अक्षर आकार:

साम्बपञ्चाशिका

sAmbapa~nchAshikA

साम्बपञ्चाशिका

श्रीगणेशाय नमः ॥ शब्दार्थत्वविवर्तमानपरमज्योतीरुचो गोपते- रुद्गीथोऽभ्युदितः पुरोऽरुणतया यस्य त्रयीमण्डलम् । भाव्यद्वर्णपदक्रमेरिततमः सप्तस्वराश्वैर्वियद्- विद्यास्यन्दनमुन्नयन्निव नमस्तस्मै परब्रह्मणे ॥ १॥ ओमित्यन्तर्नदति नियतं यः प्रतिप्राणि शब्दो वाणी यस्मात्प्रसरति परशब्दतन्मात्रगर्भा । प्राणापानौ वहति च समौ यो मिथो ग्राससक्तौ देहस्थं तं सपदि परमादित्यमाद्यं प्रपद्ये ॥ २॥ यस्त्वक्चक्षुःश्रवणरसनाघ्राणपाण्यङ्घ्रिवाणी- पायूपस्थस्थितिरपि मनोबुह्यद्ध्यहङ्कारमूर्तिः । तिष्ठत्यन्तर्बहिरपि जगद्भासयन्द्वादशात्मा मार्तण्डं तं सकलकरणाधारमेकं प्रपद्ये ॥ ३॥ या सा मित्रावरुणसदनादुच्चरन्ती त्रिषष्टिं वर्णानत्र प्रकटकरणैः प्राणसङ्गात्प्रसूतान् । तां पश्यन्तीं प्रथममुदितां मध्यमां बुद्धिसंस्थां वाचं वक्त्रे करणविशदां वैखरीं च प्रपद्ये ॥ ४॥ ऊर्ध्वाधःस्थान्यतनुभुवनान्यन्तरा सन्निविष्टा नानानाडिप्रसवगहना सर्वभूतान्तरस्था । प्राणापानग्रसननिरतैः प्राप्यते ब्रह्मनाडी सा नः श्वेता भवतु परमादित्यमूर्तिः प्रसन्ना ॥ ५॥ न ब्रह्माण्डव्यवहितपथा नातिशीतोष्णरूपा नो वा नक्तन्दिवगममिताऽतापनीयापराहुः । वैकुण्ठीया तनुरिव रवे राजते मण्डलस्था सा नः श्वेता भवतु परमादित्यमूर्तिः प्रसन्ना ॥ ६॥ यत्रारूढं त्रिगुणवपुषि ब्रह्म तद्बिन्दुरूपं योगीन्द्राणां यदपि परमं भाति निर्वाणमार्गः । त्रय्याधारः प्रणव इति यन्मण्डलं चण्डरश्मे- रन्तःसूक्ष्मं बहिरपि बृहन्मुक्तयेऽहं प्रपन्नः ॥ ७॥ यस्मिन्सोमः सुरपितृनरैरन्वहं पीयमानः क्षीणः क्षीणः प्रविशति यतो वर्धते चापि भूयः । यस्मिन्वेदा मधुनि सरधाकारवद्भन्ति चाग्रे तच्चण्डांशोरमितममृतं मण्डलस्थं प्रपद्ये ॥ ८॥ ऐन्द्रीमाशां पृथुकवपुषा पूरयित्वा क्रमेण क्रान्ताः सप्त प्रकटहरिणा येन पादेन लोकाः । कृत्वा ध्वान्तं विगलितबलिव्यक्ति पाताललीनं विश्वालोकः स जयति रविः सत्त्वमेवोर्ध्वरश्मिः ॥ ९॥ ध्यात्वा ब्रह्म प्रथममतनु प्राणमूले नदन्तं दृष्ट्वा चान्तः प्रणवमुखरं व्याहृतीः सम्यगुक्त्वा । यत्तद्वेदे तदिति सवितुर्ब्रह्मणोक्तं वरेण्यं तद्भर्गाख्यं किमपि परमं धामगर्भं प्रपद्ये ॥ १०॥ त्वां स्तोष्यामि स्तुतिभिरिति मे यस्तु भेदग्रहोऽयं सैवाविद्या तदपि सुतरां तद्विनाशाय युक्तः । स्तौम्येवाहं त्रिविधमुदितं स्थूलसूक्ष्मं परं वा विद्योपायः पर इति बुधैर्गीयते खल्वविद्या ॥ ११॥ योऽनाद्यन्तोऽप्यतनुरगुणोऽणोरणीयान्महीयान्- विश्वाकारः सगुण इति वा कल्पनाकल्पिताङ्गः । नानाभूतप्रकृतिविकृतीर्दर्शयन् भाति यो वा तस्मै तस्मै भवतु परमादित्य नित्यं नमस्ते ॥ १२॥ तत्त्वाख्याने त्वयि मुनिजना नेति नेति ब्रुवन्तः श्रान्ताः सम्यक्त्वमिति न च तैरीदृशो वेति चोक्तः । तस्मात्तुभ्यं नम इति वचोमात्रमेवास्मि वच्मि प्रायो यस्मात्प्रसरतितरां भारती ज्ञानशर्भा ॥ १३॥ सर्वाङ्गीणः सकलवपुषामन्तरे योऽन्तरात्मा तिष्ठन्काष्ठे दहन इव नो दृश्यसे युक्तिशून्यैः । यश्च प्राणारणिषु नियतैर्मथ्यमानासु सद्भि- र्दृश्य ज्योतिर्भवसि परमादित्य तस्मै नमस्ते ॥ १४॥ स्तोता स्तुत्यः स्तुतिरिति भवान्कर्तृकर्मक्रियात्मा क्रीडत्येकस्तव नुतिविधावस्वतन्त्रस्ततोऽहम् । यद्वा वच्मि प्रणयसुभगं गोपते तच्च तथ्यं त्वत्तो ह्यन्यत्किमिव जगतां विद्यते तन्मृषा स्यात् ॥ १५॥ ज्ञानं नान्तःकरणरहितं विद्यतेऽस्मद्विधानां त्वं चात्यन्तं सकलकरणागोचरत्वादचिन्त्यः । ध्यानातीतस्त्वमिति न विना भक्तियोगेन लभ्य- स्तस्माद्भक्तिं शरणममृतप्राप्तयेऽहं प्रपन्नः ॥ १६॥ हार्दं हन्ति प्रथममुदिता या तमःसंश्रितानां सत्त्वोद्रेकात्तदनु च रजः कर्मयोगक्रमेण । स्त्रभ्यस्ता च प्रथयतितरां सत्त्वमेव प्रपन्ना निर्वाणाय व्रजति शमिनां तेऽर्क भक्तिस्त्रयीव ॥ १७॥ तामासाद्य श्रियमिव गृहे कामधेनुं प्रवासे ध्वान्ते भातिं धृतिमिव वने योजने ब्रह्मनाडिम् । नावं चास्मिन् विषमविषयग्राहसंसारसिन्धौ गच्छेयं ते परमममृतं यन्न शीतं न चोष्णम् ॥ १८॥ अग्नीषोमावखिलजगतः कारणं तौ मयूखैः सर्गादाने सृजसि भगवन्दासवृद्धिक्रमेण । तावेवान्तर्विषुवति समौ जुह्वतामात्मवह्नौ द्वावप्यस्तं नयसि युगपन्मुक्तये भक्तिभाजाम् ॥ १९॥ स्थूलत्वं ते प्रकृतिगहनं नैव लक्ष्यं ह्यनन्तं सूक्ष्मत्वं वा तदपि सदसद्व्यक्त्यभावादचिन्त्यम् । ध्यायामीत्थं कथमविदितं त्वामनाद्यन्तमन्त- स्तस्मादर्क प्रणियिनि मयि स्वात्मनैव प्रसीद ॥ २०॥ यत्तद्वेद्यं किमपि परमं शब्दतत्त्वं त्वमन्त- स्तत्सद्व्यक्तिं जिगमिषु शनैर्लान्ति मात्राकलाः खे । अव्यक्तेन प्रणववपुषा बिन्दुनादोदितं स- च्छब्दब्रह्मोच्चरति करणव्यञ्जितं वाचकं ते ॥ २१॥ प्रातःसन्ध्यारुणकिरणभागृङ्म्ययं राजसं यन्- मध्ये चापि ज्वलदिव यजुः शुक्लभाः सात्त्विकं वा । सायं सामास्तमितकिरणं यत्तमोल्लासिरूपं साह्नः सर्गस्थितिलयविधावाकृतिस्ते त्रयीव ॥ २२॥ ये पातालोदधिमुनिनगद्वीपलोकाधिबीज- च्छन्दोभूतस्वरमुखनदत्सप्तसप्तिं प्रपन्नाः । ये चैकाश्व निरवयववाग्भावमात्राधिरूढं ते त्वामेव स्वरगुणकलावर्जितं यान्त्यनश्वम् ॥ २३॥ दिव्यं ज्योतिः सलिलपवनैः पूरयित्वा त्रिलोकी- मेकीभूतं पुनरपि च तत्सारमादाय गोभिः । अन्तर्लीनो विशसि वसुधां तद्गतः सूयसेऽन्नं तच्च प्राणांस्त्वमिति जगतां प्राणभृत्सूर्य आत्मा ॥ २४॥ अग्नीषोमौ प्रकृतिपुरुषौ बिन्दुनादौ च नित्यौ प्राणापानावषि दिननिशे ये च सत्यानृते द्वे । धर्माधर्मौ सदसदुभयं योऽन्तरावेश्य योगी वर्तेतात्मन्युपरतमतिर्निर्गुणं त्वां विशेत्सः ॥ २५॥ गर्भाधानप्रसवविधये सुप्तयोरिन्दुभासा सापत्न्येनाभिमुखमिव खे कान्तयोर्मध्यसंस्थः । द्यावापृथ्व्योर्वदनकमले गोमुखैर्बोधयित्वा पर्यायेणापिबसि भगवन् षड्रसास्वादलोलः ॥ २६॥ सोमं पूर्णामृतमिव चरुं तेजसा साधयित्वा कृत्वा तेनानलमुखजगत्तर्पर्ण वैश्वदेवम् । आमावस्यं विधसमिव खे तत्कलाशेषमश्नन्- ब्रह्माण्डान्तर्गृहपतिरिव स्वात्मयागं करोषि ॥ २७॥ कृत्वा नक्तन्दिनमिव जगद्बीजमाव्यक्तिकं यत्- तत्रैवान्तर्दिनकर तथा ब्राह्ममन्यत्ततोऽल्पम् । दैवं पित्र्यं क्रमपरिगतं मानुषं चाल्पमल्पं कुर्वन्ककुर्वन्कलयसि जगत्पञ्चधावर्तनाभिः ॥ २८॥ तत्त्वालोके तपन सुदिने ये परं सम्प्रबुद्धा ये वा चित्तोपशमरजनीयोगनिद्रामुपेताः । तेऽहोरात्रोपरमपरमानन्दसन्ध्यासु सौरं भित्त्वा ज्योतिःपरमपरमं यान्ति निर्वाणसंज्ञम् ॥ २९॥ आ ब्रह्मेद नवमिव जगज्जङ्गमस्थावरान्तं सर्गे सर्गे विसृजसि रवे गोभिरुद्रिक्तसोमैः । दीप्तैः प्रत्याहरसि च लये तद्यथायोनि भूयः सर्गान्तादौ प्रकटविभवां दर्शयन् रश्मिलीलाम् ॥ ३०॥ श्रित्वा नित्योपचितमुचितं ब्रह्मतेजःप्रकाशं रूपं सर्गस्थितिलयमुचा सर्वभूतेषु मध्ये । अन्तेवासिष्विव सुगुरुणा यः परोक्षः प्रकृत्या प्रत्यक्षोऽसौ जगति भवता दर्शितः स्वात्मनात्मा ॥ ३१॥ लोकाः सर्वे वपुषि नियतं ते स्थितिस्त्वं च तेषा- मेकैकस्मिन्युगपदगुणो विश्वहेतोर्गुणीव । इत्थम्भूते भवति भगवन्नत्वदन्योऽस्मि सत्यं किं तु ज्ञस्त्वं परमपुरुषोऽहं प्रकृत्यैव चाज्ञः ॥ ३२॥ सङ्कल्पेच्छाद्यखिलकरणप्राणवाण्यो वरेण्याः सम्पन्ना मे त्वदभिनवनाज्जन्म चेदं शरण्यम् । मन्ये चास्तं जिगमिषु शनैः पुण्यपापद्वयं तद्- भक्तिश्रद्धे तव चरणयोरन्यथा नो भवेताम् ॥ ३३॥ सत्यं भूयो जननमरणे त्वत्प्रपन्नेषु न स्त- स्तत्राप्येकं तव नुतिफलं जन्म याचे तदित्थम् । त्रैलोक्येशः शम इव परः पुण्यकायोऽप्ययोनिः संसाराब्धौ प्लव इव जगत्तारणाय स्थिरः स्याम् ॥ ३४॥ सौषुम्णेन त्वममृतपथेनैत्य शीतांशुभावं पुष्णास्यग्रे सुरनरपितॄन् शान्तभाभिः कलाभिः । पश्चादम्भो विशसि विविधाश्चौषधीस्तद्गतोऽपि प्रीणास्येवं त्रिभुवनमतस्ते जगन्मित्रतार्क ॥ ३५॥ मन्दाक्रान्ते तमसि भवता नाथ दोषावसाने नान्तर्लीना मम मतिरियं गाढनिद्रां जहाति । तस्मादस्तङ्गमिततमसा पद्मिनीवात्मभासा सौरीत्येषा दिनकर परं नीयतामाशु बोधम् ॥ ३६॥ येन ग्रासीकृतमिव जगत्सर्वमासीत्तदस्तं ध्वान्तं नीत्वा पुनरपि विभो तद्दयाघ्रातचित्तः । धत्से नक्तन्दिनमपि गती शुक्लकृष्णे विभज्य त्राता तस्माद्भव परिभवे दुष्कृते मेऽपि भानो ॥ ३७॥ आसंसारोपचितसदसत्कर्मबन्धाश्रिताना- माधिव्याधिप्रजनमरणक्षुत्पिपासार्दितानाम् । मिथ्याज्ञानप्रबलतमसा नाथ चान्धीकृतानां त्वं नस्त्राता भव करुणया यत्रतत्रस्थितानाम् ॥ ३८॥ सत्यासत्यस्खलितवचसां शौचलज्जोज्झीता- नामज्ञानानामफलसफलप्रार्थनाकातराणाम् । सर्वावस्थास्वखिलविषयाभ्यस्तकौतूहलानां त्वं नस्त्राता भव पितृतया भोगलोलार्भकाणाम् ॥ ३९॥ यावद्देहं जरयति जरा नान्तकादेत्य दूती नो वा भीमस्त्रिफणभुजगाकारदुर्वारपाशः । गाढं कण्ठे लगति सहसा जीवितं लेलिहान- स्तावद्भक्ताभयद सदयं श्रेयसे नः प्रसीद ॥ ४०॥ विश्वप्राणग्रसनरसनाटोपकोपप्रगल्भं मृत्योर्वक्त्रं दहननयनोद्दामदंष्ट्राकरालम् । यावदृष्ट्वा व्रजति न भिया पञ्चतामेष काय- स्तावन्नित्यामृतमय रवे पाहि नः कान्दिशीकान् ॥ ४१॥ शब्दाकारं वियदिव वपुस्ते यजुःसामधाम्नः सप्तच्छन्दांस्यषि च तुरगा ऋङ्मयं मण्डलं च । एवं सर्वश्रुतिमयतया मद्दयानुग्रहाद्वा क्षिप्रं मत्तः कृपणकरुणाक्रन्दमाकर्णयेमम् ॥ ४२॥ नाशं नास्माच्चरणशरणा यान्त्यपि ग्रस्यमाना देवैरित्थं सितमिव यशो दर्शयन्स्वं त्रिलोक्याम् । मन्ये सोमं क्षततनुममागर्भवृद्ध्या विवस्त्रन् शुक्लां छायां नयसि शनकैः स्वां सुषुम्णांशुभासा ॥ ४३॥ आस्तां जन्मप्रभृति भवतः सेवनं तद्धि लोके वाच्यं केनापरिमितफलं भुक्तिमुक्तिप्रकारम् । ज्योतिर्मात्रं स्मृतिपथमितो जीवितान्तेऽपि भास्वन्- निवीणाय प्रभवसि सतां तेन ते कः समोऽन्यः ॥ ४४॥ अप्रत्यक्षत्रिदशभजनाद्यत्परोक्षं फलं तत्- पुसां युक्तं भवति हि समं कारणेनैव कार्यम् । प्रत्यक्षस्त्वं सकलजगतां यत्समक्षं फलं मे युष्मद्भक्तेः ससुचितमतस्तत्तु याचे यथा त्वाम् ॥ ४५॥ ये चारोग्यं दिशति भगवान्सेवितोऽप्येवमाहु- स्ते तत्त्वज्ञा जगति सुभगा भोगयोगप्रधानाः । भुक्तेर्मुक्तेरपि च जगतां यच्च पूर्णं सुखानां तस्यान्योऽर्कादमृतवपुषः को हि नामास्तु दाता ॥ ४६॥ हित्वा हित्वा गुरुचपलतामप्यनेकान्निजार्थान्- यैरेकार्थीकृतमिव भवत्सेवनं मत्प्रियार्थम् । तेषामिच्छाम्युपकृतिमहं स्वेन्द्रियाणां प्रियाणा- मादौ तस्मान्मम दिनपते देहि तेभ्यः प्रसादम् ॥ ४७॥ किं तन्नामोच्चरति वचनं यस्य नोच्चारकस्त्वं किं तद्वाच्यं सकलवचसां विश्वमूर्ते न यत्त्वम् । तस्मादुक्तं यदपि तदपि त्वन्नुतौ भक्तियोगा- दस्माभिस्तद्भवतु भगवंस्त्वत्प्रसादेन धन्यम् ॥ ४८॥ या पन्थानं दिशति शिशिराद्युत्तरं देवयानं या वा कृष्णं पितृपथमथो दक्षिणं प्रावृडाद्यम् । ताभ्यामन्या विषुवदभिजिन्मध्यमा कृत्यशून्या धन्या काश्चित्प्रकृतिपुरुषावन्तरा मेऽस्तु वृत्तिः ॥ ४९॥ स्थित्वा किञ्चिन्मन इव पिबन्सेतुबन्धस्य मध्ये प्राप्योपेयं ष्ठवपदमथो व्यक्तमुद्दाल्य तालु । सत्यादूर्ध्वं किमपि परमं व्योम सोमाग्निशून्यं गच्छेयं त्वां सुरपितृगती चान्तरा ब्रह्मभूतः ॥ ५०॥ सर्वात्मत्वं सवितुरिति यो वाङ्मनःकायबुद्ध्या रागद्वेषोपशमसमतायोगमेवारुरुक्षुः । धर्माधर्मग्रसनरशनामुक्तये युक्तियुक्तां स श्रीसाम्बः स्तुतिमिति रवेः स्वप्रशान्तां चकार ॥ ५१॥ भक्तिश्रद्धाद्यखिलतरुणीवल्लभेनेदमुक्तं श्रीसाम्बेन प्रकटगहनं स्तोत्रमध्यात्मगर्भम् । यः सावित्रं पठति नियतं स्वात्मवत्सर्वलोकान्- पश्यन्सोऽन्ते व्रजति शुकवन्मण्डलं चण्डरश्मेः ॥ ५२॥ इति परमरहस्यश्लोकपञ्चाशदेषा तपननवनपुण्या सागमब्रह्मचर्चा । हरतु दुरितमस्मद्वर्णिताकर्णिता वो दिशतु च शुभसिद्धिं मातृवद्भक्तिभाजाम् ॥ ५३॥ इति साम्बप्रणीता साम्बपञ्चाशिका सम्पूर्णा ॥