अक्षर आकार:

सदाशिवेन्द्रस्तुतिः

sadAshivendrastutiH

सदाशिवेन्द्रस्तुतिः

श्रीगणेशाय नमः । परतत्त्वलीनमनसे प्रणमद्भवबन्धमोचनायाशु । प्रकटितपरतत्त्वाय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ १॥ परमशिवेन्द्रकराम्बुजसम्भूताय प्रणम्रवरदाय । पदधूतपङ्कजाय प्रणतिं०॥ २॥ विजननदीकुञ्जगृहे मञ्जुलपुलिनैकमञ्जुतरतल्पे । शयनं कुर्वाणाय प्रणतिं- ॥ ३॥ कामाहिद्विजपतये शमदममुखदिव्यरत्नवारिधये । शमनाय मोहविततेः प्रणर्ति०॥ ४॥ नमदात्मबोधदात्रे रमते परमात्मतत्त्वसौधाग्रे । समबुद्धयेऽश्महेम्नोः प्रणतिं०॥ ५॥ गिलिताविद्याहालाहलहतपुर्यष्टकाय बोधेन । मोहान्धकाररवये प्रणतिं०॥ ६॥ शममुखषट्कमुमुक्षाविवेकवैराग्यदाननिरताय । तरसा नतजनततये प्रणतिं०॥ ७॥ सिद्धान्तकल्पवल्लीमुखकृतिकर्त्रे कपालिभक्तिकृते । करतलमुक्तिफलाय प्रणतिं०॥ ८॥ तृणपङ्कलिप्तवपुषे तृणतोऽप्यधरं जगद्विलोकयते । वनमध्यविहरणाय प्रणतिं०॥ ९॥ निगृहीतहृदयहरये प्रगृहीतात्मस्वरूपरत्नाय । प्रणताब्धिपूर्णशशिने प्रणतिं०॥ १०॥ अज्ञानतिमिररवये प्रज्ञानाम्भोधिपूर्णचन्द्राय । प्रणताघविपिनशुचये प्रणतिं०॥ ११॥ मतिमलमोचनदक्षप्रत्यग्ब्रह्मैक्यदाननिरताय । स्मृतिमात्रतुष्टमनसे प्रणतिं०॥ १२॥ निजगुरुपरम शिवेन्द्रश्लाघितविज्ञानकाष्ठाय । निजतत्त्वनिश्चलहृदे प्रणतिं०॥ १३॥ प्रविलाप्य जगदशेषं परिशिष्टखण्डवस्तुनिरताय । आस्यप्राप्तान्नभुजे प्रणर्ति०॥ १४॥ उपधानीकृतबाहुः परिरब्धविरक्तिरामो यः । वसनीकृतखायास्मै प्रणतिं०॥ १५॥ सकलागमान्तसारप्रकटनदक्षाय नम्रपक्षाय । सच्चित्सुखरूपाय प्रणतिं ॥ ३६॥ द्राक्षाशिक्षणचतुरव्याहाराय प्रभूतकरुणाय । वीक्षापावितजगते प्रणतिं०॥ १७॥ योऽनुत्पन्नविकारो बाहौ म्लेच्छेन छिन्नपतितेऽपि । अविदितममतायास्मै प्रणतिं०॥ १८॥ न्यपतन्सुमानि मूर्धनि येनोच्चरितेषु नामसूग्रस्य । तस्मै सिद्धवराय प्रणतिं०॥ १९॥ यः पापिनोऽपि लोकान् तरसा प्रकरोति पुण्यनिष्ठाग्र्यान् । करुणाम्बुराशयेऽस्मै प्रणतिं०॥ २०॥ सिद्धेश्वराय बुद्धेः शुद्धिप्रदपादपद्मनमनाय । बद्वा प्रमोचकाय प्रणतिं०॥ २१॥ हृद्याय लोकविततेः पद्यावलिदाय जन्ममूकेभ्यः । प्रणतेभ्यः पदयुगले प्रणतिं०॥ २२॥ जिह्वोपस्थरतानप्याह्वोच्चारेण जातु नैजस्य । कुर्वाणाय विरक्तान्प्रणतिं०॥ २३॥ कमनीयकवनकर्त्रे शमनीयभयापहारचतुराय । तपनीयसदृशवपुषे प्रणतिं०॥ २४॥ तारकविद्यादात्रे तारकपतिगर्ववारकास्याय । तारजपप्रवणाय प्रणतिं०॥ २५॥ मूकोऽपि यत्कृपा चेल्लोकोत्तरकीर्तिराशु जायेत । अद्भुतचरितायास्मै प्रणतिं०॥ २६॥ दुर्जनदूरायतरां सज्जनसुलभाय हस्तपात्राय । तरुतलकेतिनाय ग्रणतिं०॥ २७॥ भवसिन्धुधारयित्रे भवभक्ताय प्रणम्रवश्याय । भवबन्धविरहिताय प्रणतिं०॥ २८॥ त्रिविधस्यापि त्यागं वपुषः कर्तुं स्थलत्रये य इव । अकरोत्समाधिमस्मै प्रणतिं०॥ २९॥ कामिनमपि जितहृदयं क्रूरं शान्तं जडं सुधियम् । कुरुते यत्करुणाऽस्मै प्रणतिं०॥ ३०॥ वेदस्मृतिस्थविद्वल्लक्षणलक्ष्येषु सन्दिहानानाम् । निश्चयकृते विहर्त्रे प्रणतिं०॥ ३१॥ बालारुणनिभवपुषे लीलानिर्धूतकामगर्वाय । लोलाय चितिपरस्यां प्रणति०॥ ३२॥ शरणीकृताब सुगुणैणीकृतरक्तपङ्कजाताय । धरणीसदृक्क्षमाय प्रणति०॥ ३३॥ प्रणताय यतिवरेण्यैर्गणनाथेनाप्यसाध्यविघ्नहृते । गुणदासीकृतजगते प्रणति०॥ ३४॥ सहमानाय सहस्राण्यप्यपराधान्प्रणम्रजनरचितान् । सहसैव मोक्षदात्रे प्रणतिं०॥ ३५॥ धृतदेहाय नतावलितूणप्रज्ञाप्रदानवाञ्छातः । श्रदिक्षिणवक्त्राय प्रणतिं कुर्मः सदाशिवेन्द्राय ॥ ३६॥ तापत्रयार्तहृदयस्तापत्रयहारदक्षनमनमहम् । गुरुवरबोधितमहिमन् शरणं यास्ये तवाङ्घ्रिकमलयुगम् ॥ ३७॥ सदाऽऽत्मनि विलीनहृत्सकलवेदशास्त्रार्थवित् सरित्तटविहारकृत् सकललोकहृतापहृत् । सदाशिवपदाम्बुजप्रणतलोकलभ्य ग्रभो सदाशिवयतीट् सदा मयि कृपामपारां कुरु ॥ ३८॥ पुरा यवनकर्तनस्रवदमन्दरक्तोऽपि यः पुनः पदसरोरुहप्रणतमेनमेनोविधिम् । कृपापरवशः पदं पतनवर्जितं प्राप यत्- सदाशिवयतीट् स मय्यनवधिं कृपां सिञ्चतु ॥ ३९॥ हृषीकहृतचेतसि प्रहृतदेहके रोगकै- रनेकवृजिनालये शमदमादिदिगन्धोज्झिते । तवाङ्घ्रिपतिते यतौ यतिपते महायोगिराट् सदाशिव कृपां मयि प्रकुरु हेतुशून्यां द्रुतम् ॥ ४०॥ न चाहमतिचातुरीरचितशब्दसङ्घैः स्तुतिं विधातुमपि च क्षमो न च जपादिकेऽप्यस्ति मे । बलं बलवतां वर प्रकुरु हेतुशून्यां विभो सदाशिव कृपां मयि प्रवर योगिनां सत्वरम् ॥ ४१॥ शब्दार्थविज्ञानयुता हि लोके वसन्ति लोका बहवः प्रकामम् । निष्ठायुता न श्रुतदृष्टपूर्वा विना भवन्तं यतिराज नूनम् ॥ ४२॥ स्तोकार्चनप्रीतहृदम्बुजाय पादाब्जचूडापररूपधर्त्रे । शोकापहर्त्रे तरसा नतानां पाकाय पुण्यस्य नमो यतीश ॥ ४३॥ नाहं हृषीकाणि विजेतुमीशो नाहं सपर्याभजनादि कर्तुम् । निसर्गया त्वं दययैव पाहि सदाशिवेमं करुणापयोधे ॥ ४४॥ कृतयाऽनयानतावलिकोटिगतेनातिमन्दबोधेन । मुदमेहि नित्यतृप्तप्रवर स्तुत्या सदाशिवायाशु ॥ ४५॥ इति श्रीजगद्रुरुश‍ृङ्गगिरिश्रीसच्चिदानन्दशिवाभिनव- नृसिंहभारतीस्वामिभिर्विरचिता सदाशिवमहेन्द्रस्तुतिः समाप्ता ॥