अक्षर आकार:

सशक्तिशिवनवकम्

sashaktishivanavakam

सशक्तिशिवनवकम्

वेदशास्त्रपुराणेतिहासकाव्यकलादिषु । विज्ञानं देहि मे वाचां ऐं नमः क्लीं शिवाय सौः ॥ १॥ चतुर्दशासु विद्यासु चतुःषष्टिकलासु च । चतुरां धियमाधेहि ऐं नमः क्लीं शिवाय सौः ॥ २॥ मीमांसायां समस्तायां शब्दशास्त्रे विशेषतः । देहि मे देव सम्प्रज्ञां ऐं नमः क्लीं शिवाय सौः ॥ ३॥ गणितेषु च सर्वज्ञ देहि मे परमेश्वर । सम्यक् ज्ञानं जगन्नाथ ऐं नमः क्लीं शिवाय सौः ॥ ४॥ सकलेष्वपि काव्येषु सकलासु कथासु च । साहित्यं देहि मे वाचां ऐं नमः क्लीं शिवाय सौः ॥ ५॥ हृदयाम्भोरुहे नित्यं वस मे जगदीश्वर । हर मे दुरितं शश्वत् ऐं नमः क्लीं शिवाय सौः ॥ ६॥ जन्मान्तरकृतं पापं बुद्धेर्जाड्यकरं शिव । जहि जन्तुषु निन्दां च ऐं नमः क्लीं शिवाय सौः ॥ ७॥ विषयेषु विरक्तिं च विविधेषु विधेहि मे । विनतेष्टद विश्वेश ऐं नमः क्लीं शिवाय सौः ॥ ८॥ मुक्तिमार्गपरं चित्तं कुरु मे जगदीश्वर । मुग्धचन्द्रकलाचूड ऐं नमः क्लीं शिवाय सौः ॥ ९॥ इत्येतन्नवकं नित्यं भक्तितो यः पठेन्नरः । प्रारम्भास्तस्य सिद्ध्यन्ति प्रार्थितं चापि सिद्ध्यति ॥ १०॥ इति सशक्तिशिवनवकं समाप्तम् ॥