अक्षर आकार:

श्रीसदाशिवप्रमाणिका

Shri Sadashivapramanika

श्रीसदाशिवप्रमाणिका

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ सदाशिवाय विद्महे । गङ्गाधराय धीमहि । तन्नो भद्रः प्रचोदयात् । अथ श्रीसदाशिवप्रमाणिका । सदाशिवं मुदामयं सुधाकरप्रभासखम् । सदा भजे सुगङ्गिकं स्वरात्मकं स्वरासरम् ॥ १॥ सुपञ्चवक्त्रगारसं गुरुप्रगीतकीर्तनम् । सुपञ्चवारिवासनं गुरुप्रगेयरासकम् ॥ २॥ सुनृत्यलासगालयं शिवामयं शिवासहम् । सुशङ्करं वशङ्करं भयापहं यमापहम् ॥ ३॥ कुकालवैरिणं भवं भवाब्धितारिणं भगम् । सुरामनामतन्मयं सुनामकीर्तनालयम् ॥ ४॥ सरीगमापधानिसासुसप्तनादमोदितम्। नमामि तं शिवात्मकं वरप्रदं शुभप्रदम् ॥ ५॥ सुपुष्पमालिकार्पणं सुपुष्पनादसौरभम्। प्रमाणपुष्पवर्षणं प्रमाणितातिमङ्गलम् ॥ ६॥ सदाशिवप्रमाणिका सदाशिवप्रचोदिता। सदाप्रमोददायिका सदाशिवा सुमङ्गला ॥ ७॥ सदाशिवाय मङ्गलं उमावराय मङ्गलम्। स्वरोदयाय मङ्गलं सुभेषजाय मङ्गलम् ॥ ८॥ सद्गुरुत्यागराजार्यशिष्यापुष्पासुगीतिका । सदाशिवगुरुप्रीता सदामङ्गलदायिका ॥ ९॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृता श्रीसदाशिवप्रमाणिका गुरौ समर्पिता । ॐ शुभमस्तु । Copyright Pushpa Srivatsan