नश्च ब्रह्महा गुरुतल्पगः । शरणागतघाती च मित्रविश्वासघातकः ॥ २९१॥ दुष्टपापसमाचारो मातृहा पितृहा तथा । श्रवणादस्य पाठाद् वा मुच्यते सर्वपातकैः ॥ २९२॥ शान्त्यध्यायमिदं पुण्यं न देयं यस्य कस्यचित् । शिवभक्ताय दातव्यं शिवेन कथितं पुरा ॥ २९३॥ नित्यं खचितशक्तिश्च शक्तिव्याघात वर्जितः । (var नित्यं खचितचित्तः स्याच्छक्तिव्याघात वर्जितः ।) सर्वकाम समृद्धस्तु यः पठेत दिने दिने ॥ २९४॥ ॥ शिवधर्माख्ये नन्दिकेश्वरसंवादे शान्तिकाध्यायः शुभः ॥