अक्षर आकार:

श्रीसदाशिवस्तोत्रम्

Shri Sadashava Stotram

श्रीसदाशिवस्तोत्रम्

पङ्कजोद्भव प्रपूजिताङ्घ्रि पङ्कजद्वयं किङ्करिकृतमरोगमप्रमेयमव्ययम् । सङ्कटापहं समस्तलोकपालनोत्सुकं चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ १॥ आगमान्तचारिणं निकृतमतवारणं वागतीतमद्वयं विराजवाहनप्रियम् । नागभूषणं कुरङ्गधारिणं विरागिनं चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ २॥ फालनेत्रदग्धमन्मथ प्रमुग्धविग्रहं भालस्थिते भानुमौलिमाद्रिराजसायकम् । नीललोहितं निशीधिनीश निर्मलाङ्गकं चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ ३॥ पादयुग्मसार साश्रितद्वयपादपं नादरूपमद्रिजा घनस्तनप्रमर्दिनम् । वेदवेद्यमादिदेवमुग्रमुक्शवाहनं चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ ४॥ देवनिम्नगा तरङ्ग शीखरोल्लसज्जटं भावनाविधूरगं कपालिनं पिनाकिनम् । पावनं पुरातनं पुरात्रयप्रभञ्जनम् चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ ५॥ शीतलचलात्मज हृदम्बुज भास्करं वीतराग योगिवृन्द चिदारङ्गनर्तकम् । सारगं सनातनं समाधिकं सदानतं चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ ६॥ रामनाममन्त्र तत्त्वचिन्तनैकचेतसां कामनाशनं कृषाणु लोचनं निरञ्जनम् । व्योमकेशमीश्वरं भवम्भवाब्धि तारकं चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ ७॥ बन्धहीन लोकबन्धु मन्दकान्तकं सिन्दुरास्य बाहुलेय लालनलोलुपम् । दण्डिचर्मचेलमीहितार्थधं सुखास्पदं चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ ८॥ सत्यचिद्घनं विकल्पहीनमक्शयं परं नित्यमीश्वरं कृशाणुरेतसं निरागसम् । मृत्युभीतिभेदकं मृगेन्दुपुत्रपालकं चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ ९॥ विष्टपोद्भवस्थिति प्रनाशकारणं शिवं दुष्टदैत्यसूदनं कपालशूलधारणम् । शिष्टपालनं गिरीशमष्टमूर्तिमन्वहं चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ १०॥ भूतनायकं विभूतिभूषणं विषाशिनं पाथगौकनाशनं पवित्रमस्थिमालिनम् । जाटरूपकान्तिकाम्यकेशपाशशोभिनं चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ ११॥ तारकेश शेखरं तमालनील कन्धरं तारकस्वरूपकं त्रिवर्गसिद्धिदायकम् । तारकारि तोषणैक तत्परं दिगम्बरं चिन्तयामहे सदाशिवं शिवार्धविग्रहम् ॥ १२॥ स्तोत्रमेतदुत्तमं समस्तसूरिभावितं गोत्रनन्दिनीपति प्रियङ्करं शिवङ्करम् । श्रोत्रसौख्यहेतुकं मुदा सदापि यः पठेद्- सार्द्रया सुगीत पूतमच्युतं पदं लभेत् ॥ १३॥ इति श्रीसदाशिवस्तोत्रं सम्पूर्णम् ।