अक्षर आकार:

सदाशिवस्तोत्रम् २

Sadashiva Stotram 2

सदाशिवस्तोत्रम् २

ॐ नमः परमकल्याण नमस्ते विश्वभावन नमस्ते पार्वतीनाथ उमाकान्त नमोऽस्तु ते ॥ ४७-२३३॥ विश्वात्मने विचिन्त्याय गुणाय निर्गुणाय च । धर्माय ज्ञानमोक्षाय नमस्ते सर्वयोगिने ॥ ४७-२३४॥ नमस्ते कालरूपाय त्रैलोक्यरक्षणाय च । गोलोकघातकायैव चण्डेशाय नमोऽस्तु ते ॥ ४७-२३५॥ सद्योजाताय देवाय नमस्ते शूलधारिणे । कालान्ताय च कान्ताय चैतन्याय नमो नमः ॥ ४७-२३६॥ कुलात्मकाय कौलाय चन्द्रशेखर ते नमः । उमानाथ नमस्तुभ्यं योगीन्द्राय नमो नमः ॥ ४७-२३७॥ सर्वाय सर्वपूज्याय ध्यानस्थाय गुणात्मने । पार्वती प्राणनाथाय नमस्ते परमात्मने ॥ ४७-२३८॥ एतत्स्तोत्रं पठित्वा च स्तौति यः परमेश्वरम् । याति रुद्रकुलस्थानं मणिपूरं विभिद्यते ॥ ४७-२३९॥ एतत् स्तोत्रप्रपाठेन तुष्टो भवति शङ्करः । खेचरत्वं पदं नित्यं ददाति परमेश्वरः ॥ ४७-२४०॥ इति श्रीरुद्रयामले उत्तरतन्त्रे सदाशिवस्तोत्रं सम्पूर्णम् ॥ ४७॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra.