अक्षर आकार:

रुद्रविभूतिस्तोत्रम्

Rudra VibhUti Stotram

रुद्रविभूतिस्तोत्रम्

नमः शिवाय रुद्राय कद्रुद्राय प्रचेतसे । मीढुष्टमाय सर्वाय शिपिविष्टायरंहसे ॥ १॥ नमस्ते कालकालाय नमस्ते रुद्र मन्यवे । नमः शिवाय रुद्राय शङ्कराय शिवाय ते ॥ २॥ उग्रोसि सर्वभूतानां नियन्तासि शिवोसि नः । नमः शिवाय शर्वाय शङ्करायार्तिहारिणे ॥ ३॥ ग्रहाधिपत्ये भगवानभ्यषिञ्चद्दिवाकरम् । वृक्षाणां ओषधीनां च सोमं ब्रह्मा प्रजापतिः ॥ ४॥ अपां च वरुणं देवं धनानां यक्षपुङ्गवम् । आदित्यानां तथा विष्णुं वसूनां पावकं तथा ॥ ५॥ प्रजापतीनां दक्षं च मरुतां शक्रमेव च । दैत्यानां दानवानां च प्रह्लादं दैत्यपुङ्गवम् ॥ ६॥ धर्मं पितॄणामधिपं निरृतिं पिशितासिनाम् । रुद्रं पशूनां भूतानां नन्दीनां गणनायकम् ॥ ७॥ वीराणां विरभद्रं च पिशाचानां भयङ्करम् । मातॄणां चैव चामुण्डां सर्वदेवनमस्कृताम् ॥ ८॥ रुद्राणां देवदेवेशं नीललोहितमीश्वरम् । विघ्नानां व्योमजं देवं गजास्यं तु विनायकम् ॥ ९॥ स्त्रीणां देवीं उमादेवीं वचसां च सरस्वतीम् । विष्णुं मायाविनां चैव स्वत्मानां जगतां तथा ॥ १०॥ हिमवन्तं गिरीणां तु नदीनां चैव जाह्नवीम् । समुद्राणां च सर्वेषामधिपं पयसां निधिम् ॥ ११॥ वृक्षाणां चैव चाश्वत्थं प्लक्षं च प्रपितामहः ॥ १२॥ गन्धर्वविद्याधरकिन्नराणामीशं पुनाश्चित्ररथं चकार । नागाधिपं वासुकिमुग्रवीर्यं सर्पाधिपं तक्षकमुग्रवीर्यम् ॥ १३॥ दिग्वारणानामधिपं चकार गजेन्द्रमैरावतमुग्रवीर्यम् । सुपर्णमीशं पततामथाश्वराजानामुच्छैःश्रवसं चकार ॥ १४॥ सिंहं मृगाणां वृषभं गावां च मृगाधिपानां शरभं चकार । सेनाधिपानां गुहमप्रमेयं श्रुतीस्मृतीनां लकुलीशमीशम् ॥ १५॥ अभ्यषिञ्चत्सुधर्माणं तथा शङ्खापदं दिशाम् । केतुमन्तं क्रमेणैव हेमरोमाणमेव च ॥ १६॥ पृथिव्यां पृथुमीशानं सर्वेषां तु महेश्वरम् । चतुर्मूर्तिषु सर्वज्ञं शङ्करं वृषभध्वजम् ॥ १७॥ इति रुद्रविभूतिस्तोत्रं सम्पूर्णम् ।