अक्षर आकार:

श्रीरुद्रसहस्रनामस्तोत्रं भृङ्गिरिटिसंहितायाम्

Shri RudrasahasranAmastotram from Bhringiritisamhita

श्रीरुद्रसहस्रनामस्तोत्रं भृङ्गिरिटिसंहितायाम्

॥ पूर्वपीठिका ॥ कैलासाचलश‍ृङ्गाग्रे रत्नसिंहासने स्थितम् । पार्वत्या सहितं देवं शिवं वेदान्तवर्णितम् ॥ १॥ कदाचिद्भगवान्विष्णुः आगत्य परया मुदा । तुष्टाव विविधैस्स्तोत्रैः भगवन्तमुमापतिम् ॥ २॥ महादेव! महादेव! महादेव! दयानिधे! । भवानेव भवानेव भवानेव गतिर्मम ॥ ३॥ स्रष्टारोऽपि प्रजानां प्रबलभवभयाद्यं नमस्यन्ति देवाः यश्चित्ते सम्प्रविष्टोऽप्यवहितमनसां ध्यानयुक्तात्मनां च । लोकानामादिदेवः स जयतु भगवन्श्रीभवानीसमेतः बिभ्राणः सोमलेखामहिवलयवरं गाङ्गचन्द्रौ कपालम् ॥ ४॥ नमश्शिवाय साम्बाय सगणाय ससूनवे । सनन्दिने सगङ्गाय सवृषाय नमो नमः ॥ ५॥ स्वर्णासनाय सौम्याय शक्तिशूलधराय च । नमो दिक्चर्मवस्त्नाय ईशानाय नमो नमः ॥ ६॥ ब्रह्मणे ब्रह्मदेहाय नमस्तत्पुरुषाय ते । नमोऽन्धकविनाशाय अघोराय नमो नमः ॥ ७॥ रुद्राय पञ्चवक्त्राय वामदेवाय ते नमः । सर्वरोगविनाशाय सद्योजाताय ते नमः ॥ ८॥ गिरिशाय सुदेहाय सुन्दराय नमो नमः । भीमायोग्रस्वरूपाय विजयाय नमो नमः ॥ ९॥ सुरासुराधिपतये अनन्ताय नमो नमः । सूक्ष्माय वह्निहस्ताय वरखट्वाङ्गधारिणे ॥ १०॥ शिवोत्तमाय भर्गाय विरूपाक्षाय ते नमः । शान्ताय च तमोघ्नाय एकनेत्राय ते नमः ॥ ११॥ बेधसे विश्वरूपाय एकरुद्राय ते नमः । भक्तानुकम्पिनेऽत्यर्थं नमस्तेऽस्तु त्रिमूर्तये ॥ श्रीकण्ठाय नमस्तेऽस्तु रुद्राणां शतधारिणे ॥ १२॥ पञ्चास्याय शुभास्याय नमस्तेऽस्तु शिखण्डिने । एवं स्तुतो महादेवः प्राह गम्भीरया गिरा ॥ १३॥ किं तवेष्टं मम पुरो वद विष्णो ! प्रियंकर ! । इत्युक्तः कमलाक्षस्तु शिवं प्राह रमापतिः ॥ १४॥ लोकानां रक्षणे तावत् नियुक्तो भवता ह्यहम् । तद्रक्षणे यथाशक्तो भवेयं च तथा कुरु ॥ १५॥ असुराणां वधार्थाय बलं देहि वपुष्षु मे । रुद्रनामसहस्रं च तदर्थं वद मे प्रभो ॥ १६॥ इति सम्प्रार्थितस्तेन माधवेन महेश्वरः । प्रोवाच रुद्रनामानि तन्माहात्म्यस्य सङ्ग्रहम् ॥ १७॥ अजैकपादहिर्बुध्न्यः त्वष्टा प्रोक्तस्तृतीयगः । विश्वरूपहरश्चैव बहुरूपस्त्रियम्बकः ॥ १८॥ अपराजितस्सप्तमश्च अष्टमश्च वृषाकपिः । शम्भुः कपर्दी दशमः रैवत एकादशः स्मृतः ॥ १९॥ इत्येकादशरुद्राणां नामानि कथितानि ते । जामातारमनाहूय शिवं शान्तिं पिनाकिनम् ॥ २०॥ यज्ञमारब्धवान्दक्षः मामेकं च सतीपतिम् । इति विज्ञाय सङ्क्रुद्धः भगवान्सोमशेखरः ॥ २१॥ प्रलयाग्रिप्रभो रुद्रः सहस्रशिरसान्वितः । द्विसहस्रकरो दीर्घः सकलायुधपाणिमान् ॥ २२॥ अट्टहासकरो भीमः द्विसहस्राक्षिसंयुतः । महोग्रनर्तनाभिज्ञः सर्वसंहारताण्डवः ॥ २३॥ दक्षाध्वरं नाशितवान् ततो देवाः पलायिताः । अतः श्रीरुद्रदेवस्य पूजनात्सर्वदेवताः ॥ २४॥ प्रीताश्च वरदाने याः सुमुख्यश्च भवन्ति ताः । तस्मात्त्वमपि देवेशं रुद्रं सम्पूजयाधुना ॥ २५॥ तात्पूजनोपकाराय तन्नामानि वदामि ते । श‍ृणु त्वं श्रद्धयोपेतः तन्नामानि वराणि च ॥ २६॥ इत्युक्त्वा भगवान्देवो विष्णवे प्रभविष्णवे । रुद्रस्यारम्भमन्त्रोऽयं प्रणवः परिकीर्तितः ॥ २७॥ ततो नमश्चेति परं भगवते च ततः परम् । रुद्रायेति ततः पश्चात् मन्त्रक्रम उदीरितः ॥ २८॥ प्रत्यक्षरं नामशतं सहसं क्रमशो भवेत् । रुद्रनामां सहस्रं च उपदिश्यान्तर्दधे प्रभुः ॥ २९॥ ॥ न्यासः ॥ अस्य श्रीरुद्रसहस्रनामस्तोत्रमहामन्त्रस्य । भगवान् महादेव ऋषिः । देवीगायत्रीछन्दः । सर्वसंहारकर्ता श्रीरुद्रो देवता । श्रींबीजम् । रुं शक्तिः । द्रं कीलकम् । श्रीरुद्र प्रसादसिद्धयर्थे जपे विनियोगः । ॐ अङ्गुष्ठाभ्यां नमः । नं तर्जनीभ्यां नमः । मं मध्यमाभ्यां नमः । भं अनामिकाभ्यां नमः । गं कनिष्ठिकाभ्यां नमः । वं करतलकरपृष्ठाभ्यां नमः । तें हृदयाय नमः । रुं शिरसे स्वाहा । द्रां शिखायै वषट् । यं कवचाय हुम् । ॐ नेत्रत्रयाय वौषट् । श्रीं अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः । ॥ ध्यानम् ॥ नेत्राणां द्विसहस्रकैः परिवृतमत्युग्रचर्माम्बरं हेमाभं गिरिशं सहस्रशिरसं आमुक्तकेशान्वितम् । घण्टामण्डितपादपद्मयुगलं नागेन्द्रकुम्भोपरि तिष्ठन्तं द्विसहस्रहस्तमनिशं ध्यायामि रुद्रं परम् ॥ ॥ पञ्चपूजा ॥ लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पाणि समर्पयामि । यं वाय्वात्मने धूपमाघ्रापयामि । रं वह्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतं निवेदयामि । सं सर्वात्मने सर्वोपचारान्समर्पयामि । सहस्रनामस्तोत्र पारायणसमाप्तौ अङ्गन्यासमात्रं कृत्वा ध्यात्वा दिग्विमोकं, लमित्यादि पञ्चपूजां च कुर्यात् ॥ ॥ अथ श्रीरुद्रसहस्रनामस्तोत्रम् ॥ । ॐ नमो भगवते रुद्राय । ॐ ऐं ह्रीं जपस्तुत्यः ॐ नमः पदवाचकः । ॐकारकर्ता चोंकारवेत्ता चोंकारबोधकः ॥ १॥ ॐकारकन्दरासिंहः ॐकारज्ञानवारिधिः । ॐकारकन्दाकुरिकः ॐकारवदनोज्ज्वलः ॥ २॥ ॐकारकाकुदश्चायं ॐकारपदवाचकः । ॐकारकुण्डसप्तार्चिः ॐकारावालकल्पकः ॥ ३॥ ॐकारकोकमिहिरः ॐकारश्रीनिकेतनः । ॐकारकण्ठश्चोंकारस्कन्धश्चोंकारदोर्युगः ॥ ४॥ ॐकारचरणद्वन्द्वः ॐकारमणिपादुकः । ॐकारचक्षुश्चोञ्कारश्रुतिश्चोञ्कारभ्रूर्युगः ॥ ५॥ ॐकारजपसुप्रीतः ॐकारैकपरायणः । ॐकारदीर्घिकाहंसश्चोञ्कारजपतारकः ॥ ६॥ ॐकारपदतत्त्वार्थः ॐकाराम्भोधिचन्द्रमाः । ॐकारपीठमध्यस्थः ॐकारार्थप्रकाशकः ॥ ७॥ ॐकारपूज्यश्चोञ्कारस्थितश्चोञ्कारसुप्रभुः । ॐकारपृष्ठश्चोञ्कारकटिश्चोञ्कारमध्यमः ॥ ८॥ ॐकारपेटकमणिः ॐकाराभरणोज्ज्वलः । ॐकारपञ्जरशुकः ॐकारार्णवमौक्तिकः ॥ ९॥ ॐकारभद्रपीठस्थः ॐकारस्तुतविग्रहः । ॐकारभानुकिरणः ॐकारकमलाकरः ॥ १०॥ ॐकारमणिदीपार्चिः ॐकारवृषवाहनः । ॐकारमयसर्वाङ्ग ॐकारगिरिजापतिः ॥ ११॥ ॐकारमाकन्दविकः ॐकारादर्शबिम्बितः । ॐकारमूर्तिश्चोंकारनिधिश्चोंकारसन्निभः ॥ १२॥ ॐकारमूर्धा चोंकारफालश्चोंकारनासिकः । ॐकारमण्डपावासः ॐकाराङ्गणदीपकः ॥ १३॥ ॐकारमौलिश्चोंकारकेलिश्चोंकारवारिधिः । ॐकारारण्यहरिणः ॐकारशशिशेखरः ॥ १४॥ ॐकाराराममन्दारः ॐकारब्रह्मवित्तमः । ॐकाररूपश्चोंकारवाच्य ॐकारचिन्तकः ॥ १५॥ ॐकारोद्यानबर्हीच ॐकारशरदम्बुदः । ॐकारवक्षाश्चोंकार कुक्षिश्चोंकारपार्श्वकः ॥ १६॥ ॐकारवेदोपनिषत् ॐकाराध्वरदीक्षितः । ॐकारशेखरश्चैव तथा चोंकारविश्वकः ॥ १७॥ ॐकारसक्थिश्चोंकारजानुश्चोंकारगुल्फकः । ॐकारसारसर्वस्वः ॐकारसुमषट्पदः ॥ १८॥ ॐकारसौधनिलयः ॐकारास्थाननर्तकः । ॐकारहनुरेवायं ॐकारवटु रीरितः ॥ १९॥ ॐकारज्ञेय एवायं तथा चोंकारपेशलः । ॐ नं बीजजपप्रीतः ॐ यों भंमंस्वरूपकः ॥ २०॥ ॐपदातीतवस्त्वंशः ओमित्येकाक्षरात्परः । ॐपदेन च संस्तव्यः ॐकारध्येय एव च ॥ २१॥ ॐ यं बीजजपाराध्यः ॐकारनगराधिपः । ॐ वं तें बीजसुलभः ॐ रुं द्रां बीजतत्परः ॥ २२॥ ॐ शिवायेति सञ्जप्यः ॐ ह्रीं श्रीं बीजसाधकः । नकाररूपो नादान्तो नारायणसमाश्रितः ॥ २३॥ नगप्रवरमध्यस्थो नमस्कारप्रियो नटः । नगेन्द्रभूषणो नागवाहनो नन्दिवाहनः ॥ २४॥ नन्दिकेशसमाराध्यो नन्दनो नन्दिवर्धनः । नरकक्लेशशमनो निमेषो निरुपद्रवः ॥ २५॥ नरसिंहार्चितपदः नवनागनिषेवितः । नवग्रहार्चितपदो नवसूत्रविधानवित् ॥ २६॥ नवचन्दनलिप्ताङ्गो नवचन्द्रकलाधरः । नवनीत प्रियाहारो निपुणो निपुणप्रियः ॥ २७॥ नवब्रह्मार्चितपदो नगेन्द्रतनयाप्रियः । नवभस्मविदिग्धाङ्गो नवबन्धविमोचकः ॥ २८॥ नववस्त्रपरीधानो नवरत्नविभूषितः । नवसिद्धसमाराध्यो नामरूपविवर्जितः ॥ २९॥ नाकेशपूज्यो नादात्मा निर्लेपो निधनाधिपः । नादप्रियो नदीभर्ता नरनारायणार्चितः ॥ ३०॥ नादबिन्दुकलातीतः नादबिन्दुकलात्मकः । नादाकारो निराधारो निष्प्रभो नीतिवित्तमः ॥ ३१॥ नानाक्रतुविधानज्ञो नानाभीष्टवरप्रदः । नामपारायणप्रीतो नानाशास्रविशारदः ॥ ३२॥ नारदादि समाराध्यो नवदुर्गार्चनप्रियः । निखिलागम संसेव्यो निगमाचारतत्परः ॥ ३३॥ निचेरुर्निष्क्रियो नाथो निरीहो निधिरूपकः । नित्यक्रुद्धो निरानन्दो निराभासो निरामयः ॥ ३४॥ नित्यानपायमहिमा नित्यबुद्धो निरंकुशः । नित्योत्साहो नित्यनित्यो नित्यानन्द स्वरूपकः ॥ ३५॥ निरवद्यो निशुम्भघ्नो नदीरूपो निरीश्वरः । निर्मलो निर्गुणो नित्यो निरपायो निधिप्रदः ॥ ३६॥ निर्विकल्पो निर्गुणस्थो निषङ्गी नीललोहितः । निष्कलंको निष्मपञ्चो निर्द्वन्द्वो निर्मलप्रभः ॥ ३७॥ निस्तुलो नीलचिकुरो निस्सङ्गो नित्यमङ्गलः । नीपप्रियो नित्यपूर्णो नित्यमङ्गलविग्रहः ॥ ३८॥ नीलग्रीवो निरुपमो नित्यशुद्धो निरञ्जनः । नैमित्तिकार्चनप्रीतो नवर्षिगणसेवितः ॥ ३९॥ नैमिशारण्यनिलयो नीलजीमूतनिस्वनः । मकाररूपो मन्त्रात्मा मायातीतो महानिधिः ॥ ४०॥ मकुटाङ्गदकेयूरकंकणादिपरिष्कृतः । मणिमण्डपमध्यस्थो मृडानीपरिसेवितः ॥ ४१॥ मधुरो मधुरानाथो मीनाक्षीप्राणवल्लभः । मनोन्मनो महेष्वासो मान्धानृपति पूजितः ॥ ४२॥ मयस्करो मृडो मृग्यो मृगहस्तो मृगप्रियः । मलयस्थो मन्दरस्थो मलयानिलसेवितः ॥ ४३॥ महाकायो महावक्त्रो महादंष्ट्रो महाहनुः । महाकैलासनिलयो महाकारुण्यवारिधिः ॥ ४४॥ महागुणो महोत्साहो महामङ्गलविग्रहः । महाजानुर्महाजङ्घो महापादो महानखः ॥ ४५॥ महाधारो महाधीरो मङ्गलो मङ्गलप्रदः । महाधृतिर्महामेघः महामन्त्रो महाशनः ॥ ४६॥ महापापप्रशमनो मितभाषी मधुप्रदः । महाबुद्धिर्महासिद्धिर्महायोगी महेश्वरः ॥ ४७॥ महाभिषेकसन्तुष्टो महाकालो महानटः । महाभुजो महावक्षाः महाकुक्षिर्महाकटिः ॥ ४८॥ महाभूतिप्रदो मान्यो मुनिबृन्द निषेवितः । महावीरेन्द्रवरदो महालावण्यशेवधिः ॥ ४९॥ मातृमण्डलसंसेव्यः मन्त्रतन्त्रात्मको महान् । माध्यन्दिनसवस्तुत्यो मखध्वंसी महेश्वरः ॥ ५०॥ मायाबीजजपप्रीतः माषान्नप्रीतमानसः । मार्ताण्डभैरवाराध्यो मोक्षदो मोहिनीप्रियः ॥ ५१। मार्ताण्डमण्डलस्थश्च मन्दारकुसुमप्रियः । मिथिलापुर संस्थानो मिथिलापतिपूजितः ॥ ५२॥ मिथ्याजगदधिष्ठानो मिहिरो मेरुकार्मुकः । मुद्गौदनप्रियो मित्रो मयोभूर्मन्त्रवित्तमः ॥ ५३॥ मूलाधारस्थितो मुग्धो मणिपूरनिवासकः । मृगाक्षो महिषारूढो महिषासुरमर्दनः ॥ ५४॥ मृगाङ्कशेखरो मृत्युञ्जयो मृत्युविनाशकः । मेरुश‍ृङ्गाग्रनिलयो महाशान्तो महीस्तुतः ॥ ५५॥ मौञ्जीबद्धश्च मघवान्महेशो मङ्गलप्रदः । मञ्जुमञ्जीरचरणो मन्त्रिपूज्यो मदापहः ॥ ५६॥ मंबीज जपसन्तुष्टः मायावी मारमर्दनः । भक्तकल्पतरुर्भाग्यदाता भावार्थगोचरः ॥ ५७॥ भक्तचैतन्यनिलयो भाग्यारोग्यप्रदायकः । भक्तप्रियो भक्तिगम्यो भक्तवश्यो भयापहः ॥ ५८॥ भक्तेष्टदाता भक्तार्तिभञ्जनो भक्तपोषकः । भद्रदो भङ्गुरो भीष्मो भद्रकालीप्रियङ्करः ॥ ५९॥ भद्रपीठकृतावासो भुवन्तिर्भद्रवाहनः । भवभीतिहरो भर्गो भार्गवो भारतीप्रियः ॥ ६०॥ भव्यो भवो भवानीशो भूतात्मा भूतभावनः । भस्मासुरेष्टदो भूमा भर्ता भूसुरवन्दितः ॥ ६१॥ भागीरथीप्रियो भौमो भगीरथसमर्चितः । भानुकोटिप्रतीकाशः भगनेत्रविदारणः ॥ ६२॥ भालनेत्राग्निसन्दग्धमन्मथो भूभृदाश्रयः । भाषापतिस्तुतो भास्वान् भवहेतिर्भयंकरः ॥ ६३॥ भास्करो भास्कराराध्यो भक्तचित्तापहारकः । भीमकर्मा भीमवर्मा भूतिभूषणभूषितः ॥ ६४॥ भीमघण्टाकरो भण्डासुरविध्वंसनोत्सुकः । भुम्भारवप्रियो भ्रूणहत्यापातकनाशनः ॥ ६५॥ भूतकृद् भूतभृद्भावो भीषणो भीतिनाशनः । भूतव्रातपरित्राता भीताभीतभयापहः ॥ ६६॥ भूताध्यक्षो भरद्वाजो भारद्वाजसमाश्रितः । भूपतित्वप्रदो भीमो भैरवो भीमनिस्वनः ॥ ६७॥ भूभारोत्तरणो भृङ्गिरिरटिसेव्यपदाम्बुजः । भूमिदो भूतिदो भूतिर्भवारण्यकुठारकः ॥ ६८॥ भूर्भुवस्स्वः पतिः भूपो भिण्डिवालभुसुण्डिभृत् । भूलोकवासी भूलोकनिवासिजनसेवितः ॥ ६९॥ भूसुराराघनप्रीतो भूसुरेष्टफलप्रदः । भूसुरेड्यो भूसूरेशो भूतभेताल सेवितः ॥ ७०॥ भैरवाष्टकसंसेव्यो भैरवो भूमिजार्चितः । भोगदो भोगभुग्भोग्यो भोगिभूषणभूषितः ॥ ७१॥ भोगमार्गप्रदो भोगी भोगिकुण्डलमण्डितः । भोगमोक्षप्रदो भोक्ता भिक्षाचरणतत्परः ॥ ७२॥ गकाररूपो गणपो गुणातीतो गुहप्रियः । गजचर्मपरीधानो गम्भीरो गाधिपूजितः ॥ ७३॥ गजाननप्रियो गौरीवल्लभो गिरिशो गुणः । गणो गृत्सो गृत्सपतिर्गरुडाग्रजपूजितः ॥ ७४॥ गदाद्यायुधसम्पन्नो गन्धमाल्यविभूषितः । गयाप्रयागनिलयो गुडाकेशप्रपूजितः ॥ ७५॥ गर्वातीतो गण्डपतिर्गणको गणगोचरः । गायत्रीमन्त्रजनको गीयमानगुणो गुरूः ॥ ७६॥ गुणज्ञेयो गुणध्येयो गोप्ता गोदावरीप्रियः । गुणाकरो गुणातीतो गुरुमण्डलसेवितः ॥ ७७॥ गुणाधारो गुणाध्यक्षो गर्वितो गानलोलुपः । गुणत्रयात्मा गुह्यश्च गुणत्रयविभावितः ॥ ७८॥ गुरुध्यातपदद्वन्द्वो गिरीशो गुणगोचरः । गुहावासो गुहाध्यक्षो गुडान्नप्रीतमानसः ॥ ७९॥ गूढगुल्फो गूढतनुर्गजारूढो गुणोज्ज्वलः । गूढपादप्रियो गूढो गौडपादनिषेवितः ॥ ८०॥ गोत्राणतत्परो ग्रीष्मो गीष्पतिर्गोपतिस्तथा । गोरोचनप्रियो गुप्तो गोमातृपरिसेवितः ॥ ८१ गोविन्दवल्लभो गङ्गाजूटो गोविन्दपूजितः । गोष्ट्यो गृह्यो गुहान्तस्थो गह्वरेष्ठो गदान्तकृत् ॥ ८ गोसवासक्तहृदयो गोप्रियो गोधनप्रदः । गोहत्यादिप्रशमनो गोत्री गौरीमनोहरः ॥ ८३॥ गङ्गास्नानप्रियो गर्गो गङ्गास्नानफलप्रदः । गन्धप्रियो गीतपादो ग्रामणीर्गहनो गिरिः ॥ ८४ गन्धर्वगानसुप्रीतो गन्धर्वाप्सरसां प्रियः । गन्धर्वसेव्यो गन्धर्वो गन्धर्वकुलभूषणः ॥ ८५॥ गंबीजजपसुप्रीतो गायत्रीजपतत्परः । गम्भीरवाक्यो गगनसमरूपो गिरिप्रियः ॥ ८६॥ गम्भीरहृदयो गेयो गम्भीरो गर्वनाशनः । गाङ्गेयाभरणप्रीतो गुणज्ञो गुणवान्गुहः ॥ ८७॥ वकाररूपो वरदो वागीशो वसुदो वसुः । वज्री वज्रप्रियो विष्णुः वीतरागो विरोचनः ॥ ८८॥ वन्द्यो वरेण्यो विश्वात्मा वरुणो वामनो वपुः । वश्यो वशंकरो वात्यो वास्तव्यो वास्तुपो विधिः ॥ ८९॥ वाचामगोचरो वाग्मी वाचस्पत्यप्रदायकः । वामदेवो वरारोहो विघ्नेशो विघ्ननाशकः ॥ ९०॥ वारिरूपो वायुरूपो वैरिवीर्य विदारणः । विक्लबो विह्वलो व्यासो व्याससूत्रार्थगोचरः ॥ ९१॥ विप्रप्रियो विप्ररूपो विप्रक्षिप्रप्रसादकः । विप्राराधनसन्तुष्टो विप्रेष्टफलदायकः ॥ ९२॥ विभाकरस्तुतो वीरो विनायकनमस्कृतः । विभुर्विभ्राजिततनुर्विरूपाक्षो विनायकः ॥ ९३॥ विरागिजनसंस्तुत्यो विरागी विगतस्पृहः । विरिञ्चपूज्यो विक्रान्तो वदनत्रयसंयुतः ॥ ९४॥ विश‍ृंखलो विविक्तस्थो विद्वान्वक्त्रचतुष्टयः । विश्वप्रियो विश्वकर्ता वषट्कारप्रियो वरः ॥ ९५॥ विश्वमूर्तिर्विश्वकीर्तिर्विश्वव्यापी वियत्प्रभुः । विश्वस्रष्टा विश्वगोप्ता विश्वभोक्ता विशेषवित् ॥ ९६॥ विष्णुप्रियो वियद्रूपो विराड्रूपो विभावसुः । वीरगोष्ठीप्रियो वैद्यो वदनैकसमन्वितः ॥ ९७॥ वीरभद्रो वीरकर्ता वीर्यवान्वारणार्तिहृत् । वृषांको वृषभारूढो वृक्षेशो विन्ध्यमर्दनः ॥ ९८॥ वेदान्तवेद्यो वेदात्मा वदनद्वयशोभितः । वज्रदंष्ट्रो वज्रनखो वन्दारुजनवत्सलः ॥ ९९॥ वन्द्यमानपदद्वन्द्वो वाक्यज्ञो वक्त्रपञ्चकः । वंबीजजपसन्तुष्टो वाक्प्रियो वामलौचनः ॥ १००॥ व्योमकेशो विधानज्ञो विषभक्षणतत्परः । तकाररूपस्तद्रूपस्तत्पदार्थस्वरूपकः ॥ १०१॥ तटिल्लतासमरुचिस्तत्त्वज्ञानप्रबोधकः । तत्त्वमस्यादिवाक्यार्थ स्तपोदानफलप्रदः ॥ १०२॥ तत्त्वज्ञस्तत्त्वनिलयस्तत्त्ववाच्यस्तपोनिधिः । तत्त्वासनस्तत्सवितुर्जपसन्तुष्टमानसः ॥ १०३॥ तन्त्रयन्त्रात्मकस्तन्त्री तन्त्रज्ञस्ताण्डवप्रियः । तन्त्रीलयविधानज्ञस्तन्त्रमार्गप्रदर्शकः ॥ १०४॥ तपस्याध्याननिरतस्तपस्वी तापसप्रियः । तपोलोकजनस्तुत्यस्तपस्विजनसेवितः ॥ १०५॥ तरुणस्तारणस्तारस्ताराधिपनिभाननः । तरुणादित्यसंकाशस्तप्तकाञ्चनभूषणः ॥ १०६॥ तलादिभुवनान्तस्थस्तत्त्वमर्थस्वरूपकः । ताम्रवक्त्रस्ताम्रचक्षुस्ताम्रजिह्वस्तनूदरः ॥ १०७॥ तारकासुरविध्वंसी तारकस्तारलोचनः । तारानाथकलामौलिस्तारानाथसमुद्युतिः ॥ १०८॥ तार्क्ष्यकस्तार्क्ष्यविनुतस्त्वष्टा त्रैलोक्यसुन्दरः । ताम्बूलपूरितमुखस्तक्षा ताम्राधरस्तनुः ॥ १०९॥ तिलाक्षतप्रियस्त्रिस्थस्तत्त्वसाक्षी तमोगुणः । तुरङ्गवाहनारूढस्तुलादानफलप्रदः ॥ ११०॥ तुलसीबिल्वनिर्गुण्डीजम्बीरामलकप्रियः । तुलामाघस्नानतुष्टस्तुष्टातुष्टप्रसादनः ॥ १११॥ तुहिनाचलसंकाशस्तमालकुसुमाकृतिः । तुङ्गभद्रातीरवासी तुष्टभक्तेष्टदायकः ॥ ११२॥ तोमराद्यायुधधरस्तुषाराद्रिसुताप्रियः । तोषिताखिलदैत्यौघस्त्रिकालज्ञमुनिप्रियः ॥ ११३॥ त्रयीमयस्त्रयीवेद्यस्त्रयीवन्द्यस्त्रयीतनुः । त्रय्यन्तनिलयस्तत्त्वनिधिस्ताम्रस्तमोपहः ॥ ११४॥ त्रिकालपूजनप्रीतस्तिलान्नप्रीतमानसः । त्रिधामा तीक्ष्णपरशुः तीक्ष्णेषुस्तेजसां निधिः ॥ ११५॥ त्रिलोकरक्षकस्त्रेतायजनप्रीतमानसः । त्रिलोकवासी त्रिगुणो द्विनेत्रस्त्रिदशाधिपः ॥ ११६॥ त्रिवर्गदस्त्रिकालज्ञस्तृप्तिदस्तुम्बुरुस्तुतः । त्रिविक्रमस्त्रिलोकात्मा त्रिमूर्तिस्त्रिपुरान्तकः ॥ ११७॥ त्रिशूलभीषणस्तीव्रस्तीर्थ्यस्तीक्ष्णवरप्रदः । रघुस्तुतपदद्वन्द्वो रव्यादिग्रहसंस्तुतः ॥ ११८॥ रजताचलश‍ृङ्गाग्रनिलयो रजतप्रभः । रतप्रियो रहःपूज्यो रमणीयगुणाकरः ॥ ११९॥ रथकारो रथपतिः रथो रत्नाकरप्रियः । रथोत्सवप्रियो रस्यो रजोगुणविनाशकृत् ॥ १२०॥ रत्नडोलोत्सवप्रीतो रणत्किंकिणिमेखलः । रत्नदो राजको रागी रङ्गविद्याविशारदः ॥ १२१॥ रत्नपूजनसन्तुष्टो रत्नसानुशरासनः । रत्नमण्डपमध्यस्थो रत्नग्रैवेयकुण्डलः ॥ १२२॥ रत्नाकरस्तुतो रत्नपीठस्थो रणपण्डितः । रत्नाभिषेकसन्तुष्टो रत्नकाञ्चनभूषणः ॥ १२३॥ रत्नाङ्गुलीयवलयो राजत्करसरोरुहः । रमापतिस्तुतो रम्यो राजमण्डलमध्यगः ॥ १२४॥ रमावाणीसमाराध्यो राज्यदो रत्नभूषणः । रम्भादिसुन्दरीसेव्यो रक्षोहा राकिणीप्रियः ॥ १२५॥ रविचन्द्राग्निनयनो रत्नमाल्याम्बरप्रियः । रविमण्डलमध्यस्थो रविकोटिसमप्रभः ॥ १२६॥ राकेन्दुवदनो रात्रिञ्चरप्राणापहारकः । राजराजप्रियो रौद्रो रुरुहस्तो रुरुप्रियः ॥ १२७॥ राजराजेश्वरो राजपूजितो राज्यवर्धनः । रामार्चितपदद्वन्द्वो रावणार्चितविग्रहः ॥ १२८॥ राजवश्यकरो राजा राशीकृतजगत्त्रयः । राजीवचरणो राजशेखरो रविलोचनः ॥ १२९॥ राजीवपुष्पसंकाशो राजीवाक्षो रणोत्सुकः । रात्रिञ्चरजनाध्यक्षो रात्रिञ्चरनिषेवितः ॥ १३०॥ राधामाधवसंसेव्यो राधामाधववल्लभः । रुक्माङ्गदस्तुतो रुद्रो रजस्सत्वतमोमयः ॥ १३१॥ रुद्रमन्त्रजपप्रीतो रुद्रमण्डलसेवितः । रुद्राक्षजपसुपीतो रुद्रलोकप्रदायकः ॥ १३२॥ रुद्राक्षमालाभरणो रुद्राणीप्राणनायकः । रुद्राणीपूजनप्रीतो रुद्राक्षमकुटोज्वलः ॥ १३३॥ रुरुचर्मपरीधानो रुक्माङ्गदपरिष्कृतः । रेफस्वरूपो रुद्रात्मा रुद्राध्यायजपप्रियः ॥ १३४॥ रेणुकावरदो रामो रूपहीनो रविस्तुतः । रेवानदीतीरवासी रोहिणीपतिवल्लभः ॥ १३५॥ रोगेशो रोगशमनो रैदो रक्तबलिप्रियः । रंबीजजपसन्तुष्टो राजीवकुसुमप्रियः ॥ १३६॥ रम्भाफलप्रियो रौद्रदृक् रक्षाकर रूपवान् । दकाररूपो देवेशो दरस्मेरमुखाम्बुजः ॥ १३७॥ दरान्दोलितदीर्घाक्षो द्रोणपुष्पार्चनप्रियः । दक्षाराध्यो दक्षकन्यापतिर्दक्षवरप्रदः ॥ १३८॥ दक्षिणादक्षिणाराध्यो दक्षिणामूर्तिरूपभृत् । दाडिमीबीजरदनो दाडिमीकुसुमप्रियः ॥ १३९ दान्तो दक्षमखध्वंसी दण्डो दमयिता दमः । दारिद्र्यध्वंसको दाता दयालुर्दानवान्तकः ॥ १४० दारुकारण्यनिलयो दशदिक्पालपूजितः । दाक्षायणीसमाराध्यो दनुजारिर्दयानिधिः ॥ १४१ दिव्यायुधधरो दिव्यमाल्याम्बरविभूषणः । दिगम्बरो दानरूपो दुर्वासमुनिपूजितः ॥ १४२॥ दिव्यान्तरिक्षगमनो दुराधर्षो दयात्मकः । दुग्धाभिषेचनप्रीतो दुःखदोषविवर्जितः ॥ १४३॥ दुराचारप्रशमनो दुग्धान्नप्रीतमानसः । दुर्लभो दुर्गमो दुर्गो दुःखहन्ता दुरार्तिहा ॥ १४४॥ दुर्वासा दुष्टभयदो दुर्जयो दुरतिक्तमः । दुष्टहन्ता देवसैन्यपतिर्दम्भविवर्जितः ॥ १४५॥ दुःस्वप्ननाशनो दुष्टदुरो दुर्वारवित्तमः । दूर्वायुग्मसमाराध्यो दुत्तूरकुसुमप्रियः ॥ १४६॥ देवगङ्गाजटाजूटो देवताप्राणवल्लभः । देवतार्तिप्रशमनो दीनदैन्यविमोचनः ॥ १४७॥ देवदेवो दैत्यगुरुः दण्डनाथप्रपूजितः । देवभोग्यो देवयोग्यो दीप्तमूर्तिर्दिवस्पतिः ॥ १४८॥ देवर्षिवर्यो देवर्षिवन्दितो देवभोगदः । देवादिदेवो देवेज्यो दैत्यदर्पनिषूदनः ॥ १४९॥ देवासुरगणाध्यक्षो देवासुरगणाग्रणीः । देवासुर तपस्तुष्टो देवासुरवरप्रदः ॥ १५०॥ देवासुरेश्वराराध्यो देवान्तकवरप्रदः । देवासुरेश्वरो देवो देवासुरमहेश्वरः ॥ १५१॥ देवेन्द्ररक्षको दीर्घो देववृन्दनिषेवितः । देशकालपरिज्ञाता देशोपद्रवनाशकः ॥ १५२॥ दोषाकरकलामौलिर्दुर्वारभुजविक्रमः । दण्डकारण्यनिलयो दण्डी दण्डप्रसादकः ॥ १५३॥ दण्डनीतिर्दुरावासो द्योतो दुर्मतिनाशनः । द्वन्द्वातीतो दीर्घदर्शी दानाध्यक्षो दयापरः ॥ १५४॥ यकाररूपो यन्त्रात्मा यन्त्राराधनतत्परः । यजमानाद्यष्टमूर्तिर्यामिनीचरदर्पहा ॥ १५५॥ यजुर्वेदप्रियो युद्धमर्मज्ञो युद्धकौशलः । यत्नसाध्यो यष्टिधरो यजमानप्रियो यजुः ॥ १५६॥ यथार्थरूपो युगकृद्युगरूपो युगान्तकृत् । यथोक्तफलदो योषापूजनप्रीतमानसः ॥ १५७॥ यदृच्छालाभसन्तुष्टो याचकार्तिनिषूदनः । यन्त्रासनो यन्त्रमयो यन्त्रमन्त्रस्वरूपकः ॥ १५८॥ यमरूपो यामरूपो यमबाधानिवर्तकः । यमादियोगनिरतो योगमार्गप्रदर्शकः ॥ १५९॥ यवाक्षतार्चनरतो यावचिह्नितपादुकः । यक्षराजसखो यज्ञो यक्षेशो यक्षपूजितः ॥ १६०॥ यक्षराक्षससंसेव्यो यातुधानवरप्रदः । यज्ञगुह्यो यज्ञकर्ता यजमानस्वरूपकः ॥ १६१॥ यज्ञान्तकृद्यज्ञपूज्यो यज्ञभुग्यज्ञवाहनः । यागप्रियो यानसेव्यो युवा यौवनगर्वितः ॥ १६२॥ यातायातादिरहितो यतिधर्मपरायणः । यात्राप्रियो यमीयाम्यदण्डपाशनिकृन्तनः ॥ १६३॥ यात्राफलप्रदो युक्तो यशस्वी यमुनाप्रियः । यादःपतिर्यज्ञपतिर्यतिर्यज्ञपरायणः ॥ १६४॥ यादवानां प्रियो योद्धा योधारान्धन तत्परः । यामपूजनसन्तुष्टो योषित्सङ्गविवर्जितः ॥ १६५॥ यामिनीपतिसंसेव्यो योगिनीगणसेवितः । यायजूको युगावर्तो याच्ञारूपो यथेष्टदः ॥ १६६॥ यावौदनप्रीतचित्तो योनिष्ठो यामिनीप्रियः । याज्ञवल्क्यप्रियो यज्वा यज्ञेशो यज्ञसाधनः ॥ १६७॥ योगमायामयो योगमायासंवृतविग्रहः । योगसिद्धो योगिसेव्यो योगानन्दस्वरूपकः ॥ १६८॥ योगक्षेमकरो योगक्षेमदाता यशस्करः । योगी योगासनाराध्यो योगाङ्गो योगसङ्ग्रहः ॥ १६९॥ योगीश्वरेश्वरो योग्यो योगदाता युगन्धरः । योषित्प्रियो यदुपतिर्योषार्धीकृतविग्रहः ॥ १७०॥ यंबीजजपसन्तुष्टो यन्त्रेशो यन्त्रसाधनः । यन्त्रमध्यस्थितो यन्त्री योगीश्वरसमाश्रितः ॥ १७१॥ ॥ उत्तरपीठिका ॥ एतत्ते कथितं विष्णो रुद्रनामसहस्रकम् । श्रवणात्पठनाच्चैव मननाच्च फलप्रदम् ॥ १॥ धर्मार्थिकाममोक्षाख्य चतुर्वर्गफलप्रदम् । विद्याकामी सुविद्यां च लभते नात्र संशयः ॥ २॥ पुत्रार्थी लभते पुत्रं कन्यार्थी फलमश्नुते । विजयार्थी विजयं चैक गृहार्थी गृहमाप्नुयात् ॥ ३॥ पुष्टिं बलं यशो वर्चो दीर्घमायुश्च विन्दते । सर्वज्वरविनाशाय एतन्नामसहस्रकम् ॥ ४॥ पठित्वा पाठयित्वा वा मुच्यते ज्वरपीडनात् । परमन्त्रकृताद्दोषात् रक्षतीदं न संशयः ॥ ५॥ सर्वग्रन्थिविनाशाय पठेन्नामसहस्रकम् । सर्वग्रहविनाशार्थं जपेदेतत्सहस्रकम् ॥ ६॥ अपमृत्युभयं नास्ति अनेकविषनाशनम् । नहि चोरभयं तस्य नामसाहस्रपाठिनः ॥ ७॥ सर्वपुष्पैस्समभ्यर्च्य सर्वसिद्धिमवाप्नुयात् । त्रिदलैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः नवैः ॥ ८॥ रुद्रार्पणं यः करोति सर्वदोषात्प्रमुच्यते । अष्टम्यां पूर्णिमायां च अमायां च विशेषतः ॥ ९॥ आर्द्रायां च प्रदोषे च सोमवारे गुरोर्दिने । यः पठित्वा चार्चनां च कुरुते स च मानवः ॥ १०॥ स सर्वकामान्लभते वाग्यतो नियमी शुचिः । सर्वसौभाग्यमाप्नोति क्षेमारोग्यं सुखं परम् ॥ ११॥ चैत्रे दमनकैः पूजा वैशाखे गन्धवारिभिः । ज्येष्ठे तु त्रिफलैः पक्वैः आषाढे क्षीरमूजनम् ॥ १२॥ श्रावण्यां शर्कराभिः स्यात् गुडापूपैश्च भद्रदे । अन्नैराश्वयुजे मासि कार्तिक्यां दीपमालया ॥ १३॥ मार्गशीर्षे घृतैः पूजा पौषे चेक्षुरसैरपि । आज्यर्द्रकम्बलैर्माघे फाल्गुने दधिभिर्भवेत् ॥ १४॥ इत्थं द्वादशमसेषु पूर्णिमायां विशेषतः । महेश्वरस्य पूजां यः कुरुते भक्तिससंयुतः ॥ १५॥ सर्वान्कामानवाप्नोति शिवसायुज्यमाप्नुयात् । मङ्गलानां मङ्गलं च एतन्नामसहस्रकम् ॥ १६॥ सुरूपं गुणसम्पन्नं कन्या च लभते पतिम् । दीर्घसौमङ्गल्यमाप्नोति मङ्गलानां परम्पराम् ॥ १७॥ ॥ इति श्रीभृङ्गिरिटिसंहितायां शिवविष्णुसंवादे शिवोत्कर्षप्रकरणे श्रीरुद्रसहस्रनामस्तोत्रं सम्पूर्णम् ॥