सदाशिवपञ्चरत्नम्
श्रीगणेशाय नमः ।
यत्सन्दर्शनमात्राद्भक्तिर्जाताप्यविद्धकर्णस्य ।
तत्सन्दर्शनमधुना कृत्वा नूनं कृतार्थोऽस्मि ॥ १॥
योऽनिशमात्मन्येव ह्यात्मानं सदधद्वीथ्याम् ।
भस्मच्छज्ञानल इव जडाकृतिश्चरति तं नौमि ॥ २॥
यस्य विलोकनमात्राच्चेतसि सञ्जायते शीघ्रम् ।
वैराग्यमचलमखिलेष्वपि विषयेषु प्रणौमि तं यमिनम् ॥ ३॥
पुरतो भवतु कृपाब्धिः पुरवैरिनिविष्टमानसः सोऽयम् ।
परमशिवेन्द्रकराम्बुजसञ्जातो यः सदाशिवेन्द्रो मे ॥ ४॥
उन्मत्तवत्सञ्चरतीह शिष्यस्तवेति लोकस्य वचांसि शृण्वन् ।
खिद्यन्नुवाचास्य गुरुः पुराहो ह्युन्मत्तता मे न हि तादृशीति ॥ ५॥
पञ्चकमेतद्भक्त्या श्लोकानां विरचितं लोके ।
यः पठति सोऽपि लभते करुणां शीघ्रं सदाशिवेन्द्रस्य ॥ ६॥
इति सदाशिवपञ्चरत्नं सम्पूर्णम् ॥
सोशल मीडिया पर शेयर करें:
सहेजें एवं डाउनलोड करें (Save & Export):